07 - दिवादिगणः

From Samskrita Vyakaranam
Jump to navigation Jump to search
ध्वनिमुद्रणानि
2016 वर्गः
१) divAdigaNaH-1--paricayaH_2016-12-28
२) divAdigaNaH-2--sAmAnya-dhAtavaH_+_anidit-dhAtavaH_2017-01-04
३) divAdigaNaH-3--samprasAraNinaH-dhAtavaH_+_RukArAnta-dhAtavaH_2017-01-11
४) divAdigaNaH-4--sthAnentaratamaH-sthAnena-arthena-guNena-pramANena-ca_+_vakArAntAH_+_mid_+_jan_+

_okArAntAH_+_shamAdayaH_2017-01-18

2015 वर्गः
१) divAdigaNaH--1_(sArvadhAtukalakArAH)--pramukha-siddhAntAH_2015-06-23
२) pANinIya-dhAtupATha-pustakasya-paricayaH_+_divAdigaNaH--2_+_sAmAnyadhAtavaH_+_anidit-dhAtavaH_2015-06-30
३) divAdigaNaH--3_anidit-dhAtavaH_+_samprasAraNinaH-dhAtavaH_2015-07-07
४) divAdigaNaH--4_RukArAntAH_vakArAntAH_mid-jan-dhAtU_okArAntAH_shamAdayaH _2015-07-14


दिवादिगणे, कर्त्रर्थे सार्वधातुकप्रत्यये परे धातुभ्यः श्यन्‌ विकरणप्रत्ययः विहितः अस्ति | सर्वप्रथमं कर्तरि शप्‌ (३.१.६८) इत्यनेन शप्‌ विहितः, तदा कर्तरि शप्‌ इति सूत्रं प्रबाध्य दिवादिभ्यः श्यन्‌ (३.१.६९) आगत्य कार्यं करोति | किमर्थम्‌ ? अस्यां दशायां दिवादिभ्यः श्यन्‌ स्वस्य कार्यं न करोति चेत्‌ इदं सूत्रं निरवकाशं भविष्यति | कर्तरि शप्‌ इत्यस्य अन्यत्रलब्धावकाशः अस्ति | अतः दिवादिभ्यः श्यन्‌, कर्तरि शप्‌ इत्यस्य अपवादभूतसूत्रम्‌ | पूर्वपरनित्यान्तरङ्गापवादानामुत्तरोत्तरं बलीयः इति परिभाषया यत्‌ सूत्रं अपवादः अस्ति, तत्‌ अपरस्य अपेक्षया बलवत्‌ | अतः अत्र दिवादिभ्यः श्यन्‌ इति सूत्रस्य कार्यं सिध्यति |


दिवादिभ्यः श्यन्‌ (३.१.६९) = दिवादिगणे स्थितेभ्यः धातुभ्यः श्यन्‌-प्रत्ययः भवति, कर्त्रर्थक-सार्वधातुकप्रत्यये परे | दिव्‌ आदिर्येषां ते, दिवादयः बहुव्रीहिसमासः, तेभ्यः दिवादिभ्यः | दिवादिभ्यः पञ्चम्यन्तं, श्यन्‌ प्रथमान्तं, द्विपदमिदं सूत्रम् | कर्तरि शप्‌ (३.१.६८) इत्यस्मात्‌ कर्तरि इत्यस्य अनुवृत्तिः; सार्वधातुके यक्‌ (३.१.६७) इत्यस्मात्‌ सार्वधातुके इत्यस्य अनुवृत्तिः | प्रत्ययः (३.१.१), परश्च (३.१.२) इत्यनयोः अधिकारः; धातोरेकाचो हलादेः क्रियासमभिहारे यङ्‌ (३.१.२२) इत्यस्मात्‌ धातोः इत्यस्य अधिकारः | अनुवृत्ति-सहितसूत्रम्‌— दिवादिभ्यः धातुभ्यः श्यन्‌ प्रत्ययः परश्च कर्तरि सार्वधातुके |


कर्तरि शप्‌ (३.१.६८) = धातुतः शप्‌-प्रत्ययः भवति, कर्त्रर्थक-सार्वधातुकप्रत्यये परे | अनुवृत्ति-सहितसूत्रम्‌— धातोः शप्‌ प्रत्ययः परश्च कर्तरि सार्वधातुके |


अयं श्यन्‌-प्रत्ययः शित्‌ इति कारणतः तिङ्‌शित्सार्वधातुकम्‌ (३.४.११३) इति सूत्रेण सार्वधातुकप्रत्ययः | तस्मात्‌ कारणात्‌, श्यन्‌-प्रत्यये परे, सार्वधातुकार्धधातुकयोः (७.३.८४) पुगन्तलघूपधस्य च (७.३.८६) इति सूत्राभ्यां गुणकार्यं विहितम्‌ | परन्तु श्यन्‌ अपित्‌, अतः सार्वधातुकमपित्‌ (१.२.४) इति सूत्रेण ङिद्वत्‌ | ङिद्वत्‌ अतः क्क्ङिति च (१.१.५) इति कारणतः यत्र यत्र गुण-कार्यं विहितम्‌, तत्र तत्र निषिद्धम्‌ |


सार्वधातुकमपित्‌ (१.२.४) = अपित्‌ सार्वधातुकम्‌ ङित्‌ इव अस्ति | सार्वधातुकम्‌ प्रथमान्तम्‌, अपित्‌ प्रथमान्तं, द्विपदमिदं सूत्रम्‌ | गाङ्‌कुटादिभ्योऽञ्णिन्ङित्‌ (१.२.१) इत्यस्मात्‌ ङित्‌ इत्यस्य अनुवृत्तिः | अनुवृत्ति-सहितं सूत्रम्‌— सार्वधातुकम्‌ अपित्‌ ङित् |


क्क्ङिति च (१.१.५) = यः प्रत्ययः गित्‌, कित्‌ अथवा ङित्‌ अस्ति, अपि च तस्मा‌त्‌ प्रत्ययात्‌ पूर्वं तस्य एव प्रत्ययस्य कारणतः इकः स्थाने गुणः वा वृद्धिः वा भवति स्म, सः (गुणः वृद्धिः) न भवति | ग्‌ च क्‌ च ङ्‌ च तेषाम्‌ इतरेतरद्वन्द्वः क्क्ङः; क्क्ङः इतः यस्य सः क्क्ङित्‌, तस्मिन्‌ परे क्क्ङिति | द्वन्द्वगर्भबहुव्रीहिसमासः | अत्र ग्‌-स्थाने ककारः खरि च इत्यनेन चर्त्वसन्धिः | क्क्ङिति सप्तम्यन्तं, च अव्ययपदं, द्विपदमिदं सूत्रम्‌ | इको गुणवृद्धी (१.१.३) इत्यस्य पूर्णतया अनुवृत्तिः; न धातुलोप आर्धधातुके (१.१.४) इत्यस्मात्‌ इत्यस्य अनुवृत्तिः | अनुवृत्ति-सहितं सूत्रम्‌— क्क्ङिति च इकः गुणवृद्धी न |


प्रश्नः उदेति यत्‌ श्यन्‌-प्रत्ययस्य आगमनात्‌ प्रागेव किमर्थं न गुणकार्यं भवतु ? यथा दिव्‌-धातुः + तिप्‌ | तिप्‌ तु सार्वधातुकः अतः अनेन किमर्थं न गुणः ? उत्तरम्‌ अस्ति यत्‌ श्यनः विधानं नित्यम्‌, तिपः गुणकार्यम्‌ अनित्यम्‌ इति कारणेन गुणकार्यं निषिद्धम्‌ | पूर्वपरनित्यान्तरङ्गापवादानामुत्तरोत्तरं बलीयः (परिभाषा ३८) | अनया पूर्वसूत्रस्य अपेक्षया परसूत्रं बलवत्‌ भवति; परसूत्रस्य अपेक्षया नित्यसूत्रं बलवत्‌ भवति; नित्यसूत्रस्य अपेक्षया अन्तरङ्गसूत्रं बलवत्‌ भवति; अन्तरङ्गसूत्रस्य अपेक्षया अपवादसूत्रं बलवत्‌ भवति |


नित्यम्‌ | कृताकृतप्रसङ्गी यः विधिः भवति, सः नित्यः इत्युच्यते | समानकाले समानस्थले द्वयोः सूत्रयोः प्रसक्तिरस्ति इति चिन्तयतु | द्वयोर्मध्ये एकस्य सूत्रस्य प्रवृत्तिः कारिता; तदनन्तरमपि अपरस्य सूत्रस्य पुनः प्राप्तिः अस्ति चेत्‌, तस्यां दशायां यत्‌ अपरं सूत्रम्‌ अस्ति, तत्‌ नित्यसूत्रम्‌ इत्युच्यते | नित्यं नाम तस्य प्रसक्तिः पूर्वमपि आसीत्‌, अनन्तरमपि अस्ति | यदा किञ्चन सूत्रं नित्यम्‌ अस्ति, तदा तत्‌ सूत्रं प्रथममेव प्रवर्तनीयम्‌ | नित्यम्‌ इत्यस्मात् कारणात्‌ बलवत्‌ | अतः पूर्वसूत्रं नित्यम्‌ अस्ति चेत्‌ पूर्वसूत्रं सत्यपि पूर्वम्‌ आयाति |


तर्हि आहत्य दिवादिगणे श्यन्‌ विहितः; श्यन्‌ च ङिद्वत्‌ | अस्य एकः परिणामः गुणनिषेधः | परन्तु प्रत्ययस्य ङित्‌‍ ङिद्वत्‌ च भवनेन केवलं गुणनिषेधः सिद्धः इति न; तस्य अनेके प्रभावाः सन्ति | तेषु त्रयः प्रमुखाः अधोलिखिताः |


यः कोऽपि प्रत्ययः कित्‌ ङित्‌ वा भवति, तं प्रत्ययं निमित्तीकृत्य पूर्वं स्थिते अङ्गे यथासङ्गं त्रीणि विशिष्टकार्याणि प्रवर्तनीयानि—


१) अङ्गान्ते उपधायां च इकः गुणः निषिद्धः | दिवादौ पी + श्यन्‌ + ते → पीयते | पुष्‌ + श्यन्‌ + ति → पुष्यति | क्क्ङिति च (१.१.५) |


२) अनिदित्‌-धातूनाम्‌ उपधायां न्‌-लोपः | येषां धातूनाम्‌ इत्‌-संज्ञकः इत्‌ (ह्रस्वः इकारः) नास्ति, तेषां धातूनाम्‌ उपधायां नकारः अस्ति चेत्‌, तस्य लोपो भवति | भ्रंश्‌ + श्यन्‌ + ति‌ → भ्रश्यति | भ्रंश्‌ + श्यन्‌ + शतृ → भ्रश्यत्‌ | अनिदितां हल उपधायाː क्ङिति (६.४.२४) |


३) सम्प्रसारणिनां धातूनाम्‌ सम्प्रसारणम्‌ | यण्‌-स्थाने इक्‌-आदेशः (यण्‌-सन्धौ यथा भवति, तस्य विपरीतक्रमः), किति ङिति प्रत्यये परे | व्यध्‌ + श्यन्‌ + ति → विध्यति | ग्रहि ज्या वयि व्यधि वष्टि विचति वृश्चति पृच्छति भृज्जतीनां ङिति च (६.१.१६) |



अन्यानि कित्‌-ङित्‌-निमित्तकानि कार्याणि यथासङ्गं वक्ष्यन्ते |


सम्प्रति धातूनाम्‌ आयोजनशैली एकवारं स्मारणीया | एकैकस्मिन्‌ पाठे अनया शैल्या धातूनां चिन्तनं प्रवर्तिष्यते |


धातवः चतुर्दशविधाः


एकवारम्‌ धातूनां आयोजन-पद्धतिः का, किमर्थं च इति स्मरणीया |


वयं जानीमः यत्‌ पाणिनेः सूत्राणि आधारीकृत्य प्रातिपदिकानि तदन्तपदम्‌ अनुसृत्य आयोजितानि—पुंसि अकारान्तशब्दाः, देव इव; इकारान्तशब्दाः, मुनि इव; उकारान्तशब्दाः, गुरु इव; ऋकारान्तशब्दाः, कर्तृ इव | स्त्रियां लता, नदी, मति, धेनु, मातृ; क्लीबे वन, मधु, वारि अपि तथा | नाम देवशब्दः बहूनां शब्दानां प्रतिनिधिः, अतः देवशब्दं जानीमश्चेत्‌, बहून्‌ शब्दान्‌ जानीमः एव | अपि च प्रक्रियादृष्ट्या, सिद्धान्तकौमुद्यां प्रातिपदिकानां कृते तादृशी व्यवस्था अस्ति एव | रामशब्दस्य व्युत्पत्तिः प्रदर्शिता; इयं च व्युत्पत्तिः सर्वेषाम्‌ अकारान्त-पुंलिङ्गशब्दानां कृते प्रतिनिधिः | तथैव अग्रेऽपि सर्वेषां प्रातिपदिकानां कृते |


परन्तु यद्यपि धातूनां कृते अपि पाणिनीयसूत्राणि तथैव व्यवस्थापितानि, तथापि एतावता केनापि तादृशम्‌ आयोजनं न कृतम्‌ | न सिद्धान्तकौमुद्यां, न वा अन्यत्र | अधुनैव प्रथमवारम्‌ ऐतिहासिकी पद्धतिः अक्रियत मात्रा दीक्षितपुष्पया | तया सर्वे द्विसहस्रं धातवः चतुर्दशसु भागेषु विभक्ताः— नव अजन्तधातूनां श्रेण्यः, पञ्च च हलन्तधातूनां श्रेण्यः | अजन्तधातवः अन्त्यक्रमेण आयोजिताः; हलन्तधातवः उपधा-क्रमेण विभक्ताः | किमर्थं तथा ? पाणिनेः सूत्राणि तथा सन्ति | अजन्तधातूनां कृते सूत्राणां कार्यम्‌ अन्तिमस्वरम्‌ अनुसृत्य भवति | अतः मात्रा एवमेव रीत्या अजन्तधातवः विभक्ताः—अकारान्ताः, आकारान्ताः, इकारान्ताः, ईकारान्ताः, उकारान्ताः, ऊकारान्ताः, ऋकारान्ताः, ॠकारान्ताः, एजन्ताः च | हलन्तधातूनां कृते पाणिनेः सूत्राणां कार्यं उपधाम्‌ अनुसृत्य भवति | नाम अन्तिमवर्णात्‌ प्राक्‌ यः वर्णः, तम्‌ अनुसृत्य इति | अतः तत्र हलन्तधातूनां कृते अदुपधाः, इदुपधाः, उदुपधाः, ऋदुपधाः, शेषधातवः चेति |


अधुना दिवादिगणे सार्वधातुकलकाराणां रूपाणि कथं भवन्ति इति वीक्षताम्‌ | दिवादिगणः प्रथमधातुगणसमूहे, नाम अस्मिन्‌ गणे अङ्गं सर्वत्र अदन्तम्‌ | श्यन्‌-प्रत्ययस्य शकारस्य इत्‌-संज्ञा लशक्वतद्धिते (१.३.८) इति सूत्रेण, नकारस्य इत्‌-संज्ञा हलन्त्यम्‌ (१.३.३) इति सूत्रेण, तस्य लोपः (१.३.९) इत्यनेन तयोर्लोपः; य इत्यवश्यिष्यते | दिवादिगणीयः धातुः यः कोऽपि भवतु नाम, अङ्गस्य अन्ते "य" इत्यस्य अकारः भवति एव | यथा नृत्‌ + य → नृत्य |


पूर्वमेव अस्माभिः सार्वधातुकलकारेषु (लट्‌, लोट्‌, लङ्‌, विधिलिङ्‌ इत्येषु) तिङ्‌-प्रत्ययाः साधिताः | पूर्वतनेपाठे अदन्ताङ्ग-तिङ्‌प्रत्यययोः संयोजनं कथं भवति परस्मैपदे आत्मनेपदे च इति अवलोकितम्‌ | अधुना दिवादिगणे यावन्तः धातवः सन्ति, तेषां सर्वेषां धातूनां कृते अङ्ग-निर्माण-विधिः अस्माभिः ज्ञायेत | अङ्गस्य सामान्य-चिन्तनं किं, विशेष-चिन्तनं किम्‌ इति ज्ञेयम्‌ | एकवारम्‌ अङ्गं निर्मितं, ततः अग्रे चतुर्णां लकाराणां कृते अवशिष्टं सर्वं (सिद्धतिङ्प्रत्ययाः के, अपि च अङ्ग-तिङ्प्रत्यय-संयोजनविधिः) अस्माभिः ज्ञायते एव | अतः आहत्य, अधुना केवलम्‌ अदन्तम्‌ अङ्गम्‌ अपेक्ष्यते; हस्ते अङ्गम्‌ अस्ति चेत्‌, लटि, लोटि, लङि, विधिलिङि च तिङन्तबुद्धिः प्राप्ता |


तर्हि अस्माकं कुञ्चिका अस्ति अङ्गम्‌; अङ्गं ज्ञायते चेत्‌, लटि, लोटि, लङि, विधिलिङि च सर्वाणि रूपाणि ज्ञायन्ते |


एकवारं दिवादिगणे, चतुर्णां लकाराणां तिङन्तरूपाणि कथं सन्ति इति पश्येम | तदा एवमेव अग्रे कस्यचिदपि धातोः अदन्ताङ्गस्य ज्ञानेन, सर्वाणि तिङन्तरूपाणि ज्ञास्यन्ते | अत्र दृष्टान्ते परस्मैपदे नश्‌-धातुः, अङ्गम्‌ अस्ति नश्‌ + श्यन्‌ → नश्य |


लटि सिद्ध-प्रत्ययाः— लट्‌-लकारे तिङन्तरूपाणि—
ति         तः     अन्ति नश्यति       नश्यतः       नश्यन्ति
सि         थः       थ नश्यसि       नश्यथः       नश्यथ
मि         वः       मः      नश्यामि      नश्यावः     नश्यामः


लोटि सिद्ध-प्रत्ययाः—    लोट्‌-लकारे तिङन्तरूपाणि—
 तु, तात्‌     ताम्‌     अन्तु नश्यतु / नश्यता‌त्‌     नश्यताम्‌     नश्यन्तु
०, तात्‌     तम्‌       त      नश्य/नश्यतात्‌         नश्यतम्       नश्यत
आनि       आव     आम      नश्यानि                 नश्याव      नश्याम


लङि सिद्ध-प्रत्ययाः—   

   लङ्-लकारे तिङन्तरूपाणि—
त्‌         ताम्‌         अन्‌          अनश्यत्‌              अनश्यताम्‌       अनश्यन्‌
स्‌         तम्‌           त अनश्यः              अनश्यतम्‌         अनश्यत
अम्‌         व          म अनश्यम्‌             अनश्याव         अनश्याम


विधिलिङि सिद्ध-प्रत्ययाः—        विधिलिङ्-लकारे तिङन्तरूपाणि—
 इत्‌         इताम्‌       इयुः    नश्येत्‌            नश्येताम्‌             नश्येयुः
 इः          इतम्‌        इत   नश्येः              नश्येतम्‌              नश्येत
इयम्‌        इव         इम                 नश्येयम्           नश्येव      नश्येम


दिवादिगणे, आत्मनेपदे विद्‌-धातुः, अङ्गम्‌ अस्ति विद्‌ + श्यन्‌ → विद्य


लटि सिद्ध-प्रत्ययाः— लट्‌-लकारे तिङन्तरूपाणि—
ते         इते         अन्ते विद्यते            विद्येते                विद्यन्ते
से         इथे          ध्वे विद्यसे            विद्येथे                विद्यध्वे
ए         वहे           महे विद्ये              विद्यावहे             विद्यामहे


लोटि सिद्ध-प्रत्ययाः—    लोट्‌-लकारे तिङन्तरूपाणि—
ताम्‌        इताम्‌     अन्ताम्‌    विद्यताम्‌         विद्येताम्‌             विद्यन्ताम्‌
 स्व         इथाम्‌      ध्वम्‌      विद्यस्व           विद्येथाम्‌             विद्यध्वम्‌
 ऐ          आवहै      आमहै        विद्यै             विद्यावहै              विद्यामहै


लङि सिद्ध-प्रत्ययाः—   

   लङ्-लकारे तिङन्तरूपाणि—
त         इताम्‌         अन्त   अविद्यत        अविद्येताम्‌             अविद्यन्त
 थाः       इथाम्‌          ध्वम्‌ अविद्यथाः      अविद्येथाम्‌            अविद्यध्वम्‌
  इ         वहि           महि अविद्ये         अविद्यावहि             अविद्यामहि


विधिलिङि सिद्ध-प्रत्ययाः—        विधिलिङ्-लकारे तिङन्तरूपाणि—
ईत        ईयाताम्‌      ईरन्‌   विद्येत         विद्येयाताम्‌                 विद्येरन्‌
ईथाः       ईयाथाम्‌     ईध्वम्‌           विद्येथाः       विद्येयाथाम्‌                 विद्येध्वम्‌
ईय         ईवहि         ईमहि         विद्येय          विद्येवहि                  विद्येमहि


अग्रे केवलम्‌ अङ्गं च लट्‌-लकारस्य प्रथमपुरुषैकवचनान्तरूपं दीयते | ततः चतुर्णां लकारणां सर्वाणि रूपाणि ज्ञायन्ते |


दिवादिगणः (140 धातवः)


A. सामान्यधातवः (115 धातवः)


एषां धातूनां कृते किमपि कार्यं नास्ति | केवलं वर्णमेलनम्‌ | इगन्तधातुः वा लघु-इगुपधधातुः वा चेत्‌ सार्वधातुकमपित्‌ (१.२.४), क्क्ङिति च (१.१.५) इत्याभ्यां गुणनिषेधः |


आकारान्तधातवः (1 धातुः)


माङ्‌ माने (मापनार्थे) → मा → मा + श्यन्‌ → माय इति अङ्गम्‌ → माय + ते → लटि मायते


ईकारान्तधातवः (10 धातवः)


सर्वे आत्मनेपदिनः | गुणनिषेधत्वात्‌ अत्रापि किमपि अङ्गकार्यं नास्ति | अपि च ई + य इत्यनयोः संयोजनेन सन्धिकार्यं नास्ति | अतः केवलं वर्णमेलनम्—


पीङ्‌ पाने → पी + श्यन्‌ → पी + य → पीय इति अङ्गम्‌ → पीय + ते → पीयते (पिबति इत्यर्थः)

ईङ्‌ गतौ → ई + श्यन्‌ → ईय → ईयते (गच्छति इत्यर्थः)

प्रीङ्‌ प्रीतौ → प्री + श्यन्‌ → प्रीय → प्रीयते (प्रसन्नः भवति)

रीङ्‌ स्रवणे → री + श्यन्‌ → रीय → रीयते (जलं वहति)

व्रीङ्‌ वृणोत्यर्थे → व्री + श्यन्‌ → व्रीय → व्रीयते (आच्छादयति)

डीङ्‌ विहायसा गतौ → डी + श्यन्‌ → डीय → डीयते (पक्षी डीयते)

दीङ्‌ क्षये → दी + श्यन्‌ → दीय → दीयते (क्षीणः भवति, न्यूनीभवति)

धीङ्‌ आधारे → धी + श्यन्‌ → धीय → धीयते (धारणं करोति)

मीङ्‌ हिंसायाम्‌ → मी + श्यन्‌ → मीय → मीयते (हिंसां कारोति)

लीङ्‌ श्लेषणे → ली + श्यन्‌ → लीय → लीयते (विलीनः भवति)


ऊकारान्तधातवः (2 धातू)


द्वावपि आत्मनेपदिनौ |


षूङ्‌ प्राणिप्रसवे → सू + श्यन्‌ → सू + य → सूय इति अङ्गम्‌ → सूय + ते → सूयते (जनयति, प्रसूयते)

दूङ्‌ परितापे → दूय → दूयते (दुःखी भवति)


अदुपधधातवः (19 धातवः)


णश अदर्शने → नश्‌ + श्यन्‌ → नश्‌ + य → नश्य इति अङ्गम्‌ → नश्य + ति → नश्यति

शक विभाषितो-मर्षणे → शक्‌ + श्यन्‌ → शक्य इति अङ्गम्‌ → शक्य + ति/ते → शक्यति/ते (शक्नोति)

अण प्राणने → अण्‌ + श्यन्‌ → अण्‌ + य → अण्य + ते → अण्यते (जीवितः तिष्ठति)

पद गतौ → पद्‌ + श्यन्‌ → पद्‌ + य → पद्य → पद्य + ते → पद्यते (गच्छति, भवति, घटितो भवति)


रध्‌ → रध्य → रध्यति, मन्‌ → मन्य → मन्यते, तप्‌ → तप्य → तप्यति, शप्‌ → शप्य → शप्यति, णभ → नभ्‌ → नभ्य → नभ्यति, अस्‌ → अस्य → अस्यति, जस्‌ → जस्य → जस्यति, तस्‌ → तस्य → तस्यति, दस्‌ → दस्य → दस्यति, वस्‌ → वस्य → वस्यति, मस्‌ → मस्य → मस्यति, स्नस्‌ → स्नस्य → स्नस्यति, नह्‌ → नह्य → नह्यति


इदुपधधातवः (17 धातवः)


ष्विदा गात्रप्रक्षरणे (स्वेदस्य आगमनम्‌) → स्विद्‌ + श्यन्‌ → स्विद्य इति अङ्गम्‌ → स्विद्य + ति → स्विद्यति

क्लिद्‌ → क्लिद्य → क्लिद्यति

क्ष्विद्‌ → क्ष्विद्य → क्ष्विद्यति

खिद दैन्ये → खिद्‌ + श्यन्‌ → खिद्य → खिद्य + ते → खिद्यते

विद सत्तायाम्‌ → विद्‌ + श्यन्‌ → विद्य → विद्य + ते → विद्यते

षिधु संराद्धौ → सिध्‌ + श्यन्‌ → सिध्य इति अङ्गम् → सिध्य + ति → सिध्यति

डिप्‌ → डिप्य → डिप्यति

क्षिप प्रेरणे (तुदादौ क्षिपति, चुरादौ क्षिपयति) → क्षिप्‌ + श्यन्‌ → क्षिप्य → क्षिप्य + ति → क्षिप्यति

तिम्‌ आर्द्रीभावे → तिम्य → तिम्यति

स्तिम्‌ आर्द्रीभावे → स्तिम्य → स्तिम्यति

क्लिश उपतापे (क्लेश-प्राप्तिः) → क्लिश्‌ → क्लिश्‌ + श्यन्‌ → क्लिश्य इति अङ्गम्‌ → क्लिश्य + ते → क्लिश्यते

लिश अल्पीभावे→ लिश्‌ → लिश्य → लिश्यते

श्लिष आलिङ्गने → श्लिष्‌ → श्लिष्य → श्लिष्यति

इष गतौ → इष्‌ → इष्य → इष्यति

रिष हिंसायाम्‌ → रिष्‌ → रिष्य → रिष्यति

बिस प्रेरणे → बिस्‌ → बिस्य → बिस्यति

ष्णिह प्रीतौ → स्निह्‌ + श्यन्‌ → स्निह्य इति अङ्गम्‌ → स्निह्य + ति → स्निह्यति


उदुपधधातवः (38 धातवः)


बुध अवगमने → बुध्‌ + श्यन्‌ → बुध्य इति अङ्गम्‌ → बुध्य + ते → बुध्यते

युध संप्रहारे → युध्‌ + श्यन्‌ → युध्य इति अङ्गम्‌ → युध्य + ते → युध्यते

क्रुध क्रोधे → क्रुध्‌ + श्यन्‌ → क्रुध्य इति अङ्गम्‌ → क्रुध्य + ति → क्रुध्यति

क्षुध बुभुक्षायाम्‌ → क्षुध् + श्यन्‌ → क्षुध्य इति अङ्गम्‌ → क्षुध्य + ति → क्षुध्यति

शुध शौचे → शुध्‌ + श्यन्‌ → शुध्य इति अङ्गम्‌ → शुध्य + ति → शुध्यति

कुप क्रोधे → कुप्‌ + श्यन्‌ → कुप्य इति अङ्गम्‌ → कुप्य + ति → कुप्यति

पुष पुष्टौ → पुष्‌ + श्यन्‌ → पुष्य इति अङ्गम्‌ → पुष्य + ति → पुष्यति

शुष शोषणे (शुष्कः भवति) → शुष्‌ + श्यन्‌ → शुष्य इति अङ्गम्‌ → शुष्य + ति → शुष्यति

तुष प्रीतौ (सन्तुष्टः भवति) → तुष्‌ + श्यन्‌ → तुष्य इति अङ्गम्‌ → तुष्य + ति → तुष्यति


ऋदुपधधातवः (13 धातवः)


सृज विसर्गे (त्यजति) → सृज्‌ + श्यन्‌ → सृज्य इति अङ्गम्‌ → सृज्य + ते → सृज्यते

नृती गात्रविक्षेपे → नृत्‌ + श्यन्‌ → नृत्य इति अङ्गम्‌ → नृत्य + ति → नृत्यति

तृप प्रीणने (तृप्तः भवति, प्रसन्नः भवति) → तृप्‌ + श्यन्‌ → तृप्य इति अङ्गम्‌ → तृप्य + ति → तृप्यति

हृष तुष्टौ (हर्षः आयाति) → हृष्‌ + श्यन्‌ → हृष्य इति अङ्गम्‌ → हृष्य + ति → हृष्यति

ऋधौ वृद्धौ (वर्धने) → ऋध्‌ + श्यन्‌ → ऋध्य इति अङ्गम्‌ → ऋध्य + ति → ऋध्यति

कृश तनूकरणे (कृशः भवति) → कृश्‌ + श्यन्‌ → कृश्य इति अङ्गम्‌ → कृश्य + ति → कृश्यति

तृष्‌ पिपासायाम् → तृष्यति, गृध्‌ अभिकाङ्क्षायाम् → गृध्यति, दृप्‌ हर्षमोहनयोः → दृप्यति, भृश्‌ अधः पतने → भृश्यति, वृश्‌ आवरणे → वृश्यति, मृष्‌ तितिक्षायाम् → मृष्यति/ते


शेषधातवः (15 धातवः)


पुष्प विकसने → पुष्प्‌ + श्यन्‌ → पुष्प्य इति अङ्गम्‌ → पुष्प्य + ति → पुष्प्यति

दीपी दीप्तौ (प्रकाशते) → दीप्‌ + श्यन्‌ → दीप्य इति अङ्गम्‌ → दीप्य + ति → दीप्यति

पूरी आप्यायने (पूरणे) → पूर् + श्यन्‌ → पूर्य इति अङ्गम्‌ → पूर्य + ति → पूर्यति

व्रीड्‌ चोदने, लज्जायां च → व्रीड्यति, राध्‌ वर्धनं→ राध्यति, स्तीम्‌ आर्द्रीभावे → स्तीम्यति


B. विशेषधातवः (25 धातवः)


1. अनिदित्‌-धातूनाम्‌ उपधायां नकारलोपः (2 धातू)


यस्य धातोः ह्रस्व-इकारस्य इत्‌-संज्ञा भवति, सः धातुः इदित्‌ इति उच्यते | यः धातुः इदित्‌, नास्ति, सः अनिदित्‌ इत्युच्यते | अनिदितां धातूनाम्‌ उपधायाः नकारस्य लोपः भवति किति ङिति प्रत्यये परे | दिवादिगणे तादृशौ द्वौ धातू स्तः, रञ्ज रागे → रञ्ज्‌, भ्रंशु अधःपतने → भ्रंश् च | श्यन्‌ ङिद्वत्‌ अतः श्यनि परे अनयोः धात्वोः न-लोपो भवति |


धातुपाठे अनुस्वारः, वर्गीयव्यञ्जनानां पञ्चमसदस्याः च, इमे सर्वे मूले दन्त्य-नकारः एव इति बोध्यम्‌ | तदा सन्धिकार्येण नकारस्य स्थाने अनुस्वारः, ततः अग्रे च यथासङ्गम्‌ अनुस्वारस्य स्थाने अन्यानि वर्गीयव्यञ्जनानि आयान्ति |


अतः दिवादिगणे रञ्ज्‌-धातोः मूलरूपम्‌ अस्ति वस्तुतः रन्ज्‌; भ्रंश्-धातोः मूलरूपम्‌ अस्ति भ्रन्श्‌ | यथा—


रन्ज्‌ → नश्चापदान्तस्य झलि इत्यनेन झलि परे अपदान्तस्य नकारस्य स्थाने अनुस्वारादेशः → रंज्‌ → अनुस्वारस्य ययि परसवर्णः इत्यनेन ययि परे अनुस्वारस्य स्थाने परसवर्णादेशः → रञ्ज्‌ | अतः धातुः अस्ति रञ्ज्‌, परन्तु उपधायां नकारः अस्ति इति बोध्यम्‌ |


रञ्ज्‌ → दिवादिभ्यः श्यन्‌ (३.१.६९) इत्यनेन दिवादौ श्यन्‌ भवति कर्त्रर्थे सार्वधातुकप्रत्यये परे → रन्ज् + श्यन्‌ → अनिदितां हल उपधायाः क्ङिति (६.४.२४) इत्यनेन ङिति प्रत्यये परे उपधायां स्थितस्य नकारस्य लोपः → रज्‌ + य → रज्य इति अङ्गम् → रज्य + ति/ते → रज्यति/ रज्यते


अयं रञ्ज्‌-धातुः भ्वादौ अपि अस्ति | तत्र शप्‌ इति विकरणं; शप्‌ च न कित्‌ न वा ङित्‌ अतः अनिदितां हल उपधायाः क्ङिति (६.४.२४) इति सूत्रेण नलोपः न भवति | परन्तु तत्रापि नलोपः इष्टः, अतः पानिणिना तदर्थं विशिष्टसूत्रं विरचितम्‌—


रञ्जेश्च (६.४.२६) = रञ्ज्‌-धातोः अपि नकारस्य लोपः भवति शपि परे | रञ्जेः षष्ठ्यन्तं, च अव्ययपदं, द्विपदमिदं सूत्रम्‌ | श्नान्नलोपः (६.४.२३) इत्यस्मात्‌ नलोपः इत्यस्य अनुवृत्तिः | अङ्गस्य (६.४.१) इत्यस्य अधिकारः | अनुवृत्ति-सहितसूत्रम्‌— रञ्जेः च अङ्गस्य नलोपः शपि |


भ्वादिगणे रजति/रजते इति रूपे भवतः |


भ्रन्श्‌ → नश्चापदान्तस्य झलि इत्यनेन झलि परे अपदान्तस्य नकारस्य स्थाने अनुस्वारादेशः → भ्रंश्‌ | शकारः ययि नास्ति, अतः परसवर्णादेशः न भवति | तर्हि धातुः भ्रंश्‌, परन्तु उपधायां नकारः अस्ति इति बोध्यम्‌ |


भ्रंश्‌ → दिवादिभ्यः श्यन्‌ (३.१.६९) इत्यनेन दिवादौ श्यन्‌ भवति कर्त्रर्थे सार्वधातुकप्रत्यये परे → भ्रन्श्‌ + श्यन्‌ → अनिदितां हल उपधायाः क्ङिति (६.४.२४) इत्यनेन ङिति प्रत्यये परे उपधायां स्थितस्य नकारस्य लोपः → भ्रश्‌ + य → भ्रश्य इति अङ्गम् → भ्रश्य + ति → भ्रश्यति


अयं भ्रंश्‌-धातुः भ्वादौ अपि अस्ति | तत्र न-लोपः न भवति, भ्रंशते इति रूपम्‌ |


अनिदितां हल उपधायाः क्ङिति (६.४.२४) = येषां हलन्त-धातूनां ह्रस्व-इकारस्य इत्‌-संज्ञा नास्ति, तेषाम्‌ उपधायां नकारः अस्ति चेत्‌, तस्य नकारस्य लोपः भवति किति ङिति प्रत्यये परे | इत्‌ इत्‌ अस्ति येषां ते इदितः, न इदितः, अनिदितः, बहुव्रीहिगर्भः नञ्तत्पुरुषसमासः, तेषाम्‌ अनिदिताम्‌ | क्‌ च ङ्‌ च तयोः इतरेतरद्वन्द्वः क्ङौ | क्ङौ इतौ यस्य सः क्ङित्‌, द्वन्द्वगर्भः बहुव्रीहिसमासः, तस्मिन्‌ क्ङिति | अनिदितां षष्ठ्यन्तं, हलः षष्ठ्यन्तम्‌, उपधाया षष्ठ्यन्तं, क्ङिति सप्तम्यन्तम्‌, अनेकपदमिदं सूत्रम्‌ | श्नान्नलोपः (६.४.२३) इत्यस्मात्‌ , लोपः इत्यनयोः अनुवृत्तिः | अङ्गस्य (६.४.१) इत्यस्य अधिकारः | अनुवृत्ति-सहित-सूत्रम्‌— अनिदितां हलः अङ्गस्य उपधायाः नः लोपः क्ङिति |


अनुस्वारादेशः— नश्चापदान्तस्य झलि |


नश्चापदान्तस्य झलि (८.३.२४) = अपदान्तस्य नकारस्य मकारस्य च स्थाने अनुस्वारादेशो भवति झलि परे | झल्‌-प्रत्याहारे वर्गस्य प्रथमः, द्वितीयः, तृतीयः, चतुर्थः च वर्णाः अपि च श्‌, ष्‌, स्‌, ह्‌ इति वर्णाः अन्तर्भूताः | पदस्य अन्तः पदान्तः, न पदान्तः अपदान्तः तस्य अपदान्तस्य | नः षष्ठ्यन्तं, च अव्ययपदम्‌, अपदान्तस्य षष्ठ्यन्तं, झलि सप्तम्यन्तं, अनेकपदमिदं सूत्रम्‌ | मो‍ऽनुस्वारः (८.३.२३) इत्यस्मात्‌ मः इत्यस्य अनुवृत्तिः | तयोर्य्वावचि संहितायाम्‌ (८.२.१०८) इत्यस्मात्‌ संहितायाम् इत्यस्य अधिकारः | अनुवृत्ति-सहितसूत्रम्‌— अपदान्तस्य मः नः च अनुस्वारः झलि संहितायाम् |


परसवर्णादेशः— अनुस्वारस्य ययि परसवर्णः |


अनुस्वारस्य ययि परसवर्णः (८.४.५८) = अनुस्वारस्य स्थाने परसवर्णादेशो भवति ययि परे | परस्य सवर्णः, परसवर्णः, षष्ठी तत्पुरुषः | अनुस्वारस्य षष्ठ्यन्तं, ययि सप्तम्यन्तं, परसवर्णः प्रथमान्तं, त्रिपदमिदं सूत्रम्‌ | यय्‌-प्रत्याहारे श्‌, ष्‌, स्‌, ह्‌ एतान्‌ वर्जयित्वा सर्वे हल्‌-वर्णाः अन्तर्भूताः | तयोर्य्वावचि संहितायाम्‌ (८.२.१०८) इत्यस्मात्‌ संहितायाम् इत्यस्य अधिकारः | अनुवृत्ति-सहितसूत्रम्‌— अनुस्वारस्य ययि परसवर्णः संहितायाम् |


परसवर्णः इत्युक्ते अनुस्वारात्‌ परः यः वर्णः, तस्य सवर्णः | सवर्णः नाम अनुस्वारात्‌ परः यः वर्णः तस्य वर्णस्य वर्गे ये स्थिताः ते | अनुस्वारस्य स्थाने तेषु परसवर्णेषु अन्यतमः आदिष्टः भवतु | परन्तु तेषु परसवर्णेषु अस्माभिः कः अपेक्षितः ? स्थाने‍ऽन्तरतमः (१.१.५०) सूचयति यत्‌ यस्य स्थाने आदेशो भवति तस्य अन्तरतमो नाम सदृश आदिष्टो भवतु | वर्गीयव्यञ्जनेषु अनुस्वारस्य सदृशः पञ्चमसदस्यः एव | अतः स्थाने‍ऽन्तरतमः इत्यस्य साहाय्येन अनुस्वारस्य ययि परसवर्णः इत्यनेन अनुस्वारस्य स्थाने अग्रिमवर्णस्य वर्गीयपञ्चमादेशो भवति | यथा‌—अंग → अङ्ग, मंच → मञ्च, मंता → मन्ता |


धेयम्‌—‌ श्‌, ष्‌, स्‌, ह् इति वर्णाः यय्-प्रत्याहारे न सन्ति इति कारणेन एषु परेषु अनुस्वारस्य परसवर्णादेशो नैव भवति | यथा‌—रंस्यते = रंस्यते, नंस्यति = नंस्यति, संगंस्यते = संगंस्यते |


स्थाने‍ऽन्तरतमः (१.१.५०) = प्रसङ्गे (स्थानं, गुणं, प्रमाणम्‌, अर्थम्‌ इत्येषु अन्यतमम्‌ अनुसृत्य) तुल्यतम आदेशो भवतु | यत्र यत्र स्थानेन निर्णेतुं शक्येत तत्र तत्र स्थानमेव निर्णयस्य आधारः | स्थाने सप्तम्यन्तम्‌, अन्तरतमः प्रथमान्तं, द्विपदमिदं सूत्रम्‌ | इदं सूत्रं परिभाषा-सूत्रम्‌ | यत्र (१) आदेशः अपेक्षितः, अपि च (२) अनेकानां वर्णानां ग्रहणम्‌ अस्ति, अपि च (३) तेषु कः वर्णः गृहीतः स्यात्‌ इत्यर्थं कोऽपि नियमः नास्ति, तस्यां दशायां यत्‌ सूत्रम्‌ आगत्य नियमति तत्‌ परिभाषा-सूत्रम्‌ इत्युच्यते | अत्र प्रसङ्गे तुल्यतम आदेश इति उक्तम्‌ | "प्रसङ्ग" इत्युक्ते यत्र प्राप्तिरस्ति | तुल्यता, समानता, सादृश्यम्‌ इत्यस्य आधारेण आदेशस्य विधानं चेत्‌, तर्हि स्थानम्‌, अर्थं, गुणं, प्रमाणं वा अनुसृत्य तुल्यता परिशील्यताम्‌ | सर्वप्रथमं स्थानं; स्थानं नोपलभ्यते चेत्‌, गुणः; गुणः नोपलभ्यते चेत्‌ प्रमाणं, प्रमाणं नोपलभ्यते चेत्‌ अर्थः इति निर्णयस्य आधारः | आधिक्येन स्थानम्‌ अनुसृत्य एव आदेशो भवति; अपरेषां प्रसङ्गः विरलः |


(१) स्थानम्‌


मुखे स्थानस्य सादृश्यम्‌ अनुसृत्य आदेशो निर्णीयते | यथा—


अकः सवर्णे दीर्घः (६.१.१०१) = अक्‌-वर्णात्‌ सवर्णे अचि परे पूर्वपरयोः स्थाने दीर्घसंज्ञक-एकादेशः स्यात्‌ | अनुवृत्ति-सहितसूत्रम्‌— अकः सवर्णे अचि पूर्वपरयोः एकः दीर्घः संहितायाम्‌ |


दण्ड + अग्रम्‌ → दण्डाग्रम्‌ | अत्र द्वौ अपि अकारौ कण्ठ्यौ, नाम कण्ठे उत्पन्नौ | अतः तयोः स्थाने यः दीर्घादेशो भवति, सोऽपि कण्ठः भवेत्‌ सम्भवति चेत्‌ | तत्र दीर्घः आकारः कण्ठ्यः, अतः स एव आदेशो भवति |



(२) गुणः


'गुणः' इत्युक्ते ध्वनिः; व्याकराणदृष्ट्या तस्य प्रकाशो भवति प्रयत्नेन | तत्र द्वैविध्यम्‌ अस्ति— आभ्यन्तरप्रयत्नः बाह्यप्रयत्नः च | कुत्रचित्‌ आदेशस्य निर्धारणं न स्थानेन सम्भवति, न वा अर्थेन | तत्र कुत्रचित्‌ प्रयत्नः निर्णायकः, यथा—


चजोः कु घिण्ण्यतोः (७.३.५२) = चकारस्य जकारस्य च स्थाने कवर्गादेशो भवति घिति ण्यति च |


पच् + घञ्‌ → चजोः कु घिण्ण्यतोः (७.३.५२) → पाकः


त्यज्‌ + घञ्‌ → चजोः कु घिण्ण्यतोः (७.३.५२) → त्यागः


अत्र चकारः तालव्यः वर्णः | जकारः अपि तथा | कवर्गस्य वर्णाः सर्वे कण्ठ्याः | अतः स्थानस्य आधारेण निर्णयः न शक्यः | तदर्थं गुणः, नाम प्रयत्नः, द्रष्टव्यः | चकारस्य प्रयत्नः विवारः, श्वासः, अघोषः, अल्पप्राणः | कवर्गस्य पञ्चसु सदस्येषु ककारः एव तथा; अतः चकारस्य स्थाने ककारादेशः भवति | जकारस्य प्रयत्नः संवारः, नादः, घोषः, अल्पप्राणः | कवर्गस्य पञ्चसु सदस्येषु गकारः एव तथा; अतः जकारस्य स्थाने गकारादेशः भवति |



(३) प्रमाणम्‌


प्रमाणम्‌ इत्युक्ते दैर्घ्यम्‌ | प्रमाण-शब्दे 'मानम्‌' अन्तर्भूतं वर्तते किल, तदर्थं तादृशः अर्थः स्वीकृतः | मानं नाम मापनम्‌ | कुत्रचित्‌ प्रमाणेन एव निर्धारणप्राप्तिः भवति, यथा—


अदसोऽसेर्दादु दो मः (८.२.८०) = यस्य अन्ते सकारो नास्ति, एतादृशस्य अदस्‌-शब्दस्य दकारोत्तरवर्णस्य स्थाने उकारादेशः ऊकारादेशः च; दकारस्य च स्थाने मकारादेशो भवति |


अम + स्मै → अम्‌ + अस्मै → अम्‌ + उष्मै → अमुष्मै

अम + भ्याम्‌ → अम्‌ + आभ्याम्‌ → अम्‌ + ऊभ्याम्‌ → अमूभ्याम्‌


अत्र ह्रस्व-अकारस्य स्थाने ह्रस्व-उकारः; दीर्घ-आकारस्य स्थाने दीर्घ-ऊकारः | एतादृशस्थले स्थानेन, अर्थेन, गुणेन च निर्धारणं न भवति, अतः प्रमाणं निर्णायकः |


(४) अर्थः


कुत्रचित्‌ उच्चारणस्थान-सादृश्येन आदेशस्य निर्णयो न शक्यते | यदा स्थानेन न सम्भवति, तदा अर्थः, गुणः, प्रमाणं च एषु त्रिषु अन्यतमः निर्णयस्य आधारः भवति |


अर्थस्य प्रसङ्गे यथा—


पद्दन्नोमास्‌हृन्निशसन्यूषन्दोषन्यकञ्छकन्नुदन्नासञ्छस्प्रभृतिषु (६.१.६२) = पद्‌, दत्‌, नस्‌, मास्‌, हृत्‌, निश्‌, असन्‌, यूषन्‌, दोषन्‌, यकन्‌, शकन्‌, उदन्‌, आसन्‌ इत्येते आदेशाः विकल्पेन भवन्ति शस्‌ प्रभृतिप्रत्ययेषु परेषु |


अनेन सूत्रेण द्वितीयविभक्तेः बहुवचनात्‌ [शस्‌] आरभ्य सप्तमीविभक्तेः बहुवचनं [सुप्‌] यावत्‌ एते आदेशाः विकल्पेन भवन्ति |


सु       औ       जस्‌

अम्‌     औट्‌     शस्‌

टा      भ्याम्‌     भिस्‌

ङे       भ्याम्‌     भ्यस्‌

ङसि    भ्याम्‌     भ्यस्‌

ङस्‌     ओस्‌     आम्‌

ङि       ओस्‌     सुप्‌


किन्तु केषां पदानां स्थाने भवन्ति इति नोक्तम्‌ | अत्र स्थाने‍ऽन्तरतमः (१.१.५०) इति सूत्रेण तदा आदेशः योग्यः भवति यदा स्थानिनः अर्थं प्रकटयितुं प्रभवति | अनेन एते उक्ताः आदेशाः क्रमेण एषाम्‌ एव स्थानिनः भवन्ति— पाद, दन्त, नासिका, मास, हृदय, निशा, असृज्‌, यूष, दोष, यकृत्‌, शकृत्‌, उदक, आसन इति | यथा पद्‌ चरणार्थे भवति, अतः स्थानिनोऽपि तादृशार्थः भवेत्‌; तस्मात्‌ पाद इति स्थानी | एवमेव अग्रे सर्वत्र |


तदर्थं पाद-शब्दस्य रूपाणि एवं भवन्ति—


पादः                 पादौ                   पादाः

पादम्‌                पादौ                    पदः, पादान्‌

पदा, पादेन     पद्भ्याम्‌, पादाभ्याम्‌       पद्भिः, पादैः

पदे, पादाय     पद्भ्याम्‌, पादाभ्याम्‌       पद्भ्यः, पादेभ्यः

पदः, पादात्‌    पद्भ्याम्‌, पादाभ्याम्‌       पद्भ्यः, पादेभ्यः

पदः, पादस्य       पदोः, पादयोः            पदाम्‌, पादानाम्‌

पदि, पादे          पदोः, पादयोः             पत्सु, पादेषु


एवमेव अग्रेऽपि | दन्त-शब्दस्य विकल्पेन शस्‌ इत्यस्मात्‌ आरभ्य दत्‌-शब्दः इत्यादिकम्‌ |


एषु स्थलेषु मुखे स्थानं किम्‌ इत्यनेन निर्णयः न भवितुम्‌ अर्हति स्म | तस्मात्‌ अर्थः इति आधारः अपेक्षितः |


सारांशः


तर्हि आहत्य स्थाने‍ऽन्तरतमः (१.१.५०) इति सूत्रेण सादृश्यम्‌ उपस्थाप्यते चतुर्भिः माध्यमैः— स्थानं, गुणः, प्रमाणम्‌, अर्थः च | किन्तु एषु चतुर्षु प्रमुखम्‌ अस्ति स्थानम्‌ | कथं ज्ञायते ? काशिकाकारः वदति यत्‌ पूर्वसूत्रात्‌ षष्ठी स्थानेयोगा (१.१.४९) इत्यस्मात्‌ 'स्थाने' इत्यस्य अनुवर्तनं भवितुम्‌ अर्हति स्म; तस्मिन्‌ एव लाघवम्‌ आसीत्‌ | तर्हि किमर्थं पाणिनिना तस्य अनुवर्तनं न स्वीकृतम्‌ ? पुनः 'स्थाने' विलिख्य ददाति स्थाने‍ऽन्तरतमः (१.१.५०) इति सूत्रे, चतुर्षु स्थानस्य प्राधान्यदर्शनार्थम्‌ | अतः यत्र यत्र स्थानेन निर्धारणम्‌ शक्यं, तत्र तत्र स्थानेन एव कर्तव्यम्‌ | यत्र च न सम्भवति, तत्र अन्येषु त्रिषु—गुणः, प्रमाणम्‌, अर्थः इत्येषु—अन्यतमेन सादृश्यं साधनीयम्‌ |


इदितां धातूनां न्‌-लोपो न भवति


यथा वदिँ इति इदित्‌ धातुः | इदितो नुम्‌ धातोः (७.१.५८) इत्यनेन नुमागमः, वन्द्‌ इति धातुः | अस्य न्‌-लोपः न भवति |


वदिँ → वद्‌ → वन्द्‌ → वंद् → वन्द्‌

वदिँ → वद्‌      उपदेशेऽजनुनासिक इत्

वद्‌ → वन्द्‌     इदितो नुम्‌ धातोः

वन्द्‌ → वंद्     नश्चापदान्तस्य झलि

वंद्‌ → वन्द्‌     अनुस्वारस्य ययि परसवर्णः


लाछिँ → लाछ्‌ → लान्छ्‌ → लांछ्‌ → लाञ्छ्‌

कपिँ → कप्‌ → कन्प्‌ → कंप्‌ → कम्प्‌

लबिँ → लब्‌ → लन्ब्‌ → लंब्‌ → लम्ब्‌


इदितो नुम्‌ धातोः (७.१.५८) = इदितः धातोः नुम्‌ आगमो भवति | इदित्‌ इत्युक्ते इत्‌ इत्‌ यस्य सः | तत्र प्रथमः इत्‌ नाम ह्रस्वः इकारः | द्वितीयः इत्‌ नाम इत्‌-संज्ञा | ह्रस्व इकारस्य इत्‌-संज्ञा यस्य, सः धातुः इदित्‌ | इत्‌ इत्‌ यस्य स इदित्‌, तस्य इदितः, बहुव्रीहिः | इदितः षष्ठ्यन्तं, नुम्‌ प्रथमान्तं, धातोः षष्ठ्यन्तं, त्रिपदमिदं सूत्रम्‌ | सूत्रं स्वयं सम्पूर्णम्— इदितो धातोः नुम्‌ |


प्रश्नः उदेति-- यदि वदिँ-धातौ नकारादेशः भवति एव, तर्हि किमर्थं वन्द्‌ मूलधातुः न स्यात्‌ ? तथैव यदि लबि मकारः आयाति एव, तर्हि किमर्थं लम्ब्‌ इत्येव मूलधातुः न स्यात्‌ ? उत्तरम्‌ अस्ति यत्‌ तत्र कतिचन कार्याणि सन्ति | यथा अनिदितां हल उपधायाः क्ङिति (६.४.२४) इत्यनेन यः धातुः इदित्‌ नास्ति, तस्य धातोः उपधायां स्थितस्य नकारस्य लोपः स्यात्‌ किति ङिति परे | परन्तु इदित्‌ चेत्‌ अस्माभिः यः नकारः आनीतः, तस्य नकारस्य लोपः कस्यामपि दशायां न भवति | साक्षत्‌ आरम्भतः नकारः अस्ति चेत्‌, तस्य लोपः किति ङिति च भवति | यथा बन्ध-धातौ नकारः उपस्थितः मूलधातौ, अतः किति ङिति परे नकारलोपः | ल्युटि "बन्धनं" (नकारः उपस्थितः यतोहि ल्युट्‌ प्रत्ययः कित्‌ अपि नास्ति, ङित्‌ अपि नास्ति); परन्तु क्तान्तरूपं "बद्ध" (नकारलोपः यतोहि क्त प्रत्ययः कित्‌ अस्ति) | लबि धातोः इदितो नुम्‌ धातोः इत्यनेन नुम्‌ आगमः → लम्ब्‌ | अस्य नकारस्य लोपः किति ङिति न भवति— यथा क्तान्तरूपं लम्बितः |


2. सम्प्रसारणिनः धातवः (1 धातुः)


सम्प्रसारण-संज्ञा भवति यत्र यणः स्थाने इक्‌-आदेशः भवति | धातौ एतादृशं कार्यं भवति चेत्‌, सः धातुः सम्प्रसारणी | दिवादिगणे एकः सम्प्रसारणी धातुः अस्ति— व्यध ताडने | अधस्तनेन सूत्रेण (ग्रहि ज्या इत्यनेन) किति ङिति प्रत्यये परे, सम्प्रसारणं भवति— नाम यणः स्थाने इक्‌ |


सम्प्रसारणम्‌—

य्‌ → इ

व्‌ → उ

र्‌ → ऋ

ल् → ऌ


व्यध्‌-धातौ तादृशौ द्वौ वर्णौ स्तः— वकारः यकारश्च | अत्र न सम्प्रसारणे सम्प्रसारणम्‌ (६.१.३७) इति सूत्रेण परस्य एव सम्प्ररासणं भवति, न तु पूर्वस्य | अतः व्यध्‌-धातौ यकारस्य सम्प्रसारणम्‌ |


व्यध ताडने → व्यध्‌ + श्यन्‌ → न सम्प्रसारणे सम्प्रसारणम्‌ इति सूत्रेण सम्प्रसारणे परे पूर्वं स्थितस्य वकारस्य सम्प्रसारणं न भवति → ग्रहि ज्या इति सूत्रेण सम्प्रसारण-आदेशः → व्‌-इ‌-अ-ध्‌ + य → सम्प्रसारणाच्च (६.१.१०८) इति सूत्रेण सम्प्रसारण-संज्ञक-वर्णात्‌ परं अच्‌ अस्ति चेत्‌, पूर्वपरयोः स्थाने एकः पूर्वरूपादेशः → विध्‌ + य → विध्य इति अङ्गम्‌ → विध्य + ति → विध्यति


व्यध्‌-धातोः एव व्याधः यः मृगयां करोति | छिद्रं करोति इति विध्यति |


ग्रहि ज्या वयि व्यधि वष्टि विचति वृश्चति पृच्छति भृज्जतीनां ङिति च (६.१.१६) = ग्रह्‌, ज्या, वय्‌, व्यध्‌, वश्‌, व्यच्‌, व्रश्च्‌, प्रच्छ्‌, भ्रस्ज्‌, एषां सम्प्रसारणं भवति किति ङिति प्रत्यये परे | इतरेतरद्वन्द्वः, षष्ठीविभक्तौ | ग्रहि-ज्या-वयि-व्यधि-वष्टि-विचति-वृश्चति-पृच्छति-भृज्जतीनां षष्ठ्यन्तं, ङिति सप्तम्यन्तं, च अव्ययं, त्रिपदमिदं सूत्रम्‌ | वचिस्वपियजादीनां किति (६.१.१५) इत्यस्मात्‌ किति इत्यस्य अनुवृत्तिः; ष्यङः सम्प्रसारणम्‌ पुत्रपत्योस्तत्पुरुषे (६.१.१३) इत्यस्मात्‌ सम्प्रसारणम्‌ इत्यस्य अनुवृत्तिः | अनुवृत्ति-सहितसूत्रम्‌— ग्रहि ज्या वयि व्यधि वष्टि विचति वृश्चति पृच्छति भृज्जतीनां ङिति किति च सम्प्रसारणम्‌ |


                                                               क्त प्रत्यये परे (किति इत्यस्य उदाहरणम्‌)

ग्रह्‌ (क्र्यादौ) → गृह्णाति                                                      गृहीतः

ज्या (क्र्यादौ) → जिनाति [वृद्धः, जीर्णः भवति]                           जीनः

वे (वेञ् भ्वादौ) → वयति/ते [to weave, braid, sew]           उतः

व्यध्‌ (दिवादौ) → विध्यति [छिनत्ति]                                       विद्धः

वश्‌ (अदादौ) → वष्टि [इच्छति]                                            उशितः

व्यच्‌ (तुदादौ) → विचति [वञ्चयति]                                        विचितः

व्रश्च्‌ (तुदादौ) → वृश्चति [कर्तयति]                                       वृक्णः

प्रच्छ्‌ (तुदादौ) → पृच्छति                                                   पृष्टः

भ्रस्ज्‌ (तुदादौ) → भृज्जति [to fry, parch, roast]               भृष्टः


इग्यणः सम्प्रसारणम्‌ (१.१.४५) = यणः स्थाने यः इक्‌-प्रत्याहारे स्थितवर्णः आदिष्टः, तस्य सम्प्रसारण-संज्ञा भवति | इक्‌ प्रथमान्तं, यणः षष्ठ्यन्तं, सम्प्रसारणम्‌ प्रथमान्तं, त्रिपदमिदं सूत्रम् | सूत्रं सम्पूर्णम्‌— यणः इक्‌ सम्प्रसारणम्‌ |


सम्प्रसारणाच्च (६.१.१०८) = सम्प्रसारण-संज्ञक-वर्णात्‌ परम्‌ अच्‌ अस्ति चेत्‌, पूर्वपरयोः स्थाने एकः पूर्वरूपादेशो भवति | सम्प्रसारणात्‌ पञ्चम्यन्तं, च अव्ययपदं, द्विपदमिदं सूत्रम्‌ | इको यणचि (६.१.७७) इत्यस्मात्‌ अचि, अमि पूर्वः (६.१.१०७) इत्यस्मात्‌ पूर्वः इत्यनयोः अनुवृत्तिः भवतः | एकः पूर्वपरयोः (६.१.८४), संहितायाम्‌ (६.१.७१) इत्यनयोः अधिकारः | अनुवृत्ति-सहित-सूत्रम्‌— सम्प्रसारणात्‌ च अचि पूर्वपरयोः एकः पूर्वः संहितायाम्‌ |


न सम्प्रसारणे सम्प्रसारणम्‌ (६.१.३७) = सम्प्रसारणे परे पूर्वं स्थितस्य सम्प्रसारणं न भवति | न अव्ययपदं, सम्प्रसारणे सप्तम्यन्तं, सम्प्रसारणं प्रथमान्तं, त्रिपदमिदं सूत्रम्‌ | सूत्रं सम्पूर्णम्‌— न सम्प्रसारणे सम्प्रसारणम्‌ |


3. ॠकारान्ताः धातवः (2 धातू)


दिवादिगणे जॄष्‌, झॄष्‌ वयोहानौ (जीर्णः भवति) इमौ द्वौ धातू ॠकारान्तौ, समानार्थकौ च | हलन्त्यम्‌, तस्य लोपः इत्याभ्यां जॄ, झॄ |


जॄ + श्यन्‌ → जॄ + य → ॠत इद्‌ धातोः इत्यनेन ॠदन्तस्य धातोः ह्रस्व-इकारादेशः → जि + य → उरण्‌ रपरः (१.१.५१) इत्यनेन ऋकारस्य स्थाने यदा अण्-आदेशः भवति, तदा सः अण्‌ सदा‌ रपरः → जिर् + य → य हलादिः अतः हलि च (८.२.७७) इत्यनेन हलि परे रेफान्तस्य धातोः उपधायां स्थितः इक्‌-वर्णः दीर्घः → जीर् + य → जीर्य इति अङ्गम्‌ → जीर्य + ति → जीर्यति


जॄष्‌ + श्यन्‌        अनुबन्धलोपे

जॄ + य           ॠत इद्‌ धातोः (७.१.१००)

जि + य          उरण्‌ रपरः (१.१.५१)

जिर् + य         हलि च (८.२.७७)

जीर् + य          वर्णमेलने

जीर्य + ति → लटि जीर्यति


झॄ + श्यन्‌ → ॠत इद्‌ धातोः → झि + य → उरण्‌ रपरः → झिर् + य → हलि च → झीर् + य → झीर्य इति अङ्गम्‌ → झीर्य + ति → झीर्यति


ॠत इद्‌ धातोः (७.१.१००) = ॠदन्तस्य धातोः अङ्गस्य ह्रस्व-इकारादेशो भवति (किति ङिति प्रत्यये परे) | अस्मिन्‌ सूत्रे निमित्तं नोक्तं; यत्र यत्र अवसरः तत्र तत्र प्राप्तिः; कित्‌-ङित्‌ भिन्नप्रत्ययः परश्चेत्‌, गुणे सति इकारादेशस्य प्रसक्तिर्न भवति | अलोऽन्त्यस्य (१.१.५२) इत्यस्य साहाय्येन पूर्णतया धातोः स्थाने न, अपि तु अन्तिमस्य ॠकारस्य स्थाने ह्रस्व-इकारादेशः | येन विधिस्तदन्तस्य (१.१.७२) इत्यस्य साहाय्येन ॠतः इत्यनेन ॠदन्तस्य इत्यस्यापि ग्रहणम्‌ | ऋतः षष्ठ्यन्तम्‌, इत्‌ प्रथमान्तम्‌, धातोः षष्ठ्यन्तम्‌, त्रिपदमिदं सूत्रम्‌ | अङ्गस्य (६.४.१) इत्यस्य अधिकारः | अनुवृत्ति-सहितसूत्रम्‌— ॠतः धातोः अङ्गस्य इत्‌ |


षष्ठी स्थानेयोगा (१.१.४९) = षष्ठीविभक्तेः अन्यार्थाभावे 'स्थाने' इत्यर्थो भवति | स्थानेन योगो यस्याः, बहुव्रीहिः | परिभाषासूत्रम्‌ |


अलोऽन्त्यस्य (१.१.५२) = षष्ठीविभक्ति-द्वारा यस्य पदस्य स्थाने आदेशः प्राप्तः, सः आदेशः अन्त्यस्य अल्‌-वर्णस्य स्थाने भवति | परिभाषासूत्रम्‌ | अलः षष्ठ्यन्तम्‌, अन्त्यस्य षष्ठ्यन्तम्‌, द्विपदमिदं सूत्रम्‌ | षष्ठी स्थानेयोगा (१.१.४९) इत्यस्मात्‌ षष्ठी, स्थाने इत्यनयोः अनुवृत्तिः | अनुवृत्ति-सहितसूत्रम्‌— षष्ठ्या अन्त्यस्य अलः स्थाने (विद्यमानः आदेशः) |


येन विधिस्तदन्तस्य (१.१.७२) = विशेषणं तदन्तस्य अपि भवति, स्वस्यापि भवति | सोऽन्ते यस्य स तदन्तः, तस्य तदन्तस्य बहुव्रीहिः | परिभाषासूत्रम्‌ | विधीयते इति विधिः | येन तृतीयान्तम्‌, विधिः प्रथमान्तम्‌, तदन्तस्य षष्ठ्यन्तम्‌, त्रिपदमिदं सूत्रम्‌ | स्वं रूपं शब्दस्याऽशब्दसंज्ञा (१.१.६८) इत्यस्मात्‌ स्वम्‌, रूपम्‌ इत्यनयोः अनुवृत्तिः | विभक्तिपरिणामः इत्यनेन षष्ठ्यन्ते भवतः, स्वस्य रूपस्य | अनुवृत्ति-सहितसूत्रम्‌— येन विधिः तदन्तस्य स्वस्य रूपस्य (च) |


उरण्‌ रपरः (१.१.५१) = ऋकारस्य स्थाने यदा अण्-आदेशः भवति, तदा सः अण्‌ सदा‌ रपरः भवति | ऋकारेण त्रिंशत्‌-प्रकारकः ऋकारः भवति इति बोध्यम्‌ | रः परो यस्य सः रपरः | उः षष्ठ्यन्तम्‌, अण्‌ प्रथमान्तम्‌, रपरः प्रथमान्तम्‌, त्रिपदमिदं सूत्रम्‌ | स्थानेऽन्तरतमः (१.१.५०) इत्यस्मात्‌ स्थाने इत्यस्य अनुवृत्तिः | अनुवृत्ति-सहितसूत्रम्‌— उः स्थाने अण्‌ रपरः |


हलि च (८.२.७७) = रेफान्तानां वकारान्तानां च धातूनाम्‌ उपधायां स्थितः इक्‌-वर्णः दीर्घो भवति हलि परे | हलि सप्तम्यन्तम्‌, च अव्ययपदम्‌, द्विपदमिदं सूत्रम्‌ | सिपि धातो रुर्वा (८.२.७४) इत्यस्मात्‌ धातोः इत्यस्य अनुवृत्तिः; र्वोरुपधाया दीर्घ इकः (८.२.७६) इत्यस्य पूर्णतया अनुवृत्तिः | येन विधिस्तदन्तस्य (१.१.७२) इत्यस्य साहाय्येन तदन्तविधिः अतः र्वोः इत्यनेन येषाम्‌ धातूनाम्‌ अन्ते रेफः वकारश्च, तेषामपि ग्रहणम्‌ | अनुवृत्ति-सहितसूत्रम्‌— हलि च र्वोः धातोः उपधायाः इकः दीर्घः |


4. वकारान्तानाम्‌ इकः दीर्घत्वम्‌ (4 धातवः)


दिवादिगणे चत्वारः वकारान्तधातवः सन्ति— दिवुँ (दिव्‌), षिवुँ (सिव्‌), स्त्रिवुँ (स्त्रिव्‌), ष्ठिवुँ (ष्ठिव्‌) |


दिवुँ क्रीडा-विजिगीषा-व्यवहार-द्युति-स्तुति-मोदमद-स्वप्न-कान्ति-गतिषु (स्वीकरोति, क्रीडति, इच्छति, जेतुम्‌ इच्छति, निद्राति, गच्छति, तेजस्वी भवति, प्रशंसां करोति, प्रसन्नो भवति, व्यवहारं करोति)

षिवुँ तन्तुसन्ताने (सीवनं करोति [sew], रोपयति)

स्रिवुँ गतिशोषणयोः (गच्छति, शुष्कः भवति)

ष्ठिवुँ निरसने (to spit)


हलि च (८.२.७७) इत्यनेन यः धातुः वकारान्तः, तस्य उपधायां स्थितः इक्‌-वर्णः दीर्घो भवति हलि परे | श्यन्‌ इति विकरणप्रत्ययः हलादिः (यकारादिः) च अपित्‌ च, अतः सूत्रस्य प्रसक्तिरस्ति | यदि श्यन्‌ पित्‌ अभविष्यत्‌, तर्हि पुगन्तलघूपधस्य च (७.३.८६) इत्यनेन उपधायां लघु-इकः गुणः अभविष्यत्‌ | गुणकार्याभावे, हलि च आगत्य कार्यं करोति |


दिव्‌ + श्यन्‌ → हलि च इत्यनेन वकारान्त-धातोः हलि परे, उपधायां स्थितः इक्‌-वर्णः दीर्घः → दीव्‌ + य → दीव्य इति अङ्गम्‌ → दीव्य + ति → दीव्यति

सिव्‌ + श्यन्‌ → हलि च, इक्‌-वर्णः दीर्घः → सीव्‌ + य → सीव्य → सीव्य + ति → सीव्यति

स्रिव्‌ + श्यन्‌ → हलि च, इक्‌-वर्णः दीर्घः → स्रिव्‌ + य → स्रीव्य → स्रीव्य + ति → स्रीव्यति

ष्ठिव्‌ + श्यन्‌ → ष्ठिवुक्लमुचमां शिति (७.३.७५) इत्यनेन इक्‌-वर्णः दीर्घः → ष्ठीव्‌ + य → ष्ठीव्य → ष्ठीव्य + ति → ष्ठीव्यति


सुब्धातुष्ठिवुष्वष्कतीनां सत्वप्रतिषेधो वक्तव्यः इति वार्तिकं, धात्वादेः षः सः (६.१.६४) इत्यस्य निषेधकम्‌ = नामधातूनां, ष्ठिवु, ष्वष्क अनयोः धात्वोः च षकारस्य स्थाने सकारादेशो न भवति | षोडीयते (नामधातुः) | षण्डीयते (नामधातुः) | ष्ठीवति | ष्वष्कते |


5. गुणः (1 धातुः)


ञिमिदाँ स्नेहने (स्निग्धः भवति, to melt, dissolve) → आदिर्ञिटुडवः (१.३.५), उपदेशेऽजनुनासिक इत् (१.३.२), तस्य लोपः (१.३.९) इत्येभिः अनुबन्धलोपे मिद्‌ इति धातुः |


मिदेर्गुणः (७.३.८२) = मिद्‌-धातोः गुणः भवति शिति प्रत्यये परे | मिदेः षष्ठ्यन्तं, गुणः प्रथमान्तं, द्विपदमिदं सूत्रम्‌ | श्यन्‌-प्रत्ययस्य अपित्त्वात्‌ क्क्ङिति च (१.१.५) इत्यनेन गुण-निषेधः, किन्तु मिदेर्गुणः (७.३.८२) तस्य अपवादभूतसूत्रम्‌; अनेन गुणः भवति | ष्ठिवुक्लमुचमां शिति (७.३.७५) इत्यस्मात्‌ शिति इत्यस्य अनुवृत्तिः | इको गुणवृद्धी (१.१.३) इत्यनेन परिभाषा-सूत्रेण इकः आयाति यत्र स्थानी नोक्तम्‌ | अङ्गस्य (६.४.१) इत्यस्य अधिकारः | अनुवृत्ति-सहितसूत्रम्‌— मिदेः अङ्गस्य इकः गुणः शिति |


मिद्‌ + श्यन्‌ → मिदेर्गुणः (७.३.८२) इत्यनेन शिति परे गुणः → मेद्‌ + य → मेद्य इति अङ्गम्‌ → मेद्य + ति → मेद्यति


6. धात्वादेशः (1 धातुः)


जनीँ प्रादुर्भावे (उत्पन्नो भवति, सञ्जातो भवति)


ज्ञाजनोर्जा (७.३.७९) = ज्ञा (क्र्यादिगणे), जन्‌ (दिवादिगणे) चेत्यनयोः जा-आदेशो भवति शिति प्रत्यये परे | आदेशः अनेकाल्‌ अतः अनेकाल्शित्‌ सर्वस्य (१.१.५५) इत्यनेन आदेशः सर्वस्थानिनः स्थाने भवति (न तु अन्त्यवर्णस्य) | ज्ञाश्च जन्‌ च तयोरितरेतरद्वन्द्वः ज्ञाजनौ, तयोः ज्ञाजनोः | ज्ञाजनोः षष्ठ्यन्तं, जा लुप्तप्रथमाकं पदं, द्विपदमिदं सूत्रम्‌ | ष्ठिवुक्लमुचमां शिति (७.३.७५) इत्यस्मात्‌ शिति इत्यस्य अनुवृतिः | अङ्गस्य (६.४.१) इत्यस्य अधिकारः | अनुवृत्ति-सहितसूत्रम्‌— ज्ञाजनोः अङ्गस्य जा शिति |


अनेकाल्शित्‌ सर्वस्य (१.१.५५) = आदेशः अनेकाल्‌ (आदेशे एक एव वर्णः न अपि तु अनेके वर्णाः) अथवा शित्‌ चेत्‌, सर्वस्थानिनः स्थाने भवति, न तु अन्त्यवर्णस्य | यस्य स्थाने आदेशः आदिष्टः, सः स्थानी | इदं सूत्रम्‌ अलोऽन्त्यस्य (१.१.५२) इत्यस्य अपवादः | न एकः अनेकः नञ्तत्पुरुषः; अनेकः अल्‌ यस्य सः अनेकाल्‌ बहुब्रीहिः; शकारः इत्‌ यस्य सः शित्‌ बहुब्रीहिः; अनेकाल्‌ च शित्‌ च अनेकाल्शित्‌ समाहारद्वन्द्वः | अनेकाल्‌ प्रथमान्तं, शित्‌ प्रथमान्तं, सर्वस्य षष्ठ्यन्तं, त्रिपदमिदं सूत्रम्‌ | स्थानेऽन्तरतमः (१.१.५०) इत्यस्मात्‌ स्थाने इत्यस्य अनुवृत्तिः | अनुवृत्ति-सहितसूत्रम्‌— अनेकाल्शित्‌ सर्वस्य स्थाने |


जन्‌-धातुः आत्मनेपदी—


जनीँ → अनुबन्धलोपे जन्‌ → जन्‌ + श्यन्‌ → ज्ञाजनोर्जा इत्यनेन शिति परे जा-आदेशः → जा + य → जाय इति अङ्गम्‌ → जाय + ते → जायते


7. ओकारान्तानाम्‌ ओकारलोपः (4 धातवः)


चत्वारः धातवः सन्ति— दो, शो, छो, षो | दो अवखण्डने (विभागे भग्नं करोति); शो तनूकरणे (तीक्ष्णं करोति, कृशं करोति); छो छेदने (कर्तयति); षो अन्तकर्मणि (पूरयति, समापयति) |


ओतः श्यनि ( ७.३.७१) इत्यनेन धात्वङ्गान्तस्य ओकारस्य लोपो भवति श्यनि परे |


दो + श्यन्‌ → ओतः श्यनि इत्यनेन श्यनि परे धात्वङ्गान्तस्य ओकारस्य लोपः → द्‌ + य → द्य इति अङ्गम्‌ → द्य + ति → द्यति

शो + श्यन्‌ → ओतः श्यनि इत्यनेन श्यनि परे धात्वङ्गान्तस्य ओकारस्य लोपः → श्‌ + य → श्य इति अङ्गम्‌ → श्य + ति → श्यति

छो + श्यन्‌ → ओतः श्यनि इत्यनेन श्यनि परे धात्वङ्गान्तस्य ओकारस्य लोपः → छ्‌ + य → छ्‌य इति अङ्गम्‌ → छ्य + ति → छ्यति

षो → धात्वादेः षः सः (६.१.६४) इत्यनेन मूलधातोः आदौ षकारस्य स्थाने सकारादेशः → सो + श्यन्‌ → ओतः श्यनि इत्यनेन श्यनि परे धात्वङ्गान्तस्य ओकारस्य लोपः → स्‌ + य → स्य इति अङ्गम्‌ → स्य + ति → स्यति


ओतः श्यनि ( ७.३.७१) = धात्वङ्गस्य ओकारस्य लोपो भवति श्यनि परे | अलोऽन्त्यस्य (१.१.५२) इति परिभाषा-सूत्रस्य साहाय्येन आदेशः अन्त्यस्य अल्‌-वर्णस्य स्थाने भवति— धात्वन्ते एव ओकारस्य लोपः | ओतः षष्ठ्यन्तम्‌, श्यनि सप्तम्यन्तम्‌, द्विपदमिदं सूत्रम्‌ | घोर्लोपो लेटि वा (७.३.७०) इत्यस्मात्‌ लोपः इत्यस्य अनुवृत्तिः | अङ्गस्य (६.४.१) इत्यस्य अधिकारः | अनुवृत्ति-सहितसूत्रम्‌— श्यनि ओतः अङ्गस्य लोपः |


8. शमादि अन्तर्गणः (8 धातवः)


शमामष्टानां दीर्घः श्यनि (७.३.७४) = शमादीनाम्‌ अष्टानां धातूनां दीर्घत्वं श्यनि परे | दिवादिगणे कश्चन अन्तर्गणः अस्ति शमादिगणः नाम्ना, यस्मिन्‌ अष्ट धातवः सन्ति | श्यनि परे एषां धातूनाम्‌ उपधायां स्थितः अकारः दीर्घो भवति | अचश्च (१.२.२८) इत्यस्य साहाय्येन अचः एव दीर्घत्वम्‌ | शमां षष्ठ्यन्तम्‌, अष्टानां षष्ठ्यन्तं, दीर्घः प्रथमान्तं, श्यनि सप्तम्यन्तम्‌, अनेकपदमिदं सूत्रम्‌ | शमाम्‌ इत्यस्य बहुवचनेन शमादिः इति अर्थग्रहणम्‌ | अङ्गस्य (६.४.१) इत्यस्य अधिकारः | अनुवृत्ति-सहितसूत्रम्‌— शमाम्‌ अष्टानाम्‌ अङ्गानां अचः दीर्घः श्यनि |


अचश्च (१.२.२८) = यत्र यत्र ह्रस्वः, दीर्घः, प्लुतः च विधीयन्ते, तत्र तत्र अचः इति षष्ठ्यन्तं पदम्‌ आगत्य उपस्थितं भवति | परिभाषा-सूत्रम्‌ | अचः षष्ठ्यन्तं, च अव्ययपदं, द्विपदमिदं सूत्रम्‌ | ऊकालोऽज्झ्रस्वदीर्घप्लुतः (१.२.२७) इत्यस्मात्‌ अच्‌, ह्रस्वदीर्घप्लुतः इत्यनयोः अनुवृत्तिः | तत्र विभक्तिपरिणामेन तृतीयान्तं भवति, ह्रस्वदीर्घप्लुतैः (शब्दैः) | अनुवृत्ति-सहितसूत्रम्‌— ह्रस्वदीर्घप्लुतैः अचः च अच्‌ |


ऊकालोऽज्झ्रस्वदीर्घप्लुतः (१.२.२७) इति संज्ञासूत्रम्‌ | अनेन 'उ' इत्यस्य नाम ह्रस्वः, 'ऊ' इत्यस्य नाम दीर्घः, 'ऊ३' इत्यस्य नाम प्लुतः | ततः अग्रिमं सूत्रम्‌ अचश्च (१.२.२८) वक्ति यत् यत्र यत्र एतैः शब्दैः आदेशः इष्टः, तत्र तत्र अचः स्थाने एव अयम्‌ आदेशो भवति |


शमुँ उपशमे (शान्तः भवति) → शम्‌ → शम्‌ + श्यन्‌ → शमामष्टानां दीर्घः श्यनि इत्यनेन दीर्घत्वम्‌ → शाम्‌ + य → शाम्य इति अङ्गम्‌ → शाम्य + ति → शाम्यति

तमुँ काङ्क्षायाम्‌ (इच्छति) → तम्‌ → तम्‌ + श्यन्‌ → शमामष्टानां दीर्घः श्यनि इत्यनेन दीर्घत्वम्‌ → ताम्‌ + य → ताम्य इति अङ्गम्‌ → ताम्य + ति → ताम्यति

दमुँ उपशमे (शान्तः भवति) → दम्‌ → दम्‌ + श्यन्‌ → शमामष्टानां दीर्घः श्यनि इत्यनेन दीर्घत्वम्‌ → दाम्‌ + य → दाम्य इति अङ्गम्‌ → दाम्य + ति → दाम्यति

श्रमुँ तपसि (श्रान्तः भवति) → श्रम्‌ → श्रम्‌ + श्यन्‌ → शमामष्टानां दीर्घः श्यनि इत्यनेन दीर्घत्वम्‌ → श्राम्‌ + य → श्राम्य इति अङ्गम्‌ → श्राम्य + ति → श्राम्यति

भ्रमुँ अनवस्थाने (भ्रमणं करोति) → भ्रम्‌ → भ्रम्‌ + श्यन्‌ → शमामष्टानां दीर्घः श्यनि इत्यनेन दीर्घत्वम्‌ → भ्राम्‌ + य → भ्राम्य इति अङ्गम्‌ → भ्राम्य + ति → भ्राम्यति

क्षमूँ सहने (क्षमां करोति) → क्षम्‌ → क्षम्‌ + श्यन्‌ → शमामष्टानां दीर्घः श्यनि इत्यनेन दीर्घत्वम्‌ → क्षाम्‌ + य → क्षाम्य इति अङ्गम्‌ → क्षाम्य + ति → क्षाम्यति

क्लमुँ ग्लानौ (ग्लानः भवति) → क्लम्‌ → क्लम्‌ + श्यन्‌ → शमामष्टानां दीर्घः श्यनि इत्यनेन दीर्घत्वम्‌ → क्लाम्‌ + य → क्लाम्य इति अङ्गम्‌ → क्लाम्य + ति → क्लाम्यति

मदीँ हर्षे (प्रसन्नः भवति) → मद्‌ → मद्‌ + श्यन्‌ → शमामष्टानां दीर्घः श्यनि इत्यनेन दीर्घत्वम्‌ → माद्‌ + य → माद्य इति अङ्गम्‌ → माद्य + ति → माद्यति


परिशिष्टम्‌


धातुपाठे, भ्वादिगणे दिवादिगणे च द्वौ धातू उभयत्र स्तः— ष्ठिवु, क्लमु च | उभयत्र च उपधायां स्थितस्य स्वरस्य दीर्घत्वं, किञ्च उभयत्र इदं दीर्घत्वं सिध्यति भिन्नसूत्राभ्यां यद्यपि भ्वादिगणे यत्‌ विशिष्टं सूत्रम्‌ उक्तं, ष्ठिवुक्लमुचमां शिति (७.३.७५), तस्य प्रसक्तिर्भवितुम्‌ अर्हति स्म दिवादावपि श्यन्-प्रत्ययस्य शित्त्वात्‌ | अस्माकं वर्गे द्वे छात्रे 'इदं किमर्थम्‌' इति पृष्टवत्यौ | मया यदा इमं प्रश्नं मातरः पृष्टाः, तदा ताभिः विचिन्त्य उक्ताः यत्‌—


वस्तुतः धातुपाठे अनेके दोषाः |


वा भ्राशभ्लाशभ्रमुक्रमुक्लमुत्रसित्रुटिलषः (३.१.७०) = भ्राश्‌, भ्लाश्‌, भ्रमु चलने, क्रम्‌, क्लम्‌, त्रस्‌, त्रुट्‌, लष्‌, एतेभ्यः श्यन्‌ विकल्पेन भवति, कर्त्रर्थके प्रत्यये परे |


अनेन सूत्रेण यदा भ्वादिगणे एव क्लमु-धातोः विकल्पेन श्यन्‌ इति तु उक्तमेव, तदा दिवादिगणे तस्य धातोः पठनस्य न काऽपि आवश्यकता, न भवेदेव | भ्वादिगणे एव भवतु; दिवादिगणस्य शमामष्टानां दीर्घः श्यनि (७.३.७४) इति अन्तर्गणविधायकसूत्रात्‌ अयं धातुः निष्कासनीयः | 'शमां सप्तानां दीर्घः श्यनि' इति भवतु | भ्वादिगणे एव ष्ठिवुक्लमुचमां शिति (७.३.७५) इत्यनेन एव 'क्लामति', 'क्लाम्यति' द्वयोरपि दैर्घ्यं भवतु |


ष्ठिवुक्लमुचमां शिति (७.३.७५) = ष्ठिव्‌, क्लम्‌, चम्‌ एषां धातुरूपि-अङ्गानाम्‌ अचः दीर्घत्वं शिति प्रत्यये परे |


ततः अग्रे उक्तवत्यः, अन्यच्च ष्ठिवु-धातुः ष्ठिवुक्लमुचमां शिति (७.३.७५) इत्यनेन एव भ्वादावपि दिवादावपि दीर्घत्वं भवतु | हलि च (८.२.७७) इत्यस्य दिवादौ ष्ठिवु कृते न काऽपि आवश्यकता, श्यन्‌ इत्यस्य शित्त्वात्‌ | अपि च तदपेक्षया पुनः इतोऽपि सम्यक्‌, ष्ठिवु-धातुः भ्वादिगणे एव भवतु; वा भ्राशभ्लाशभ्रमुक्रमुक्लमुत्रसित्रुटिलषः (३.१.७०) इति सूत्रे ष्ठिवु-धातुं संयोजयतु | अनेन भ्वादौ एव ष्ठिवु-धातोः क्लमु इव विकल्पेन श्यन्‌ | तस्मात् भ्वादावेव ष्ठिवुक्लमुचमां शिति (७.३.७५) इत्यनेन द्वयमपि 'ष्ठीवति', 'ष्ठीव्यति' इत्येव सम्यक्‌ |


ततः अग्रे मातृभिः उक्तं, 'किन्तु मम पुस्तकम्‌ अधुनैव मुद्रितम्‌ | किमर्थम्‌ इदं पूर्वमेव त्वया नोक्तम्‌ ?' यदा मया पुनः उक्तं यत्‌ अयं प्रश्नः द्वाभ्यां छात्राभ्यां पृष्टः, तदा ताः उक्तवत्यः, ते द्वे छात्रे अतीव बुद्धिमत्यौ !


इति दिवादिगणे समग्रं तिङ्‌-सम्बद्धं सार्वधातुकप्रकरण-चिन्तनं समाप्तम्‌ |


७ - दिवादिगणः.pdf (236k) Swarup Bhai, Apr 11, 2019, 12:14 AM


Swarup – July 2015