2 - धातुगण-परिचयः

From Samskrita Vyakaranam
01---dhAtugaNaparicayah/2---dhAtugaNa-paricayaH
Jump to navigation Jump to search


ध्वनिमुद्रणानि - प्रथमपाठे यानि ध्वनिमुद्रणानि सन्ति, तेषु अस्य पाठस्य अपि चर्चा क्रियते

दशगणाः

१. एतावता अस्माभिः दृष्टं यत्‌ धातूनां दशगणाः सन्ति, तथा च विकरण-प्रत्ययेन गणाः भिद्यन्ते |


पठति = पठ्‌ + अ + ति

पठ्‌ – धातुः [अर्थं निर्दिशति]

अ – विकरण-प्रत्ययः [गणं निर्दिशति]

ति – तिङ्‌-प्रत्ययः [लकारं निर्दिशति]

विकरण-प्रत्ययस्य मूल-रूपम्

२. विकरण-प्रत्ययस्य मूल-रूपं भवति | धातुतः क्रियापदस्य निर्माणार्थं सोपानानि सन्ति | सोपानेषु विकरण-प्रत्ययस्य रूपं परिवर्तते | उदाहरणार्थं भ्वादिगणे विकरण-प्रत्ययः शप्‌ | सोपानेषु लट्‌-लकारस्य प्रथमपुरुषैकवचनरूपस्य निर्माणे, विकरण-प्रत्ययः शप्‌ → "अ" इति भवति | एवमेव दशसु लकारेषु—


गणः विकरण-प्रत्ययस्य मूल-रूपम्‌ लट्‌ लकारस्य प्रथमपुरुषैकवचनरूपे विकरण-प्रत्ययस्य आकृतिः
१ भ्वादिगणः शप्‌
२ अदादिगणः नास्ति [शप्‌लोपः] नास्ति
३ जुहोत्यादिगणः नास्ति [शप्‌लोपः] नास्ति
४ दिवादिगणः श्यन्‌
५ स्वादिगणः श्नु नो
६ तुदादिगणः
७ रुधादिगणः श्नम्‌
८ तनादिगणः
९ क्र्यादिगणः श्ना ना
१० चुरादिगणः णिच्‌ + शप्‌ अय


३. उपरि स्थिते कोष्ठके पश्यामः यत्‌ मूल-विकरण-प्रत्ययेषु बहुत्र व्यञ्जनानि सन्ति | किन्तु तस्मिन्‌ एव कोष्ठके पश्यामः यत्‌ लट्‌-लकारे आधिक्येन तानि व्यञ्जनानि न तिष्ठन्ति | किमर्थम्‌ इति चेत्‌, सोपानेषु तानि व्यञ्जनानि अपगच्छन्ति, नाम तेषां लोपः भवति | यस्य लोपः भवति, तस्य विशिष्टं नाम अस्ति— 'इत्' इति संज्ञा | तर्हि विकरण-प्रत्ययेषु बहुत्र व्यञ्जनानाम्‌ इत्‌-संज्ञा भवति | किमर्थम्‌ आरम्भे एतानि व्यञ्जनानि आसन्‌ यदि गच्छन्ति एव ? तैः वर्णैः कार्यं निर्दिष्टम्‌ अस्ति | अपि च तत्‌ कार्यं एषां वर्णानां गमनानन्तरम्‌ अपि सिध्यति | तत्‌ कार्यं किम्‌ इति अग्रे पश्यामः |


४. कः धातुः कस्मिन्‌ गणे प्रविष्टः इति ज्ञातव्यम्‌ अस्माभिः किल | एतावता भवन्तः प्रायः मूल-विषयम्‌ अवगच्छन्ति— नाम, विकरण-प्रत्ययम्‌ अधिकृत्य गणः निर्णेतव्यः | प्रथमे करपत्रे च कथं निर्णीयते इति प्रदर्शितं; परन्तु कुत्रचित्‌ विषयः भ्रमात्मकः भवति | तानि भ्रमात्मकानि स्थलानि अधुना अवलोकयाम |


अ) विकरण-प्रत्ययः नास्ति चेत्‌, धातुः द्वितीयगणे वा, तृतीयगणे वा ?

अदादिगणे सारल्यम्‌ अस्ति— अस्‌ + ति = अस्ति | अस्‌, ति इत्यनयोः मध्ये किमपि नास्ति, अतः द्वितीयः गणः |

जुहोत्यादिगणे यद्यपि विकरण-प्रत्ययः नास्ति, परन्तु धातोः द्वित्वम्‌ अस्ति | दा → ददाति; भी → बिभेति | द्वित्वम्‌ अस्ति इति कारणतः सुलभतया अवगच्छामः तृतीयगणः; अतः द्वित्वं तृतीयगणस्य लक्षणम्‌ |


आ) चतुर्थः गणः वा ? दशमः गणः वा ?

दिवादिगणे विकरण-प्रत्ययस्य केवलं "य" इति भागः दृश्यते क्रियापदे |

चुरादिगणे विकरण-प्रत्ययस्य "अय" इति भागः दृश्यते क्रियापदे |


नश्‌ + य + ति = नश्यति

कथ्‌ + अय + ति = कथयति


भेदः अवगतः किल ? नश्‌ इत्यस्य अनन्तरम्‌ 'अ' न आगच्छति; केवलं 'य' | अतः चतुर्थगणः | कथ्‌ इत्यस्य अनन्तरम्‌ 'अ' अस्ति, तदा 'य'; आहत्य 'अय' | अतः दशमगणः |



इ) पञ्चमः गणः वा ? अष्टमः गणः वा ?

स्वादिगणे लट्‌-लकारस्य प्रथमपुरुषैकवचनरूपे, विकरण-प्रत्ययस्य 'नो' इति भागः दृश्यते |

तनादिगणे लट्‌-लकारस्य प्रथमपुरुषैकवचनरूपे, विकरण-प्रत्ययस्य केवलम्‌ 'ओ' इति भागः दृश्यते |


"नो" "ओ" इत्यनयोः भेदः |


शक्‌ + नो + ति = शक्नोति

तन्‌ + ओ + ति = तनोति


भेदः अवगतः किल ? पञ्चमगणे नकारः विकरण-प्रत्यये अस्ति; अष्टमगणे नकारः धातौ अस्ति |


ई) प्रथमः गणः वा ? षष्ठः गणः वा ?

अस्य भेदस्य अवगमनार्थम्‌ अग्रिमं करपत्रं पठति चेत्‌ वार्ता स्पष्टा भविष्यति इति मन्ये |


2 - dhAtugaNa paricayaH.pdf

Swarup - August 2012