2 - धातुविज्ञानम्‌ - २

From Samskrita Vyakaranam
03---dhaatuvijjaanam/2---dhaatuvijjaanam
Jump to navigation Jump to search
ध्वनिमुद्रणानि
2016 वर्गः
१) it-sangyA-punassmaraNam_+_satva-natva-vidhiH_2016-03-16
२) natvam--णो नः_+_Natvam--रषाभ्यां नो णः समानपदे_+_numAgamaH--इदितो नुम्‌ धातोः_2016-03-23
३) numAgamaH--इदितो नुम्‌ धातोः_+_नश्चापदान्तस्य झलि_+_अनुस्वारस्य ययि परसवर्णः_+_तपरस्तत्कालस्य_2016-03-30
४) taparakaraNaM_+_upadhAdIrghaH--उपधायां च_+_laukika-dhAtu-siddhi-abhyAsaH_2016-04-06
2014 वर्गः
१)  dhAtu-vigyAnam_2_satvaM-natvaM-numAgamaH_2014-11-11
२) dhAtu-vigyAnam_2_numAgamaH_+_upadhAdIrghaH_+_abhyAsaH_2014-11-18


मूलधातूनां लौकिकरूपाणां सिद्ध्यर्थं कार्यद्वयं विचारणीयम्‌ | धातुविज्ञानम्‌ - १ इति पाठे अस्माभिः दृष्टं यत्‌ अनुबन्धानां निष्कासनम्‌ इति प्रथमं कार्यम्‌ | इत्‌-संज्ञकवर्णानां निष्कासनानन्तरं सत्वं, नत्वं, नुमागमः, उपधादीर्घः—चेमानि सङ्गृहीततया द्वितीयं कार्यम्‌ | एषु चतुर्षु किञ्चन सम्भवति वा इति अवश्यं चिन्तनीयम्‌ | सम्भवति चेत्‌, इदं कार्यं कुर्मः; नो चेत्‌ धातुः प्रक्रियार्थं सिद्धः | तर्हि इमानि चत्वारि कार्याणि कानि इति अस्मिन्‌ करपत्रे अवलोकयाम |


१. सत्वम्‌


धात्वादेः षः सः (६.१.६३) = उपदेशावस्थायां धातोः आदौ षकारः अस्ति चेत्‌, षकारस्य स्थाने सकारादेशो भवति | धातोः आदिः, धात्वादिः षष्ठीतत्पुरुषः; तस्य धात्वादेः | धात्वादेः षष्ठ्यन्तं, षः षष्ठ्यन्तं, सः प्रथमान्तं, त्रिपदमिदं सूत्रम्‌ | आदेच उपदेशेऽशिति (६.१.४५) इत्यस्मात्‌ उपदेशे इत्यस्य अनुवृत्तिः | अनुवृत्ति-सहितसूत्रम्— धात्वादेः षः सः उपदेशे |


वृत्तान्ते ष्वदँ आस्वादने इति धातुः | उपदेशेऽजनुनासिक इत् (१.३.२) इत्यनेन दकारोत्तरवर्तिनः अँकारस्य इत्‌-संज्ञा, तस्य लोपः इत्यनेन लोपश्च | ष्वदँ → ष्वद्‌ | धात्वादेः षः सः (६.१.६३) इत्यनेन आदौ स्थितस्य षकारस्य स्थाने सकारादेशः, ष्वद्‌ → स्वद्‌ |


अन्यत्‌ उदाहरणं, ष्ठा गतिनिवृत्तौ इति धातुः | यथासामान्यं, प्रथमं कार्यम्‌ इत्‌-संज्ञकवर्णानां निष्कासनम्‌ | ष्ठा-धातौ कोऽपि इत्‌-संज्ञकः वर्णः नास्ति, अतः प्रथमं सोपानं समाप्तं; साक्षात्‌ द्वितीयं सोपानं गच्छेम— तत्र चतुर्षु कार्येषु सत्वस्य प्रसक्तिः | ष्ठा-धातोः आदौ षकारः अस्ति, अतः धात्वादेः षः सः (६.१.६३) इत्यनेन सूत्रेण षकारस्य स्थाने सकारः | ष्ठा → स्ठा |


अत्र कश्चन प्रसिद्धप्रवादो वर्तते— निमित्तापाये नैमित्तिकस्याप्यपायः | निमित्तस्य अपाये नैमित्तिकस्य अपि अपायः | निमित्तम्‌ इत्युक्ते कारणं, नैमित्तिकम्‌ इत्युक्ते फलम्‌, अपायः इत्युक्ते अभावः | अत्र धेयं यत्‌ यद्यपि 'ष्ठा' इत्येव अस्य धातोः मूलरूपं, किञ्च वस्तुतः यः ठकारः वर्तते, सः थकारः आसीत् | अष्टाध्याय्यां तादृशम्‌ इङ्गितम्‌ अस्ति; कथमिति अग्रे दृश्यताम् | ठकारस्य मूलस्वरूपं थकारः, किन्तु षकारस्य प्रभावेन (ष्टुत्व-सन्धिना) थकारः ठकारः जातः | तदा धात्वादेः षः सः (६.१.६३) इत्यनेन षकारस्य स्थाने सकारादेशः | षकारस्य कारणेन एव थकारः ठकारः जातः इत्युक्तम्‌ | अधुना स च षकारः अपगतः; गतः इति कारणतः, तेन षकारेण कृतं यत्‌ कार्यं, तत्‌ पुनः निवर्तते | कारणं गतम्‌, अतः फलम्‌ अपि गच्छति— येन निमित्तेन कार्यं कारितं, तन्निमित्तं (षकारः) नास्ति चेत्‌, यत्‌ नैमित्तिकम्‌ (ठकारः) अस्ति, तदपि न तिष्ठति | निमित्तापाये नैमित्तिकस्याप्यपायः— षकारः गतः, अतः ठकारः अपि गच्छति | ष्ठा → स्ठा → स्था इति धातुः निष्पन्नः |


तथैव यत्र धातुषु अनुनासिकः वर्गीयवर्णः (ङ्‌, ञ्‌, ण, म्) च अनुस्वारः च अस्ति, तत्र एते वर्णाः नकारजाः | नकारजः नाम नकारात्‌ उत्पन्नः | वृत्तान्ते अञ्चु-धातुः, गतिपूजनयोः | मूलधातुः अञ्चु इत्येव, किन्तु तत्र ञकारस्य मूलस्वरूपं नकारः | चकारस्य योगेन एव सः नकारः ञकारः जातः | धातुषु एवं सर्वत्र बोध्यम्‌ |


ष्णा शौचे इति धातुः | अत्र णकारस्य मूलस्वरूपं नकारः, किन्तु षकारस्य प्रभावेन (ष्टुत्व-सन्धिना) नकारः णकारः जातः | तदा धात्वादेः षः सः इत्यनेन ष्णा → स्णा | निमित्तापाये नैमित्तिकस्याप्यपायः इत्यनेन स्णा → स्ना इति लौकिकः धातुः | स्नाति इति लटि, स्नानम्‌ इति ल्युटि |



अधुना एतत्‌ सर्वं यदुक्तं, तत्तु विषयपरिचयत्वादुक्तं, भावार्थस्य सुखबोधार्थं दत्तं; निमित्तापाये नैमित्तिकस्याप्यपायः इति प्रसिद्धप्रवादस्त्वस्ति— बहुत्र च एतादृशी शिक्षा दीयते यत्‌ ष्ठा, ष्णा इत्यादयः धातवः तथैव उपदेशात्‌ लौकिकस्थितिं प्राप्नुवन्ति | किन्तु भाष्यकारः पतञ्जलिश्च, काशिकाकारौ वामनजयादित्यौ प्रतिपादयतः यत्‌ अयं निमित्तापाये नैमित्तिकस्याप्यपायः इति तु न परिभाषा, न वा वार्त्तिकम्‌; अस्य प्रवादस्य एतस्मिन्‌ विषये सामर्थ्यम्‌ अधिकारो वा नास्ति | अतः शास्त्रीयाश्रयम्‌ अवलम्ब्य प्रतिपादनं भवति चेत्‌ वरं स्यात्‌ | इति विचिन्त्य एतौ द्वौ मुनी एवं वार्तां स्पष्टीकुरुतः—


ष्ठा-धातोः उपदेशावस्थायां मूर्धन्य-षकारः अस्ति, परन्तु दन्त्य-थकारः अस्ति— 'ष्था' इति स्थितिः | अधुना युगपत्‌ ष्टुना ष्टुः (८.४.४१) च धात्वादेः षः सः (६.१.६३) च आगत्य कार्यार्थम्‌ उद्युक्तं भवति | ष्टुना ष्टुः (८.४.४१) इत्यनेन ष्था-धातौ विद्यमानस्य षकारस्य प्रभावेन थकारस्य स्थाने ठकारादेशः, अपि च धात्वादेः षः सः (६.१.६३) इत्यनेन औपदेशिकधातोः आदौ स्थितस्य षकारस्य स्थाने सकारादेशः | अस्यां दशायां द्वयोः सूत्रयोः मध्ये कस्य कार्यं प्रथमं प्रवर्तनीयम्‌ इति प्रश्ने सति अस्माकं पाठे अग्रे वक्ष्यमाणेन पूर्वत्रासिद्धम्‌ (८.२.१) इति सूत्रेण ष्टुना ष्टुः (८.४.४१) इति शास्त्रम्‌ असिद्धं तस्य त्रिपाद्यां विद्यमानत्वात्‌ | धात्वादेः षः सः (६.१.६३) इत्यनेन षकारस्य सकारादेशो भवति; तदा यतोहि तदानीं षकारो नास्त्येव, ष्टुना ष्टुः (८.४.४१) इत्यनेन यः ठकारादेशः भवति स्म, सः तु न भवति असङ्गत्वात्‌ | दन्त्य-थकारः यथावत्‌ तिष्ठति एव, दन्त्य-सकारस्तु जातः अतः लौकिकधातुः स्था इति सम्पन्नम्‌ | अस्यां प्रक्रियायां थकारस्य ठकारः न कदापि भवति | अयं विषयः बाध्यबाधकभावस्य पाठे इतोऽपि स्पष्टं भविष्यति; अस्य अभावे निमित्तापाये नैमित्तिकस्याप्यपायः इति प्रवादः अत्र दत्तः |



प्रक्रियां दृष्ट्वा प्रश्नः उदेति, तर्हि किमर्थं धातुपाठे औपदेशिकधातुः ष्ठा इति दीयते ? कारणमिदं यत्‌ औपदेशिकधातुः एव अपेक्षते चेत्‌, ष्टुत्वस्य अवसरो भवति | धात्वादेः षः सः (६.१.६३) इति सूत्रं प्रवर्तनीयं भवति यदा किमपि कार्यं करणीयं— यदा किमपि लौकिकरूपं सम्पादनीयं भवति | किन्तु औपदेशिकधातुः एव अपेक्षितं चेत्‌, तत्र मूर्धन्य-षकारः अस्त्येव, तदर्थं ष्टुना ष्टुः (८.४.४१) इत्यनेन ठकारादेशं करोति; अनेन ष्ठा इति धातुः जायते |


२. नत्वम्‌


णो नः (६.१.६४) = उपदेशावस्थायां धातोः आदौ णकारः अस्ति चेत्‌, णकारस्य स्थाने नकारादेशः भवति | णः षष्ठ्यन्तं, नः प्रथमान्तं, द्विपदमिदं सूत्रम्‌ | आदेच उपदेशेऽशिति (६.१.४५) इत्यस्मात्‌ उपदेशे इत्यस्य अनुवृत्तिः, धात्वादेः षः सः (६.१.६३) इत्यस्मात्‌ धात्वादेः इत्यस्य अनुवृत्तिः | अनुवृत्ति-सहितसूत्रम्— धात्वादेः णः नः उपदेशे |


णटँ नृत्तौ इति धातुः | प्रथमम्‌ उपदेशेऽजनुनासिक इत् (१.३.२) इत्यनेन अँकारस्य इत्‌-संज्ञा, तस्य लोपः (१.३.९) इत्यनेन लोपश्च | णटँ → णट्‌‌ | णो नः (६.१.६४) इत्यनेन णट्‌ → नट्‌ इति लौकिकः धातुः | नटति लटि, नाटकः ण्वुलि, नटनम्‌ ल्युटि |


अस्य महत्त्वं किम्‌ इति चेत्‌, कार्यं कुत्रचित्‌ अस्मिन्‌ अवलम्ब्यते | यथा णत्व-विषये—

उपसर्गादसमासेऽपि णोपदेशस्य (८.४.१४) = उपसर्गस्थात्‌ निमित्तात्‌ परस्य णोपदेशस्य धातोः नस्य णः स्यात्‌ समासे असमासे अपि | आधिक्येन नकारादि-धातवः यथा नी (नयति), नम्‌ (नमति), नश्‌ (नश्यति), एते धातवः वस्तुतः उपदेशे णकारादयः सन्ति | तदा णो नः (६.१.६४) इत्यनेन, लोके नकारादयः भवन्ति | यत्र एते धातवः उपसर्गपूर्वाः भवन्ति अपि च उपसर्गे णत्वस्य निमित्तं वर्तते— यथा परि + नी — तत्र यतोहि उपसर्गः पृथक्‌ पदम्‌ अस्ति, अतः रषाभ्यां नो णः समानपदे (८.४.१) इति णत्वविधायकसूत्रेण णत्वं न स्यात्‌ | किन्तु उपसर्गादसमासेऽपि णोपदेशस्य (८.४.१४) इति सूत्रेण यत्र णोपदेश-धातुः उपसर्गपूर्वकः अस्ति अपि च उपसर्गे णत्वस्य निमित्तम्‌ अस्ति, तत्र णत्वस्य निमित्तं समानपदे नास्ति चेदपि णत्वं भवति |

यथा समासे—

प्र + नी + ल्युट्‌ → प्र + नयनम्‌ → प्रणयनम्‌

परि + नामः → परिणामः

परि + नी + ण्वुल्‌ → परिणायकः

परि + नम्‌ + क्तिन्‌ → परिणतिः

परि + नह्‌ + क्त → परिणद्धम्‌

परि + नम्‌ + घञ्‌ → परिणामः

असमासे—

समासः सुबन्तानां भवति, न तु तिङन्तानाम्‌ | अतः यत्र उपसर्गे णत्वस्य निमित्तम्‌ अस्ति अपि च तेन सह तिङन्तपदस्य संयोजनं भवति, तत्र समासो नास्ति |

प्र + नदति → प्रणदति


णदँ-धातुः → अनुबन्धलोपानन्तरं णो नः (६.१.६४) इत्यनेन णत्वविधानम्‌ → नद्‌ → नद्‌ + शप्‌ + ति → नदति → प्र + नदति → उपसर्गादसमासेऽपि णोपदेशस्य (८.४.१४) इत्यनेन असमासे अपि उपसर्गस्थात्‌ निमित्तात्‌ णोपदेशस्य णत्वम्‌ → प्रणदति


अन्यानि उदाहरणानि—प्रणमति, प्रणयति, परिणमति, परिणयति इत्यादीनि रूपाणि |


वस्तुतः एते धातवः उपदेशावस्थायां णमँ, णीञ्‌, णशँ, णहँ | एवम्‌ एव ३५ णकारादि-धातवः सन्ति | केवलं अष्टौ धातवः उपदेशे नकारादयः सन्ति—नर्द्‌, नाद्‌, नाथ्‌, नाध्‌, नन्द्‌, नक्क्‌, नॄ, नृत्‌ च | अतः प्रनर्दति, प्रनर्दितुम्‌, प्रनर्दकः—अत्र उपसर्गे णत्वस्य निमित्तम्‌ अस्ति, परन्तु णत्वं न भवति |


धेयं यत्‌ उपसर्गादसमासेऽपि णोपदेशस्य (८.४.१४) इत्यस्य अनुवृत्ति-सहितसूत्रम्‌ अस्ति उपसर्गात्‌ असमासे अपि णोपदेशस्य रषाभ्यां नः णः अट्कुप्वाङ्‌नुम्व्यवाये अपि संहितायाम्‌ |


'अट्कुप्वाङ्‌नुम्व्यवाये अपि' इत्यनेन एतान्‌ वर्णान्‌ वर्जयित्वा निमित्तस्य उद्देश्यस्य च मध्ये अन्यः कोऽपि वर्णः भवति चेत्‌ स च वर्णः णत्वं प्रति व्यवधानम्‌ |


यथा—

प्र + नि + नदति → प्रणिनदति


अत्र प्र-उपसर्गे स्थितस्य रेफस्य प्रभावेन नि-उपसर्गस्थितस्य नकारस्य णत्वं भवति, परन्तु स च नि-उपसर्गस्थितः नकारः, नदति-पदस्य नकारं प्रति णत्वव्यवधानम्‌ | यतोहि मध्ये स्थितः नकारः अट्कुप्वाङ्‌नुमः (अट्‌, कवर्गः, पवर्गः, आङ्‌, नुम्‌) इत्येषु नास्ति |


(प्रणिनदति इति पदे नि-उपसर्गे स्थितस्य नकारस्य णत्वं भवति ८.४.१७ इति सूत्रेण | तस्य च व्याख्या अत्र नावश्यकी |)


अग्रिमोदाहरणं णिदिँ इति धातुः | प्रथमम्‌ उपदेशेऽजनुनासिक इत् (१.३.२) इत्यनेन इकारस्य इत्‌-संज्ञा, तस्य लोपः (१.३.९) इत्यनेन लोपश्च | णिदिँ → णिद्‌ | णो नः (६.१.६४) इत्यनेन णिद्‌ → निद्‌ | अधुना नुमागमः (अधः दृश्यताम्‌) निद्‌ → निन्द्‌‌ इति लौकिक-धातुः |



३. नुमागमः


इदितो नुम्‌ धातोः (७.१.५८) = इदितः धातोः नुम्‌ आगमो भवति | इदित्‌ इत्युक्ते इत्‌ इत्‌ यस्य सः | तत्र प्रथमः इत्‌ नाम ह्रस्वः इकारः* | द्वितीयः इत्‌ नाम इत्‌-संज्ञा | ह्रस्व-इकारस्य इत्‌-संज्ञा यस्य, सः धातुः इदित्‌ | इत्‌ इत्‌ यस्य स इदित्‌ बहुव्रीहिः, तस्य इदितः | इदितः षष्ठ्यन्तं, नुम्‌ प्रथमान्तं, धातोः षष्ठ्यन्तं, त्रिपदमिदं सूत्रम्‌ | सूत्रं स्वयं सम्पूर्णम्— इदितः धातोः नुम्‌ |

तर्हि यः धातुः इदित्‌ अस्ति, तस्य नुमागमः भवति इति इदं सूत्रं सूचयति | बहवः इदितः धातवः सन्ति; यत्र कुत्रापि धातौ ह्रस्व-इकारस्य इत्‌-संज्ञा भवति, तस्मिन्‌ धातौ नुम्‌-आगमः भवति एव | सः धातुः इदित्‌ अस्ति, अतः नुमागमः |


यथा णिदिँ → णिद्‌ | णो नः (६.१.६४) इत्यनेन णिद्‌ → निद्‌ | अयं धातुः इदित्‌, नाम ह्रस्वः इकारः इत्‌-संज्ञकः यस्य सः | निद्‌-धातोः इत्‌ इत्‌ अस्ति इति कारणेन नुमागमः | अधुना निद्‌ धातौ नुम्‌ कुत्र आयाति ? नुम्‌-आगमः मित्‌, अतः अयं नकारः धातोः अन्तिमस्वरात्‌ परे आयाति इति अग्रिमं सूत्रं वक्ति |

नुँम्‌ इति आगमे हलन्त्यम्‌ (१.३.३) इत्यनेन मकारस्य इत्‌-संज्ञा, उपदेशेऽजनुनासिक इत् (१.३.२) इत्यनेन उकारस्य इत्‌‍-संज्ञा, न्‌ इति अवशिष्यते |


मिदचोऽन्त्यात्परः (१.१.४७) = यः मित्‌ अस्ति, सः अच्‌-वर्णेषु अन्त्यात्‌ परः आयाति, अपि च अयं मित्‌ यस्य वर्ण-समुदायस्य, तस्य अन्तिमावयवो भवति | म्‌ इत्‌ यस्य सः मित्‌, बहुव्रीहिः | मित्‌ प्रथमान्तम्‌, अचः षष्ठ्यन्तम्‌, अन्त्यात्‌ पञ्चम्यन्तम्‌, परः प्रथमान्तम्‌, अनेकपदमिदं सूत्रम्‌ | आद्यन्तौ टकितौ (१.१.४६) इत्यस्मात्‌ अन्तः इत्यस्य अनुवृत्तिः | अस्मिन्‌ सूत्रे 'अचः' षष्ठीविभक्तौ; "अचः अन्त्यात्‌" इत्यस्य अर्थः निर्धारणम्‌— नाम "सर्वेषु स्वरेषु अन्तिमः, तस्मात्‌" | अत्र अचः एकवचने यतोहि अनेन अच्‌-जातिः इति इष्टम्‌ | आशयः बहुवचनं, निर्धारण-सप्तमी (बहुषु एकम्‌) | जात्याख्यायामेकस्मिन्बहुवचनमन्यतरस्याम्‌ (१.२.५८) = जाति-आख्यायाम्‌ एकस्मिन्‌ बहुवचनम्‌ अन्यतरस्याम्‌ | तर्हि 'अचः' एकवचने चेदपि सार्वत्रिक-बहुवचनार्थकः | इत्थञ्च षष्ठीविभक्तेः अर्थः 'स्थाने' इति न; षष्ठी स्थानेयोगा (१.१.४९) इति सामान्यम्‌, इदं सूत्रं विशेषः | अनुवृत्ति-सहितसूत्रम्— मित्‌ अचः अन्त्यात्‌ परः अन्तः |


अस्मिन्‌ सूत्रे नुमागमः "यस्य वर्ण-समुदायस्य आगमः, तस्य अन्तिमावयवो भवति", इत्युक्तम्‌ | अस्य अर्थः कः इति स्पष्टं भवति सुबन्तप्रकरणे | ज्ञान-शब्दः बहुवचने 'ज्ञानानि' भवति | ज्ञान + इ [शि-प्रत्ययः, लशक्वतद्धिते (१.३.८) इत्यनेन 'इ' अवशिष्यते] → मिदचोऽन्त्यात्परः (१.१.४७) इत्यनेन नुमागमः → ज्ञान + न्‌ + इ → अयं नकारः ज्ञान इति अङ्गस्य वर्ण-समुदायस्य अन्तिमावयवः इति कारणेन सर्वनामस्थाने चासम्बुद्धौ (६.४.८) इत्यनेन अङ्गस्य उपधायाः दीर्घः → ज्ञानान्‌ + इ → ज्ञानानि | यदि नकारः ज्ञान इति अङ्गस्य अन्तिमावयवः नाभविष्यत्‌, अकारः उपधायां नाभविष्यत्‌, सर्वनामस्थाने चासम्बुद्धौ (६.४.८) इत्यनेन अकारस्य दीर्घादेशः च नाभविष्यत्‌ |


(प्रश्नः— अत्रोक्तं "ज्ञान + इ [शि-प्रत्ययः]” | केचन श्रुतवन्तः स्युः यत्‌ सुबन्तविषये प्रत्ययाः भवन्ति सु, औ, जस्‌ इत्यादयः | तर्हि प्रथमाविभक्तौ बहुवचने 'जस्‌' इति प्रत्ययः भवेत्‌ किल; कथं वा 'शि' इति जातम्‌ ? उत्तरम्‌ अस्ति यत्‌ मूलप्रत्ययाः सु, औ, जस्‌ इति तु सत्यम्‌ | किन्तु अनन्तरं प्रत्ययादेशाः भवन्ति, इत्युक्ते मूलप्रत्ययानां स्थाने आदेशाः भवन्ति | सुबन्तविषये लिङ्गम्‌ अनुसृत्य, कुत्रचित्‌ प्रातिपदिकस्य अन्तिमवर्णम्‌ अनुसृत्य च आदेशाः भिद्यन्ते | नपुंसकलिङ्गे जश्शसोः शिः (७.१.२०) इत्यनेन नपुंसकात्‌ अङ्गात्‌ जस्‌-स्थाने शि-आदेशः | अनेन नपुंसकलिङ्गे, प्रथमाविभक्तौ बहुवचने इकारः आयाति—वनानि, वारीणि, मधूनि, जगन्ति, कर्माणि, धनूंषि, मनांसि |)



तर्हि नुम्‌-आगमः मित्‌ अस्ति (मकारः इत्‌ यस्य सः), अतः नुम्‌ अचः अन्त्यात्‌ परः आयाति |


णिदिँ → निद्‌-धातौ नकारोत्तरवर्ती इकारः अन्तिमः अच्‌, अतः तस्मात्‌ परे नुम्‌ आयाति | तर्हि नि-न्‌-द्‌ इति स्थितिः, निन्द्‌ इति धातुः निष्पन्नः |



तथैव मदिँ → मन्द्‌, वदिँ → वन्द्‌, भदिँ → भन्द्‌, चदिँ → चन्द्‌, ग्लदिँ → ग्लन्द्‌ | परन्तु त्रपिँ → त्रम्प्‌ |

त्रम्प्‌ इत्यस्मिन्‌ किमर्थं मकारः न तु नकारः ? वस्तुतः नकारः आयाति एव; तदा नकारस्थाने अनुस्वारः, अनुस्वारस्थाने तत्तत्‌ वर्गीयः अनुनासिकवर्णः आयाति |


यथा—

वदिँ → वद्‌ → वन्द्‌ → वंद् → वन्द्‌

वदिँ → वद्‌     उपदेशेऽजनुनासिक इत्

वद्‌ → वन्द्‌     इदितो नुम्‌ धातोः

वन्द्‌ → वंद्     नश्चापदान्तस्य झलि

वंद्‌ → वन्द्‌     अनुस्वारस्य ययि परसवर्णः


लाछिँ → लाछ्‌ → लान्छ्‌ → लांछ्‌ → लाञ्छ्‌

कपिँ → कप्‌ → कन्प्‌ → कंप्‌ → कम्प्‌

लबिँ → लब्‌ → लन्ब्‌ → लंब्‌ → लम्ब्‌


नश्चापदान्तस्य झलि (८.३.२४) = अपदान्तस्य नकारस्य मकारस्य च स्थाने अनुस्वारादेशो भवति झलि परे | झल्‌-प्रत्याहारे वर्गस्य प्रथमः, द्वितीयः, तृतीयः, चतुर्थः च वर्णाः अपि च श्‌, ष्‌, स्‌, ह्‌ इति वर्णाः अन्तर्भूताः | पदस्य अन्तः पदान्तः, न पदान्तः अपदान्तः तस्य अपदान्तस्य | नः षष्ठ्यन्तं, च अव्ययपदम्‌, अपदान्तस्य षष्ठ्यन्तं, झलि सप्तम्यन्तं, अनेकपदमिदं सूत्रम्‌ | मो‍ऽनुस्वारः (८.३.२३) इत्यस्मात्‌ मः, अनुस्वारः इत्यनयोः अनुवृत्तिः | तयोर्य्वावचि संहितायाम्‌ (८.२.१०८) इत्यस्मात्‌ संहितायाम् इत्यस्य अधिकारः | अनुवृत्ति-सहितसूत्रम्‌— अपदान्तस्य मः नः च अनुस्वारः झलि संहितायाम् |


अनुस्वारस्य ययि परसवर्णः (८.४.५८) = अनुस्वारस्य स्थाने परसवर्णादेशो भवति ययि परे | परस्य सवर्णः, परसवर्णः, षष्ठी तत्पुरुषः | अनुस्वारस्य षष्ठ्यन्तं, ययि सप्तम्यन्तं, परसवर्णः प्रथमान्तं, त्रिपदमिदं सूत्रम्‌ | यय्‌-प्रत्याहारे श्‌, ष्‌, स्‌, ह्‌ एतान्‌ वर्जयित्वा सर्वे हल्‌-वर्णाः अन्तर्भूताः | तयोर्य्वावचि संहितायाम्‌ (८.२.१०८) इत्यस्मात्‌ संहितायाम् इत्यस्य अधिकारः | अनुवृत्ति-सहितसूत्रम्‌— अनुस्वारस्य ययि परसवर्णः संहितायाम् |


परसवर्णः इत्युक्ते अनुस्वारोत्तरः यः वर्णः, तस्य सवर्णः | सवर्णः नाम अनुस्वारोत्तरवर्ती यः वर्णः तस्य वर्णस्य वर्गे ये स्थिताः ते | अनुस्वारस्य स्थाने तेषु परसवर्णेषु अन्यतमः आदिष्टः भवतु | परन्तु तेषु परसवर्णेषु अस्माभिः कः अपेक्षितः ? स्थाने‍ऽन्तरतमः (१.१.५०) सूचयति यत्‌ यस्य स्थाने आदेशो भवति तस्य अन्तरतमो नाम सदृश आदिष्टो भवतु | वर्गीयव्यञ्जनेषु अनुस्वारस्य सदृशः पञ्चमसदस्यः एव | अतः स्थाने‍ऽन्तरतमः इत्यस्य साहाय्येन अनुस्वारस्य ययि परसवर्णः इत्यनेन अनुस्वारस्य स्थाने अग्रिमवर्णस्य वर्गीयपञ्चमादेशो भवति | नाम क, ख, ग, घ इत्येषु कश्चन परे अस्ति चेत्‌, अनुस्वारस्य स्थाने ङकारादेशः | तथैव च, छ, ज, झ इत्येषु कश्चन परे अस्ति चेत्‌, ञकारादेशः; टवर्गीयः अस्ति चेत्‌ णकारादेशः; पवर्गीयः अस्ति चेत्‌ मकारादेशः | यथा‌—अंग → अङ्ग, मंच → मञ्च, मंता → मन्ता |


अनुस्वारस्य ययि परसवर्णः (८.४.५८) इति सूत्रेण अनुस्वारस्य वर्गीयव्यञ्जनेषु परेषु तत्तद्वर्गस्य पञ्चमो वर्णादेशो भवति | यकारः, वकारः, लकारश्चापि यय्‌-प्रत्याहारे सन्ति, किन्तु वर्गीयव्यञ्जनानि न; तेषां का गतिः ? यवले परे तु य्ँ, व्ँ, ल्ँ इत्यादेशो भवति, इति बोध्यम्‌ |



मोऽनुस्वारः (८.३.२३) = पदान्तस्य मकारस्य स्थाने अनुस्वारादेशः भवति हलि परे | मः षष्ठ्यन्त्म्‌, अनुस्वारः प्रथमान्तं, द्विपदमिदं सूत्रम्‌ | हलि सर्वेषाम्‌ (८.३.२२) इत्यस्मात्‌ हलि इत्यस्य अनुवृत्तिः | पदस्य (८.१.१६) इत्यस्य अधिकारः | तयोर्य्वावचि संहितायाम्‌ (८.२.१०८) इत्यस्मात्‌ संहितायाम् इत्यस्य अधिकारः | अनुवृत्ति-सहितसूत्रं— पदस्य मः अनुस्वारः हलि संहितायाम् |

गृहम्‌ + च → गृहं च

वा पदान्तस्य (८.४.५९) = पदान्तस्य अनुस्वारस्य परसवर्णादेशो वा भवति ययि परे | अनुस्वारस्य ययि परसवर्णः (८.४.५८) इत्यस्य बाधकसूत्रम्‌; अनेन पदान्ते परसवर्णादेशः वैकल्पिकः न तु नित्यः | वा अव्ययपदं, पदान्तस्य षष्ठ्यन्तं, द्विपदमिदं सूत्रम्‌ |


अनुस्वारस्य ययि परसवर्णः (८.४.५८) इत्यस्य पूर्णतया अनुवृत्तिः | तयोर्य्वावचि संहितायाम्‌ (८.२.१०८) इत्यस्मात्‌ संहितायाम् इत्यस्य अधिकारः | अनुवृत्ति-सहितसूत्रं— पदान्तस्य अनुस्वारस्य वा परसवर्णः ययि संहितायाम्‌ |

सं + यमः → सय्ँयमः / संयमः

सं + वत्सरः → सव्ँवत्सरः / संवत्सरः

सं + लापः → सल्ँलापः / संलापः


अधुना अनुस्वारात्‌ परे रेफः अस्ति चेत्‌ का गतिः ? रेफः यय्‌-प्रत्याहारे अन्तर्भूतः अतः तस्य अनुस्वारस्य ययि परसवर्णः (८.४.५८) इति सूत्रेण परसवर्णादेशः स्यात्‌ | किन्तु वस्तुस्थितिः भिन्ना | रेफस्य कोऽपि सवर्णः नास्ति, "रेफोष्मणां सवर्णा न सन्ति" इति भाष्यम्‌ | अतः अनुस्वारात्‌ परे रेफोऽस्ति चेत्‌, किमपि कार्यं नास्ति; यथावत्‌ तिष्ठति |


धेयम्‌—‌ यय्-प्रत्याहारः सूचयति यत्‌ श्‌, ष्‌, स्‌, ह् एषु अन्यतमः परे अस्ति चेत्‌, अनुस्वारस्य परसवर्णादेशो नैव भवति | यथा‌—रंस्यते = रंस्यते, नंस्यति = नंस्यति, संगंस्यते = संगंस्यते |


प्रश्नः उदेति—‌ यदि वदिँ-धातौ नकारादेशः भवति एव, तर्हि किमर्थं वन्द्‌ मूलधातुः न स्यात्‌ ? तथैव यदि लबि मकारः आयाति एव, तर्हि किमर्थं लम्ब्‌ इत्येव मूलधातुः न स्यात्‌ ? उत्तरम्‌ अस्ति यत्‌ तत्र कतिचन कार्याणि सन्ति | यथा अनिदितां हल उपधायाः क्ङिति (६.४.२४) इत्यनेन यः धातुः इदित्‌ नास्ति, तस्य धातोः उपधायां स्थितस्य नकारस्य लोपः स्यात्‌ किति ङिति परे | परन्तु इदित्‌ चेत्‌ अस्माभिः यः नकारः आनीतः, तस्य नकारस्य लोपः कस्यामपि दशायां न भवति | साक्षात्‌ आरम्भतः नकारः अस्ति चेत्‌, तस्य लोपः किति ङिति च भवति | यथा बन्ध-धातौ नकारः उपस्थितः मूलधातौ, अतः किति ङिति परे नकारलोपः | ल्युटि "बन्धनं" (नकारः उपस्थितः यतोहि ल्युट्‌ प्रत्ययः कित्‌ अपि नास्ति, ङित्‌ अपि नास्ति); परन्तु क्तान्तरूपं "बद्ध" (नकारलोपः यतोहि क्त प्रत्ययः कित्‌ अस्ति) | वदिँ धातोः इदितो नुम्‌ धातोः इत्यनेन नुम्‌ आगमः → वन्द् | अस्य नकारस्य लोपः किति ङिति न भवति— यथा क्तान्तरूपं वन्दितः |


*तपरस्तत्कालस्य (१.१.७०) = तकारात्‌ परः यः, तकारः परः यस्मात्‌, द्वयोः अपि समकालस्य बोधकः | तात्परः तपरः पञ्चमीतत्पुरुषः, तः परो यस्मात्‌ सः तपरः, बहुव्रीहिः— द्वावपि अर्थौ | तस्य कालः तत्कालः (तस्य काल इव कालः यस्य स तत्कालः) षष्ठीतत्पुरुषगर्भः बहुव्रीहिः | तस्य तत्कालस्य | तपरः प्रथमान्तम्‌, तत्कालस्य षष्ठ्यन्तम्‌, द्विपदमिदं सूत्रम्‌ | स्वं रूपं शब्दस्याशब्दसंज्ञा (१.१.६८) इत्यस्मात्‌ स्वं रूपम्‌ इत्यनयोः अनुवृत्तिः | अणुदित्सवर्णस्य चाप्रत्ययः (१.१.६९) इत्यस्मात्‌ सवर्णस्य इत्यस्य अनुवृत्तिः | अनुवृत्ति-सहितसूत्रम्‌— तपरः तत्कालस्य स्वस्य रूपस्य सवर्णस्य |


वर्णः ह्रस्वः भवतु, दीर्घः भवतु, तकारात्‌ पूर्वं भवतु, तकारात्‌ परं भवतु; यः वर्णः अनेन तकारेण संयुक्तो भवति, सः तत्कालस्य एव प्रतिनिधिः | अदेङ्‌ गुणः (१.१.२) अस्य उदाहरणम्‌ | अनेन अकारः अत्‌ अतः ह्रस्व-अकारस्य एव प्रतिनिधिः; एङ्‌-प्रत्याहारः तकारात्‌ परः अतः दीर्घ-वर्णानाम्‌ एव प्रतिनिधिः न तु प्लुतानाम्‌ |


यस्मात्‌ ह्रस्व-अचः परे तकारः संयुज्यते, सः अच्‌ केवलं ह्रस्वस्य प्रतिनिधिः— न तु दीर्घस्य प्लुतस्य वा | यथा इत्‌ = ह्रस्वः इकारः, अत्‌ = ह्रस्वः अकारः, उत्‌ = ह्रस्वः उकारः | अतः ह्रस्वम्‌ अकारं बोधयितुम्‌ अत्‌ इति वदामः | नो चेत्‌ व्याकरणे यदा "अकारः" इति वदामः, तदा सः अकारः अकारस्य, आकारस्य, अपि च आ३कारस्य प्रतिनिधिः | अतः माहेश्वरसूत्रेषु केवलम्‌ "अ, इ, उ" इत्यादयः ह्रस्ववर्णाः लिखिताः | ते वर्णाः ह्रस्वस्य, दीर्घस्य, प्लुतस्य च प्रतिनिधयः | दृष्टान्ते "अतः स्थाने इत्‌ भवतु" अपि च "अकारस्य स्थाने इकारः भवतु", द्वयोः वाक्ययोः समानार्थः नास्ति | अकारः इति कथनेन अष्टादश प्रकारकः अकारः गृह्यते (ह्रस्वः उदात्तः/अनुदात्तः/स्वरितः, अनुनासिकः/अननुनासिकः; दीर्घः उदात्तः/अनुदात्तः/स्वरितः, अनुनासिकः/अननुनासिकः; प्लुतः उदात्तः/अनुदात्तः/स्वरितः, अनुनासिकः/अननुनासिकः इत्यनेन अष्टादश भेदाः) | किन्तु तपरं स्वीकृत्य यत्र "अत्‌" उच्चार्यते, तत्र निश्चयेन केवलं षट्‌ प्रकारकः ह्रस्वः अकारः गृह्यते | तदर्थं तपरः क्रियते— तः परो यस्मात्‌ सः तपरः | व्याकरणे "तपरकरणम्‌" इत्युच्यते |


षट्‌ प्रकारकः ह्रस्वः अकारः इयुक्ते ह्रस्व-उदात्त-अनुनासिकः, ह्रस्व-उदात्त-अननुनासिकः, ह्रस्व-अनुदात्त-अनुनासिकः, ह्रस्व-अनुदात्त-अननुनासिकः, ह्रस्व-स्वरित-अनुनासिकः, ह्रस्व-स्वरित-अननुनासिकः | अस्माकं कृते "अत्‌" इत्युक्ते ह्रस्वः अकारः इति चिन्त्यताम्‌ |



४. उपधादीर्घः


उपधायां च (८.२.७८) = धातोः उपधाभूतयोः रेफवकारयोः हल्परयोः इकः दीर्घः स्यात्‌ | हलन्तधातूनाम्‌ उपधायां रेफः वा वकारः वा अस्ति चेत्‌, तयोः वर्णयोः पूर्वम्‌ इकः दीर्घः भवति | इक्‌ = इ, उ, ऋ, ऌ | उपधायां सप्तम्यन्तं, चाव्ययम्‌ | सिपि धातो रुर्वा (८.२.७४) इत्यस्मात्‌ धातोः इत्यस्य अनुवृत्तिः, र्वोरुपधाया दीर्घः इकः (८.२.७६) इत्यस्मात्‌ र्वोः, इकः, दीर्घः इत्येषाम्‌ अनुवृत्तिः, हलि च (८.२.७७) इत्यस्मात्‌ हलि इत्यस्य अनुवृत्तिः | अनुवृत्ति-सहितसूत्रम्‌— धातोः र्वोः उपधायां च इकः दीर्घः हलि |


कुर्दँ (कुर्द +ँ) → कुर्द्‌     उपदेशेऽजनुनासिक इत्

कुर्द्‌ → कूर्द्‌                 उपधायां च

तथैव

खुर्दँ → खूर्द्‌, गुर्दँ → गूर्द्‌ |


अलोऽन्त्यात्पूर्व उपधा (१.१.६५) = वर्णानां‌ समुदाये यः अन्तिमः वर्णः, तस्मात्‌ पूर्वं यः वर्णः अस्य उपधासंज्ञा स्यात्‌ | अलः पञ्चम्यन्तम्‌, अन्त्यात्‌ पञ्चम्यन्तं, पूर्वः प्रथमान्तम्‌, उपधा प्रथमान्तम्‌, अनेकपदमिदं सूत्रम्‌ | अल्‌-प्रत्याहारे सर्वेऽपि वर्णाः अन्तर्भूताः (अच्‌ + हल्‌ = अल्‌) | सूत्रं स्वयं सम्पूर्णम्— अन्त्यात्‌ अलः पूर्वः उपधा |

प्रश्नः उदीयेत— रेफः इत्युक्ते कः वर्णः, यः रकारः उपरि उपविष्टः, अथवा सर्वे रकाराः ? उत्तरम्— सर्वे रकाराः एव | रेफः नाम "रात्‌ इफः" | इफः कश्चन प्रत्ययः | र + इफः = रेफः |


अवधेयम्‌— उपदेशेऽजनुनासिक इत् (१.३.२) इति सूत्रेण सर्वेषाम्‌ अजन्तानां मूलधातूनाम्‌ अन्तिमस्य अचः इत्‌-संज्ञा न भवति | तदा एव इत्‌-संज्ञा भवति यदा सः अच्‌ अनुनासिकः अस्ति | यथा लिखँ, पठँ इत्यादयः धातवः | किन्तु भू, नी इत्यादिषु अजन्तधातुषु अन्तिमः अच्‌-वर्णः अनुनासिकः नास्ति अतः तत्रत्यानाम्‌ अच्‌-वर्णानाम्‌ इत्‌-संज्ञा न भवति | परन्तु "हलन्त्यम्‌" इति सूत्रेण सर्वेषां हलन्तमूलधातूनाम्‌ अन्तिमस्य हलः इत्‌-संज्ञा भवति एव |


अभ्यासः


अधः उपदेशावस्थायां मूलधातवः प्रदर्शिताः | तेषां लौकिक-रूपाणि कानि अपि च कैः सूत्रैः प्राप्तानि इति वक्तव्यम्‌ |


अगिँ, घट्टँ, भ्रेजृँ, चन्चुँ, टिकृँ, शलँ, इण्, गुजिँ, शीङ्, द्रै, णमँ, छुरँ, णुदँ, शुभँ, षुरँ, कठिँ, विद्ऌँ, षिलँ, णिलँ, इलँ, क्लिशँ, णीलँ, ष्टकँ, खुर्द (खुर्दँ), पृषुँ, णखँ, रगेँ, प्लुङ्, षु, ध्रु, चक्कँ, बधँ, टुनदिँ, युच्छँ



धातुविज्ञानम् - २.pdf


Swarup – April 2013 (updated Nov 2014 & March 2016)