09 - धातुपाठे हल्‌-सन्धिः २

From Samskrita Vyakaranam
Jump to navigation Jump to search
ध्वनिमुद्रणानि
2018 वर्गः
१) dhAtupAThe-hal-sandhiH-1---abhyAsaH_वरीवृत्‌ → चरीकृष्‌_+_dhAtupAThe-hal-sandhiH-2---paricayaH_2018-05-30
२) dhAtupAThe-hal-sandhiH-1---रो रि-ढ्रलोपे पूर्वस्य दीर्घोऽणः-पूर्वत्रासिद्धम्‌_+_dhAtupAThe-hal-sandhiH-2---kakAra-cakArAntadhAtavaH_2018-06-06
३) dhAtupAThe-hal-sandhiH-2---sAdipratyaye pare--cavarga-Tavarga-tavarga-pavarga-y-v-l-r-s-sh-Sh_2018-06-13
४) dhAtupAThe-hal-sandhiH-2---sAdipratyaye pare--vakArAnta-cintanam_+_hakArAntAH_+_abhyAsaH_2018-06-20
५) dhAtupAThe-hal-sandhiH-2---च्छ्वोः शूडनुनासिके च (६.४.१९) इति सूत्रे क्ङिति-?_+_sAdipratyaye pare_abhyAsaH_2018-06-27
६) dhAtupAThe-hal-sandhiH-2---च्छ्वोः शूडनुनासिके च (६.४.१९) इति सूत्रे क्ङिति-?_+_tuk-sahita-chakAraH_2018-07-04
७) dhAtupAThe-hal-sandhiH-2---abhyAsaH_+_dhAtupAThe-hal-sandhiH-3---paricayaH_2018-07-11
2015 वर्गः
१) dhAtupAThe_hal-sandhiH---apadAnte-sakArAdi-pratyaye-pare_2015-05-13
२) dhAtupAThe-hal-sandhiH-2_cintanam-abhyAsaH-ca_2016-06-19



यथा उक्तं गते पाठे, यावन्तः प्रत्ययाः धातुभ्यः विहिताः सन्ति, ते सर्वे आरभ्यन्ते एभिः अच्‌-वर्णैः (नाम अ, आ, इ, ई, उ, ऊ, ए, ऐ इत्येभिः) अथवा एभिः हल्‌-वर्णैः— य्‌, र् / व्‌, म्‌, न्‌ / त्‌, थ्‌, ध्‌, स् | यदा प्रत्ययः अज्भिः वर्णैः आरभ्यते अथवा य्‌, र् इत्येभिः हल्‌-वर्णैः आरभ्यते, तदा धातुः हलन्तः चेदपि हल्‌-सन्धिः न भवति (केवलं वर्ण-सम्मेलनं भवति) | धातुः हलन्तः अस्ति चेत्‌ अथवा प्रक्रियायां हलन्तः भवति (यथा धा-धातुः, दधा + तः → दध्‌ + तः → धत्तः), अपि च प्रत्ययः त्‌, थ्‌, ध्‌, स् इत्येभिः वर्णैः आरभ्यते, तस्यां दशायां हल्‌-सन्धिः प्रचुरः लभ्यते | व्‌, म्‌, न् इत्येभिः वर्णैः आरभ्यते चेत्‌, विशिष्टस्थलेषु लभ्यते | सन्धिः नाम यत्र द्वयोः वर्णयोः मेलनेन वर्णविकारः भवति | हल्‌-सन्धिः नाम यत्र द्वयोः हल्‌-वर्णयोः मेलनेन वर्णविकारः भवति, इति तु जानीमः |


सम्प्रति चत्वारः पाठाः क्रियमाणास्सन्ति येषु हलन्तेभ्यो धातुभ्यः कथं तकारादिप्रत्ययाः, थकारादिप्रत्ययाः, धकारादिप्रत्ययाः, सकारादिप्रत्ययाश्च संयुज्यन्ते इति परिशील्यमानम्‌ | चतुर्षु पाठेषु, अयं पाठो द्वितीयः |


A. विधयः चतुर्षु विभागेषु विभक्तः


१. हलन्तेभ्यो धातुभ्यो लङ्‌-लकारस्य त्‌-प्रत्ययः स्‌-प्रत्ययश्चेत्यनयोः योजनविधिः

२. हलन्तेभ्यो धातुभ्यस्‌ सकारादिप्रत्ययानां योजनविधिः (लङ्‌-लकारस्य स्‌-प्रत्ययम्‌ अतिरिच्य)

३. हलन्तेभ्यो धातुभ्यस्‌ तकारादिप्रत्ययानां थकारादिप्रत्ययानां च योजनविधिः (लङ्‌-लकारस्य त्‌-प्रत्ययम्‌ अतिरिच्य)

४. हलन्तेभ्यो धातुभ्यो धकारादिप्रत्ययानां योजनविधिः


तर्हि चतुर्षु अयं पाठः द्वितीयः | अत्र हलन्तेभ्यो धातुभ्यस्‌ सकारादिप्रत्ययानां योजनविधिः अवलोक्यमानः (लङ्‌-लकारस्य स्‌-प्रत्ययम्‌ अतिरिच्य) इति | अत्र मार्गः षट्‌प्रकारकः—


B. हलन्तधातुभ्यः सादिप्रत्ययः चेत्‌ अधः प्रदर्शिताः सम्भावनाः


एषु सर्वत्र स्मरणीयं यत्‌— (१) सकारः खर्-प्रत्याहारे अस्ति, अतः बहुत्र खरि च (८.४.५५) इत्यनेन चर्त्वसन्धेः प्रसङ्गः; (२) सकारः झल्‌-प्रत्याहारे अस्ति, अतः यत्र यत्र 'झलि' इति सूत्रेषु अनुवर्तते, तत्र तत्र सकारे परे तस्य प्रसङ्गः |


१. धातोरन्तिमो वर्णः क्‌, ख्‌, ग्‌, घ्‌; च्‌, छ्‌, ज्‌, झ्‌; श्‌, ष्‌ एषु अन्यतमः चेत्‌‌, तस्य वर्णस्य स्थाने ककारो भवति | (खरि च इत्यनेन, चोः कुः इत्यनेन च | शकारषकारयोः कृते षढोः कः सि) | अपि च नह्‌-धातुम्‌ अतिरिच्य हकारस्यापि ककारः भवति |

२. धातोरन्तिमो वर्णः ट्‌, ठ्‌, ड्‌, ढ्‌ एषु अन्यतमश्चेत्‌‌, तर्हि तस्य वर्णस्य स्थाने टकारो भवति (खरि च इत्यनेन), तदा सकारस्य ष्टुत्वम्‌ |

३. धातोरन्तिमो वर्णः त्‌, थ्‌, द्‌, ध्‌ एषु अन्यतमश्चेत्‌‌, तर्हि तस्य वर्णस्य स्थाने तकारो भवति | (खरि च इत्यनेन |)

४. धातोरन्तिमो वर्णः प्‌, फ्‌, ब्‌, भ्‌ एषु अन्यतमश्चेत्‌‌, तर्हि तस्य वर्णस्य स्थाने पकारो भवति | (खरि च इत्यनेन |)

५. धातोरन्तिमो वर्णः न्‌‍, म्‌ अनयोः अन्यतमश्चेत्‌, तर्हि तस्य वर्णस्य स्थाने अनुस्वारो भवति | (नश्चापदान्तस्य झलि इत्यनेन |)

६. धातोरन्तिमो वर्णः यकारः चेत्‌ तस्य लोपः लोपो व्योर्वलि (६.१.६६) इति सूत्रेण | वकारान्तस्य हल्‌-सन्धि-अवसरो नास्ति |

७. धातोरन्तिमो वर्णः लकारो वा रेफो वा चेत्‌, तस्य विकारः नास्ति |

८. धातोरन्तिमो वर्णः सकारश्चेत्‌, सार्वधातुकप्रत्यये परे केवलं वर्णमेलनम्‌‌; आर्धधातुकप्रत्यये परे धात्वङ्गसकारस्य तकारादेशो भवति | (सः स्यार्धधातुके इत्यनेन |)

९. धातोरन्तिमो वर्णः हकारश्चेत्‌, नह्‌-धातुम्‌ अतिरिच्य हकारस्य ककारः | (हो ढः + षढोः कः सि अथवा दादेर्धातोर्घः + खरि च |)


C. कवर्गः, चवर्गः, षकारः, शकारः


धातोः अन्तिमो वर्णः क्‌, ख्‌, ग्‌, घ्‌; च्‌, छ्‌, ज्‌, झ्‌; श्‌, ष् एषु अन्यतमः चेत्‌‌, तर्हि सादिप्रत्यये परे तस्य वर्णस्य स्थाने ककारो भवति | अपि च सादिप्रत्ययस्य सकारस्य स्थाने षकारादेशो भवति आदेशप्रत्यययोः (८.३.५९) इति सूत्रेण | तदा ककारषकारयोः मेलनेन क्ष्‌ इति भवति |


शक्‌ + स्यति → शक्‌ + ष्यति → शक्ष्यति

लेलेख्‌ + सि → लेलेक् + षि → लेलेक्षि

तात्वङ्ग्‌‌‌ + सि → तात्वङ्क्‌‌ + षि → तात्वङ्क्षि

जाघघ्‌‌ + सि → जाघक्‌ + षि → जाघक्षि

लालङ्घ् + सि → लालङ्क्‌‌ + षि → लालङ्क्षि

वच्‌ + सि → वक्‌ + षि → वक्षि

प्रच्छ्‌ + स्यति → प्रक्‌ + ष्यति → प्रक्ष्यति

योज्‌ + स्यति → योक्‌ + ष्यति → योक्ष्यति

याझर्झ्‌ + सि → याझर्क्‌ + षि → याझर्क्षि

क्रोश्‌ + स्यति → क्रोक्‌ + ष्यति → क्रोक्ष्यति

कर्ष्‌ + स्यति → कर्क्‌ + ष्यति → कर्क्ष्यति


१. क्‌, ख्‌, ग्‌, घ्‌ → क्‌


प्रत्ययस्य प्रथमवर्णः त्‌, थ्‌, ध्‌, स्‌ चेत्‌ हल्‌-सन्धिः भवतीति उक्तम्‌ | तेषु वर्णेषु त्‌, थ्‌, स्‌ च खर्-प्रत्याहारे सन्ति, अतः तेषु वर्णेषु परेषु खरि च इत्यनेन चर्त्वसन्धिः (तत्तत्‌ वर्गस्य प्रथमादेशो) भवति | अत्र सादिप्रत्ययः परः अस्ति, अतः चर्त्वसन्धिः भवतु |


तस्मात्‌ पूर्वं किन्तु आदेशप्रत्यययोः (८.३.५९) इत्यनेन कवर्गीयवर्णात्‌ परस्य प्रत्ययावयवस्य सकारस्य षत्वादेशः | (खरि च (८.४.५५) तदपेक्षया परत्रिपादिसूत्रम्‌ अतः असिद्धम्‌ |)


यथा—

त्यग्‌ + स्यति → आदेशप्रत्ययोः → त्यग्‌ + ष्यति

घोग्‌ + सि → आदेशप्रत्ययोः → घोग्‌ + षि


आदेशप्रत्यययोः (८.३.५९) = इण्‌-प्रत्याहारात्‌ कवर्गीयात्‌ च परे अपदान्तः आदेशरूपी प्रत्ययावयवो वा सकारः अस्ति चेत्‌, तस्य सकारस्य स्थाने षकारादेशो भवति | आदेशः तु मूर्धन्यवर्णस्य इत्येव उक्तं, परं स्थानेऽन्तरतमः इत्यनेन ट्‌, ठ्‌, ड्‌, ढ्‌, ण्‌, ष्‌ इत्येषु मूर्धन्यवर्णेषु षकारस्य नैकट्यम्‌, अतः षकारः एव आदिष्टः भवति | नुम्‌, विसर्गः, शर्-प्रत्याहारस्थ-वर्णः एषु अन्यतमः मध्ये अस्ति चेदपि कार्यं भवति | इण्‌-प्रत्याहरे इमे वर्णाः अन्तर्भूताः— इ, उ, ऋ, ऌ, ए, ओ, ऐ, औ, ह, य, व, र, ल | अस्य कार्यस्य नाम षत्वविधिः | आदेशश्च प्रत्ययश्च आदेशप्रत्ययौ, तयोः आदेशप्रत्यययोः इतरेतरद्वन्द्वः | षष्ठ्यन्तम्‌ एकपदमिदं सूत्रम्‌ | सहे साडः सः (८.३.५६) इत्यस्मात्‌ सः इत्यस्य अनुवृत्तिः | नुंविसर्जनीयशर्व्यवायेऽपि (८.३.५८) इत्यस्य पूर्णा अनुवृत्तिः | तयोर्य्वावचि संहितायाम्‌ (८.२.१०८) इत्यस्मात्‌ संहितायाम्‌ इत्यस्य अधिकारः | इण्कोः (८.३.५७), अपदान्तस्य मूर्धन्यः (८.३.५५) इत्यनयोः अधिकारः | अनुवृत्ति-सहितसूत्रम्‌—इण्कोः आदेशप्रत्यययोः अपदान्तस्य सः मूर्धन्यः संहितायां, नुंविसर्जनीयशर्व्यवायेऽपि* |


सम्प्रति खरि च (८.४.५५) इत्यनेन चर्त्वादेशः—


त्यग्‌ + ष्यति → त्यक्‌ + ष्यति → त्यक्ष्यति

घोग्‌ + षि → घोक्‌ + षि → घोक्षि


खरि च (८.४.५५) = झलः स्थाने चरादेशो भवति खरि परे | खरि सप्तम्यन्तं, च अव्ययपदं, द्विपदमिदं सूत्रम्‌ | झलां जश्‌ झशि (८.४.५३) इत्यस्मात्‌ झलां इत्यस्य अनुवृत्तिः; अभ्यासे चर्च (८.४.५४) इत्यस्मात्‌ चर्च इत्यस्य अनुवृत्तिः | तयोर्य्वावचि संहितायाम्‌ (८.२.१०८) इत्यस्मात्‌ संहितायाम् इत्यस्य अधिकारः | अनुवृत्ति-सहितसूत्रं— झलां चर् खरि च संहितायाम् ‌|


अन्यानि उदाहरणानि—

शशक्‌ + सि → शशक्‌ + षि‌ → शशक्षि

लेलेख्‌ + सि → लेलेख्‌ + षि → लेलेक्‌ + षि → लेलेक्षि

तात्वङ्ग्‌ + सि → तात्वङ्ग्‌ + षि → तात्वङ्क्‌ + षि → तात्वङ्क्षि

जाघग्‌ + सि → जाघग्‌ + षि → जाघक्‌ + षि → जाघक्षि

लालङ्घ्‌ + सि → लालङ्घ्‌ + षि → लालङ्क्‌ + षि → लालङ्क्षि


*प्रश्नः उदेति यत्‌ नुम्‌, विसर्गः, शर् व्यवाये चेदपि षत्वमित्यस्य दृष्टान्तः कः ?


व्यवाये नुम्‌ इत्यस्य दृष्टान्ताः एते— सर्पींषि, यजूंषि, हवींषि | सर्पिस्‌ (घृतं), यजुस्‌ (पूजा), हविस्‌ (हव्यम्‌) इति प्रातिपदिकानि | अत्र बोध्यं कथं निष्पन्नं सर्पिस्‌ इति प्रातिपदिकम्‌ | सृप गतौ, लटि सर्पति | सृप्-धातुः + इसि इति उणादिप्रत्ययः | सृप + इसि → अनुबन्धलोपे → सृप्‌ + इस्‌ → पुगन्तलघूपधस्य च (७.३.८६) इत्यनेन गुणः → सर्पिस्‌ इति प्रातिपदिकम्‌ | नपुंसके प्रथमाविभक्तौ बहुवचने सर्पिस्‌ + इ → नुम्‌-आगमः → सर्पिंस्‌ + इ → → नुम्‌-व्यवायेऽपि षत्वम्‌ → सर्पींषि | अतः अयं सकारः प्रत्ययस्य एव | एवमेव यजूंषि, हवींषि |


व्यवाये विसर्गस्य दृष्टान्ताः एते— सर्पिःषु, यजुःषु, हविःषु | नपुंसके सप्तमीविभक्तौ बहुवचने सर्पिस्‌ + सुप्‌ → सर्पिस्‌ इत्यस्य सकारस्य विसर्गादेशः, विसर्गस्य व्यवायेऽपि षत्वम्‌ → सर्पिःषु | एवमेव यजुःषु, हविःषु |


व्यवाये शर्-प्रत्याहारस्य दृष्टान्ताः एते— सर्पिष्षु, यजुष्षु, हविष्षु | नपुंसके सप्तमीविभक्तौ बहुवचने सर्पिस्‌ + सुप्‌ → वा शरि (८.३.३६) इत्यनेन विकल्पेन विसर्गादेशः; पक्षे सकार एव → सकारपक्षे सकारस्य व्यवायेऽपि षत्वम्‌ → सर्पिस्‌ + षु → ष्टुना ष्टुः (८.४.४१) → सर्पिष्षु | एवमेव यजुष्षु, हविष्षु |


२. च्‌, छ्‌, ज्‌, झ्‌ → क्‌


चोः कुः (८.२.३०) = चवर्गस्य स्थाने कवर्गादेशो भवति झलि पदान्ते च | चोः षष्ठ्यन्तं, कुः प्रथमान्तं, द्विपदमिदं सूत्रम्‌ | झलो झलि (८.२.२६) इत्यस्मात्‌ झलि इत्यस्य अनुवृत्तिः | स्कोः संयोगाद्योरन्ते च (८.२.२९) इत्यस्मात्‌ अन्ते, इत्यनयोः अनुवृत्तिः | पदस्य (८.१.१६) इत्यस्य अधिकारः | अनुवृत्ति-सहितसूत्रम्‌— चोः कुः झलि पदस्य अन्ते च |


गते पाठे अस्य सूत्रस्य प्रयोगः अस्माभिः दृष्टः पदान्ते, लङ्‌-लकारप्रसङ्गे | परन्तु झलि अपि भवति इत्युक्तम्‌ | सकारः झलि अस्ति, अतः अत्रापि इदं कार्यं प्रसक्तम्‌ | [त्‌, थ्‌, ध्‌, स्‌ एते सर्वे हल्‌-सन्धिनिमित्तकवर्णाः झलि सन्ति |]


चोः कुः इत्यनेन सकारे परे कुत्वं विहितम्‌—

च्‌ → क्‌

छ्‌ → ख्‌‌

ज्‌ → ग्‌

झ्‌ → घ्‌


चकारस्य प्रकारद्वयम्‌


अ) सामान्यम्‌ = चोः कुः (८.२.३०) इत्यनेन कुत्वम्‌


वच्‌ + स्यति → चोः कुः (८.२.३०) → वक्‌ + स्यति → आदेशप्रत्यययोः (८.३.५९) इत्यनेन षत्वम्‌ → वक्‌ + ष्यति → वक्ष्यति


आ) व्रश्च्‌-धातुः


अत्र व्रश्चभ्रस्जसृजमृजयजराजभ्राजच्छशां षः (८.२.३६) इत्यनेन षत्वम्‌ |


वाव्रश्च्‌ + सि‌ → स्कोः संयोगाद्योरन्ते च (८.२.२९) इत्यनेन संयोगे पूर्वसकारलोपः → वाव्रच्‌ + सि → व्रश्चभ्रस्जसृजमृजयजराजभ्राजच्छशां षः (८.२.३६) इत्यनेन षत्वम्‌ → वाव्रष्‌ + सि → षढोः कः सि (८.२.४१) इत्यनेन सकारे परे षकारस्य ककारादेशः → वाव्रक्‌ + सि → आदेशप्रत्यययोः (८.३.५९) इत्यनेन षत्वम्‌ → वाव्रक्षि


प्रश्नः उदेति कथं स्कोः संयोगाद्योरन्ते च (८.२.२९) इत्यनेन शकारलोपः यदा सूत्रेण सकारलोपस्य विधानम्‌ | सामान्यतया वदामः यत्‌ 'वस्तुतः अत्र मूले सकारः आसीत्‌; श्चुत्वसन्धिना एव शकारः जातः' | अस्तु, तत्तु सत्यं; किन्तु अधुना शकारः अस्ति किल न तु सकारः | इति चेत्‌ कथं वा स्कोः संयोगाद्योरन्ते च (८.२.२९) इत्यनेन सकारलोपः स्यात्‌ ? अकृतव्यूहाः पाणिनीयाः (५६) इति परिभाषया नशिष्यमाणं निमित्तं न स्वीकर्तव्यम्‌ इत्यस्मात्‌ व्रश्चभ्रस्जसृजमृजयजराजभ्राजच्छशां षः (८.२.३६) इत्यनेन श्चुत्वसन्धेः निमित्तचकारस्य जायमानात्‌ नाशात्‌ स्तोः श्चुना श्चुः (८.४.४०) इति सूत्रं न प्रवर्तनीयमेव | अतः सकारः तिष्ठति | वाव्रस्च्‌ + सि‌ → स्कोः संयोगाद्योरन्ते च (८.२.२९) → वाव्रच्‌ + सि |


स्कोः संयोगाद्योरन्ते च (८.२.२९) = संयोगस्य प्रथमसदस्यः सकारः ककारः वा चेत्‌, संयोगस्य प्रथमसदस्यलोपो भवति न तु द्वितीयसदस्यस्य, झलि पदान्ते च | स्‌ च क्‌ च तयोरितरेतरद्वन्द्वः स्कौ, तयोः स्कोः | संयोगस्य आदि संयोगादि, तयोः संयोगाद्योः, षष्ठीतत्पुरुषः | संयोगान्तस्य लोपः (८.२.२३) इत्यस्मात्‌ लोपः इत्यस्य अनुवृत्तिः | झलो झलि (८.२.२६) इत्यस्मात्‌ झलि इत्यस्य अनुवृत्तिः | पदस्य (८.१.१६) इत्यस्य अधिकारः | अनुवृत्ति-सहितसूत्रम्‌— संयोगाद्योः स्कोः लोपः झलि पदस्य अन्ते च |


व्रश्चभ्रस्जसृजमृजयजराजभ्राजच्छशां षः (८.२.३६) = व्रश्च्‌, भ्रस्ज्‌, सृज्‌, मृज्‌, यज्‌, राज्‌, भ्राज्‌, छकारान्ताः शकारान्ताः चैषां धातूनाम्‌ अन्तिमवर्णस्य स्थाने षकारादेशो भवति झलि पदान्ते च | अलोऽन्त्यस्य (१.१.५२) इत्यनेन अन्तिमवर्णस्य एव स्थाने षकारादेशः, न तु पूर्णपदस्य | व्रश्चश्च भ्रस्जश्च सृजश्च मृजश्च यजश्च राजश्च भ्राजश्च छश्च श्‌ च तेषामितरेतरद्वन्दः व्रश्चभ्रस्जसृजमृजयजराजभ्राजच्छशः, तेषां व्रश्चभ्रस्जसृजमृजयजराजभ्राजच्छशाम्‌ | व्रश्चभ्रस्जसृजमृजयजराजभ्राजच्छशां षष्ठ्यन्तं, षः प्रथमान्तं, द्विपदमिदं सूत्रम्‌ | अत्र 'जच्छशां' इति भागे छे च (६.१.७३) इत्यनेन तुक्‌-आगमे सति जत्छशां, तदा श्चुत्वसन्धौ जच्छशां | झलो झलि (८.२.२६) इत्यस्मात्‌ झलि इत्यस्य अनुवृत्तिः | स्कोः संयोगाद्योरन्ते च (८.२.२९) इत्यस्मात्‌ अन्ते, इत्यनयोः अनुवृत्तिः | पदस्य (८.१.१६) इत्यस्य अधिकारः | अनुवृत्ति-सहितसूत्रम्‌— व्रश्चभ्रस्जसृजमृजयजराजभ्राजच्छशां षः झलि पदस्य अन्ते च |


षढोः कः सि (८.२.४१) = षकारस्य ढकारस्य च ककारादेशो भवति सकारे परे | ष्टुना ष्टुः (८.४.४१) इत्यस्य अपवादः | षश्च ढश्च तयोः इतरेतरद्वन्द्वः षढौ, तयोः षढोः | षढोः षष्ठ्यन्तं, कः प्रथमान्तं, सि सप्तम्यन्तं, त्रिपदमिदं सूत्रम्‌ | सूत्रं स्वयं सम्पूर्णं— षढोः कः सि |


छकारस्य प्रकारद्वयम्‌


अ) सामान्यम्‌ = च्छ्वोः शूडनुनासिके च (६.४.१९) इत्यनेन शत्वं, तदा व्रश्चभ्रस्जसृजमृजयजराजभ्राजच्छशां षः (८.२.३६) इत्यनेन षत्वम्‌


पाप्रच्छ्‌ + सि → च्छ्वोः शूडनुनासिके च (६.४.१९) → पाप्रश्‌ + सि → व्रश्चभ्रस्जसृजमृजयजराजभ्राजच्छशां षः (८.२.३६) → पाप्रष्‌ + सि → षढोः कः सि (८.२.४१) → पाप्रक्‌ + सि → पाप्रक्‌ + षि → पाप्रक्षि


च्छ्वोः शूडनुनासिके च (६.४.१९) = तुक्‌-सहित-छकारस्य स्थाने शकारादेशः अपि च वकारस्य स्थाने ऊठ्‌-आदेशो भवति अनुनासिकादि-प्रत्यये परे, क्वि परे, झलादि-प्रत्यये च परे | च्छ्‌ च व्‌ च तयोरितरेतरद्वन्द्वः च्छ्वौ, तयोः च्छ्वोः | श्‌ च ऊठ्‌ च तयोः समाहारद्वन्द्वः शूड्‌ | झलां जशोऽन्ते (८.२.३९) इत्यनेन ठकारस्य स्थाने डकारः | च्छ्वोः षष्ठ्यन्तं, शूड्‌ प्रथमान्तम्‌, अनुनासिके सप्तम्यन्तं, च अव्ययपदम्‌, अनेकपदमिदं सूत्रम्‌ | अनुनासिकस्य क्विझलोः क्ङिति (६.४.१५) इत्यस्मात्‌ क्विझलोः इत्यस्य अनुवृत्तिः | अङ्गस्य (६.४.१) इत्यस्य अधिकारः | अनुवृत्ति-सहितसूत्रम्‌— च्छ्वोः अङ्गस्य शूड्‌ क्विझलोः अनुनासिके च |


आ) रेफपूर्वक-छकारान्तधातुः = राल्लोपः (६.४.२१) इत्यनेन छकारलोपः


मोमुर्छ्‌ + सि → राल्लोपः (६.४.२१) इत्यनेन झलादि-प्रत्यये छकारलोपः → मोमुर् + सि → पुगन्तलघूपधस्य च (७.३.८६) इत्यनेन उपधा-गुणः → मोमोर् + सि → षत्वम्‌ → मोमोर्षि


राल्लोपः (६.४.२१) = रेफात्‌ परस्य छकारस्य वकारस्य च लोपो भवति क्वि, झलादि-प्रत्ययः, अनुनासिकः च परे अस्ति चेत्‌ | रात्‌ पञ्चम्यन्तं, लोपः प्रथमान्तं, द्विपदमिदं सूत्रम्‌ | च्छ्वोः शूडनुनासिके च (६.४.१९) इत्यस्मात्‌ च्छ्वोः इत्यस्य अनुवृत्तिः; अत्र धेयं यत्‌ अनुवृत्तौ 'तक्‌-सहितः छकारः' सत्यपि व्याख्याने तुगागमो नापेक्षितः अतः न स्वीकृतः | अनुनासिकस्य क्विझलोः क्ङिति (६.४.१५) इत्यस्मात्‌ अनुनासिकस्य, क्विझलोः इत्यनयोः अनुवृत्तिः | अङ्गस्य (६.४.१) इत्यस्य अधिकारः | अनुवृत्ति-सहितसूत्रम्‌— अङ्गस्य रात्‌ च्छ्वोः लोपः अनुनासिके क्विझलोः |


जकारस्य प्रकारद्वयम्‌


अ) सामान्यम्‌ = चोः कुः (८.२.३०) इत्यनेन कुत्वम्‌


त्यज्‌ + स्यति → चोः कुः (८.२.३०) इत्यनेन सकारे (झलि) परे कुत्वम् → त्यग्‌ + स्यति → आदेशप्रत्यययोः (८.३.५९) इत्यनेन षत्वम्‌ → त्यग्‌ + ष्यति → खरि च (८.४.५५) इत्यनेन चर्त्वं → त्यक्‌ + ष्यति → त्यक्ष्यति


योज्‌ + स्यति → योग्‌ + स्यति → योग्‌ + ष्यति → योक्‌ + ष्यति → योक्ष्यति



आ) भ्रस्ज्‌, सृज्‌, मृज्‌, यज्‌, राज्‌, भ्राज्‌ इत्येषां षत्वम्‌


एतेषां षत्वं भवति व्रश्चभ्रस्जसृजमृजयजराजभ्राजच्छशां षः (८.२.३६) इति सूत्रेण यतोहि एते धातवः असिन्‌ सूत्रे साक्षात्‌ उक्ताः |


बाभ्रस्ज्‌ + सि → स्कोः संयोगाद्योरन्ते च (८.२.२९) इत्यनेन झलि परे संयोगस्य प्रथमसदस्यस्थ-सकारस्य लोपः → बाभ्रज्‌ + सि → व्रश्चभ्रस्जसृजमृजयजराजभ्राजच्छशां षः (८.२.३६) इत्यनेन जकारस्य षत्वम्‌ → बाभ्रष्‌ + सि → षढोः कः सि (८.२.४१) इत्यनेन सकारे परे षकारस्य ककारादेशः → बाभ्रक्‌ + सि → आदेशप्रत्यययोः (८.३.५९) इत्यनेन इण्कोः प्रत्ययावयवस्य सकारस्य षत्वम्‌ → बाभ्रक्षि


सरीस्रज्‌ + सि →

मरीमार्ज्‌ + सि →

यायज्‌ + सि →

राराज्‌ + सि →

बाभ्राज्‌ + सि →


झकारान्तस्य एकः प्रकारःचोः कुः (८.२.३०) इत्यनेन कुत्वम्‌


जाझर्झ्‌ + सि → चोः कुः (८.२.३०) इत्यनेन कुत्वम्‌ → जाझर्घ्‌ + सि → आदेशप्रत्यययोः (८.३.५९) इत्यनेन षत्वम्‌ → जाझर्घ्‌ + षि → खरि च (८.४.५५) इत्यनेन खरि परे झलः स्थाने चरादेशः → जाझर्क्‌ + षि → जाझर्क्षि


३. ष्‌ → क्‌


षढोः कः सि (८.२.४१) = षकारस्य ढकारस्य च ककारादेशो भवति सकारे परे | ष्टुना ष्टुः (८.४.४१) इत्यस्य अपवादः | षश्च ढश्च तयोः इतरेतरद्वन्द्वः षढौ, तयोः षढोः | षढोः षष्ठ्यन्तं, कः प्रथमान्तं, सि सप्तम्यन्तं, त्रिपदमिदं सूत्रम्‌ | सूत्रं स्वयं सम्पूर्णं— षढोः कः सि |


यथा— कर्ष्‌ + स्यति → षढोः कः सि (८.२.४१) इत्यनेन षकारस्य ककारादेशः → कर्क्‌ + स्यति → आदेशप्रत्यययोः (८.३.५९) इत्यनेन इण्कोः प्रत्ययावयवस्य सकारस्य षत्वम्‌ → कर्क्‌ + ष्यति → कर्क्ष्यति



४. श्‌ → ष्‌‌ → क्‌


प्रत्ययस्य आदौ सकारः झलि, अतः धात्वन्तस्य शकारस्य स्थाने षकारादेशो भवति |


व्रश्चभ्रस्जसृजमृजयजराजभ्राजच्छशां षः (८.२.३६) = व्रश्च्‌, भ्रस्ज्‌, सृज्‌, मृज्‌, यज्‌, राज्‌, भ्राज्‌, छकारान्ताः शकारान्ताः चैषां धातूनाम्‌ अन्तिमवर्णस्य स्थाने षकारादेशो भवति झलि पदान्ते च | अनुवृत्ति-सहितसूत्रम्‌— व्रश्चभ्रस्जसृजमृजयजराजभ्राजच्छशां षः झलि पदस्य अन्ते च |


यथा—

क्रोश्‌ + स्यति → क्रोष्‌ + स्यति

वश्‌ + सि → वष्‌ + सि


अधुना ष्‌ → क्‌


क्रोष्‌ + स्यति → षढोः कः सि (८.२.४१) इत्यनेन षकारस्य ककारादेशः → क्रोक्‌ + स्यति‌ → आदेशप्रत्यययोः (८.३.५९) इत्यनेन इण्कोः प्रत्ययावयवस्य सकारस्य षत्वम्‌ → क्रोक्‌ + ष्यति → क्रोक्ष्यति

वष्‌ + सि → षढोः कः सि (८.२.४१) इत्यनेन षकारस्य ककारादेशः → वक्‌ + सि → आदेशप्रत्यययोः (८.३.५९) इत्यनेन षत्वम्‌ → वक्‌ + षि → वक्षि


D. टवर्गः


१. टकारः, ठकारः, डकारः


टकारस्य, ठकारस्य, डकारस्य च प्रभावेन अग्रे स्थितस्य सकारस्य ष्टुना ष्टुः (८.४.४१) इत्यनेन ष्टुत्वादेशः | तदा स च षकारः खरि अस्ति इति कृत्वा टकार-ठकार-डकाराणां चरादेशः खरि च (८.४.५५) इत्यनेन |


रारट्‌ + सि → ष्टुना ष्टुः (८.४.४१) इत्यनेन ष्टुत्वादेशः → रारट्‌ + षि → खरि च (८.४.५५) इत्यनेन खरि परे झलः स्थाने चरादेशः → रारट्‌ + षि → रारट्‌षि

लोलोठ्‌ + सि → ष्टुना ष्टुः (८.४.४१) → खरि च (८.४.५५) → लोलोट्‌षि

चाकड्‌ + सि → ष्टुना ष्टुः (८.४.४१) → खरि च (८.४.५५) → चाकट्‌षि


ष्टुना ष्टुः (८.४.४१) = दन्त्यसकारस्य तवर्गीयवर्णस्य च स्थाने मूर्धन्यषकारादेशः टवर्गीयवर्णादेशश्च भवतः, मूर्धन्यषकार-टवर्गीयवर्णयोः योजनेन | अनुवृत्ति-सहितसूत्रं— स्तोः ष्टुना ष्टुः संहितायाम्‌ |


२. ढकारः


ढकारस्य षढोः कः सि (८.२.४१) इत्यनेन ककारादेशः, तदा आदेशप्रत्यययोः (८.३.५९) इत्यनेन इण्कोः प्रत्ययावयवस्य सकारस्य षत्वम्‌ |


वावढ्‌ + सि → षढोः कः सि (८.२.४१) → वावक्‌ + सि → आदेशप्रत्यययोः (८.३.५९) → वावक्षि


३. णकारः


रंरण्‌ + सि → णकारस्य प्रभावेन ष्टुना ष्टुः (८.४.४१) इत्यनेन अग्रे स्थितस्य सकारस्य ष्टुत्वादेशः → रंरण्षि


E. तवर्गः


तकारः, थकारः, दकारः, धकारः


धातोः अन्तिमो वर्णः त्‌, थ्‌, द्‌, ध्‌ एषु अन्यतमश्चेत्‌‌, सकारे परे खरि च (८.४.५५) इत्यनेन खरि परे झलः स्थाने चरादेशः → एषां स्थाने तकारादेशः |


त्‌, थ्‌, द्‌, ध्‌ → त्‌ | खरि च (८.४.५५) इत्यनेन सकारे परे, तवर्गीयाणां प्रथमसदस्यादेशः | सकारस्य कोऽपि विकारो न भवति |


यथा—

चाचत्‌ + सि → खरि च (८.४.५५) इत्यनेन प्रथमसदस्यादेशः → चाचत्‌ + सि → चाचत्सि

वाव्यथ्‌ + सि → खरि च (८.४.५५) इत्यनेन प्रथमसदस्यादेशः → वाव्यत्‌ + सि → वाव्यत्सि

अद्‌ + स्यति → खरि च (८.४.५५) इत्यनेन प्रथमसदस्यादेशः → अत्‌ + स्यति → अत्स्यति

क्रोध्‌ + स्यति → खरि च (८.४.५५) इत्यनेन प्रथमसदस्यादेशः → क्रोत्‌ + स्यति → क्रोत्स्यति


विशेषः—

अस्मिन्‌ समूहे बशो भष्‌ (३४ → ४४) इत्यस्य सम्भावना वर्तते |


एकाचो बशो भष्‌ झषन्तस्य स्ध्वोः (८.२.३७) = बशः भषादेशः


यथा—

बन्ध्‌ + स्यति → एकाचो बशो भष्‌ झषन्तस्य स्ध्वोः (८.२.३७) इत्यनेन धातोरवयवो यो झषन्त एकाच्‌, तस्य बशः भषादेशः सकारे परे → भन्ध्‌ + स्यति → खरि च (८.४.५५) इत्यनेन प्रथमसदस्यादेशः → भन्त्‌ + स्यति → भन्त्स्यति

बुध्‌ + स्यते → पुगन्तलघूपधस्य च (७.३.८६) इत्यनेन गुणः → बोध्‌ + स्यते → एकाचो बशो भष्‌ झषन्तस्य स्ध्वोः (८.२.३७) इत्यनेन भषादेशः → भोध्‌ + स्यते → खरि च (८.४.५५) इत्यनेन प्रथमसदस्यादेशः → भोत्‌ + स्यते → भोत्स्यते


परिचयः— धातोः आदौ बश्‌ (ब, ग, ड, द) अपि च अन्ते झष्‌ (झ, भ, घ, ढ, ध), तस्य धातोः नाम एकाच्‌-बशादि-झषन्तधातुः | यथा बन्ध्‌-धातुः, बुध्‌-धातुः च | यदि उपर्युक्त-हकारान्तधातुसम्बद्ध-सूत्रैः हकारस्य स्थाने झषादेशः सञ्जातः (दृष्टान्ते— दुह्‌ → दुघ्‌) तर्हि सोऽपि तादृशो धातुः | एकाच्‌-बशादि-झषन्तधातोः आदौ स्थितस्य बशः स्थाने भषादेशो भवति (भ, घ, ढ, ध) सकारादि-प्रत्यये परे, ध्व-शब्दे परे, पदान्ते च | अतः वदामः यत्‌ '३४ → ४४' इत्युक्तौ यत्र धातोः आदौ वर्गस्य तृतीयसदस्यः (३), अन्ते च वर्गस्य चतुर्थसदस्यः (४), तत्र आदौ स्थितस्य तृतीयसदस्यस्य स्थाने चतुर्थसदस्यादेशो भवति (३ → ४) | आहत्य ३४ → ४४ इति विकारः | धेयं यत्‌ अयं बश्‌-वर्णः धातोः अन्तिम-अंशस्य आदौ अपि भवितुमर्हति | अनेन धातुः अनेकाच्‌ चेदपि, तस्य धातोः एकाच्‌-बशादि-झषन्तधात्वंशः अस्ति चेत्‌, अत्रापि ३४ → ४४ इति विकारो भवति |


एकाचो बशो भष्‌ झषन्तस्य स्ध्वोः (८.२.३७) = धातोरवयवो यो झषन्त एकाच्‌, तस्य बशः भषादेशो भवति सकारे परे, ध्व-शब्दे परे, पदान्ते च | अनुवृत्तिसहितसूत्रे 'एकाचः झषन्तस्य' इत्यनयोरेव विशेषणविशेष्यभावः; धातोः तादृशांशः इति तात्पर्यम्‌ | अनेन धातोः एकाच्‌ वा तदधिकाः वा अर्हाः | एकोऽच्‌ यस्मिन्‌ स एकाच्‌ बहुव्रीहिः, तस्य एकाचः | झष्‌ अन्ते यस्य स झषन्तः बहुव्रीहिः, तस्य झषन्तस्य | स्‌ च ध्व्‌‌ च स्ध्वौ इतरेतरद्वन्द्वः, तयोः स्ध्वोः | एकाचः षष्ठ्यन्तं, बशः षष्ठ्यन्तं, भष्‌ प्रथमान्तं, झषन्तस्य षष्ठ्यन्तं, स्ध्वोः सप्तम्यन्तं, अनेकपदमिदं सूत्रम् | दादेर्धातोर्घः (८.२.३२) इत्यस्मात्‌ धातोः इत्यस्य अनुवृत्तिः | स्कोः संयोगाद्योरन्ते च (८.२.२९) इत्यस्मात्‌ अन्ते, इत्यनयोः अनुवृत्तिः | पदस्य (८.१.१६) इत्यस्य अधिकारः | अनुवृत्ति-सहितसूत्रं— धातोः एकाचः झषन्तस्य बशः भष्‌ स्ध्वोः पदस्य अन्ते च |


नकारः


सकारः झलि अतः नश्चापदान्तस्य झलि (८.३.२४) इत्यनेन अपदान्तस्य नकारस्य स्थाने अनुस्वारादेशः |


हन्‌ + सि → हंसि

मन्‌ + स्यते → मंस्यते


नश्चापदान्तस्य झलि (८.३.२४) = अपदान्तस्य नकारस्य मकारस्य च स्थाने अनुस्वारादेशो भवति झलि परे | झल्‌-प्रत्याहारे वर्गस्य प्रथमः, द्वितीयः, तृतीयः, चतुर्थः च वर्णाः अपि च श्‌, ष्‌, स्‌, ह्‌ इति वर्णाः अन्तर्भूताः | पदस्य अन्तः पदान्तः, न पदान्तः अपदान्तः तस्य अपदान्तस्य | नः षष्ठ्यन्तं, च अव्ययपदम्‌, अपदान्तस्य षष्ठ्यन्तं, झलि सप्तम्यन्तं, अनेकपदमिदं सूत्रम्‌ | मो‍ऽनुस्वारः (८.३.२३) इत्यस्मात्‌ मः, अनुस्वारः इत्यनयोः अनुवृत्तिः | तयोर्य्वावचि संहितायाम्‌ (८.२.१०८) इत्यस्मात्‌ संहितायाम् इत्यस्य अधिकारः | अनुवृत्ति-सहितसूत्रम्‌— अपदान्तस्य मः नः च अनुस्वारः झलि संहितायाम् |


F. पवर्गः


पकारः, फकारः, बकारः, भकारः


धातोः अन्तिमो वर्णः प्‌, फ्‌, ब्‌, भ्‌ एषु अन्यतमश्चेत्‌‌, सादिप्रत्यये परे तस्य वर्णस्य स्थाने पकारो भवति |


प्‌, फ्‌, ब्‌, भ्‌ → प्‌ | खरि च (८.४.५५) इत्यनेन सकारे परे, पवर्गीयवर्णानामपि प्रथमसदस्यादेशो भवति | सकारस्य कोऽपि विकारो न भवति |


यथा‌—

आप्‌ + स्यति → खरि च (८.४.५५) इत्यनेन प्रथमसदस्यादेशः → आप्‌ + स्यति → आप्स्यति

रारफ्‌ + सि → खरि च (८.४.५५) इत्यनेन प्रथमसदस्यादेशः → रारप्‌ + सि → रारप्सि

चाकब्‌ + सि → खरि च (८.४.५५) इत्यनेन प्रथमसदस्यादेशः → चाकप्‌ + सि → चाकप्सि

लालभ्‌ + सि → खरि च (८.४.५५) इत्यनेन प्रथमसदस्यादेशः → लालप्‌ + सि → लालप्सि


भष्‌-भावः

दादम्भ्‌ + सि → एकाचो बशो भष्‌ झषन्तस्य स्ध्वोः (८.२.३७) इत्यनेन धातोरवयवो यो झषन्त एकाच्‌, तस्य बशः भषादेशः सकारे परे → दाधम्भ्‌ + सि → खरि च (८.४.५५) इत्यनेन चर्त्वादेशः → दाधम्प्‌ + सि → दाधम्प्सि


अत्र नश्चापदान्तस्य झलि (८.३.२४) इत्यनेन नकारस्य अनुस्वारः, अनुस्वारस्य ययि परसवर्णः (८.४.५८) इत्यनेन अनुस्वारस्य मकारः इति यथासामान्यं भवति |


मकारः


सकारः झलि अतः नश्चापदान्तस्य झलि (८.३.२४) इत्यनेन अपदान्तस्य मकारस्य स्थाने अनुस्वारादेशः |

रम्‌ + स्यते → नश्चापदान्तस्य झलि (८.३.२४) → रंस्यते

नम्‌ + स्यति → नश्चापदान्तस्य झलि (८.३.२४) → नंस्यति

संगम्‌ + स्यते → नश्चापदान्तस्य झलि (८.३.२४) → संगंस्यते


G. यकारः, वकारः


यकारस्य लोपः भवति सकारे परे | सकारः वल्‌-प्रत्याहारे विद्यमानत्वात्‌ |


जहाय्‌ + सि → जहासि


लोपो व्योर्वलि (६.१.६६) = वकारयकारयोः लोपो भवति वल्‌-प्रत्याहारे परे | व्‌ च य्‌ च व्यौ इतरेतरद्वन्द्वः, तयोः व्योः | लोपः प्रथमान्तं, व्योः षष्ठ्यन्तं, वलि सप्तम्यन्तं, त्रिपदमिदं सूत्रम्‌ | सूत्रं स्वयं सम्पूर्णं— व्योः लोपः वलि |


वकारस्य अपि लोपो व्योर्वलि (६.१.६६) इत्यनेन लोपो भवति | किन्तु वस्तुतस्तु समग्रसंस्कृतभाषायां द्वयोः धात्वोः एव उदाहरणं भवति, तच्च यङ्लुकि एव | अन्यत्र सर्वत्र सार्वधातुकप्रक्रियायां विकरणप्रत्ययः मध्ये आयाति; आर्धधातुकप्रक्रियायाम्‌ इडागमः मध्ये आयाति | अतः वकारसम्बद्ध-हल्‌-सन्धेः अवसरः नास्ति |


यङ्लुकि आधिक्येन ये वकारान्तधातवः भवन्ति, तेषां सकारे परे राल्लोपः (६.४.२१) इत्यनेन वकारलोपो भवति | अपि च येषां वकारान्तधातूनां राल्लोपः (६.४.२१) इत्यनेन वकारलोपः न भवति स्म, नाम येषां धातूनां वकारात्‌ पूर्वं रेफः नास्ति, तेषां धातूनां यङ्लुक्‌-धातुः एव न भवति महाभाषस्य ज्ञापनात्‌ | यथा दिव्‌-धातुः; महाभाषस्य ज्ञापकत्वात्‌ तस्य यङ्लुगन्तधातुः न भवति | ष्ठिवु (ष्ठिव्‌)-धातुः अपि तथा |


येषां वकारान्तधातूनाम्‌ अन्तिमवकारात्‌ प्राक्‌ रेफः अस्ति, यथा धुर्व्‌, तुर्व्‌, थुर्व्‌, दुर्व्‌, मूर्व्‌, पूर्व्‌, खर्व्‌, गर्व्‌, चर्व्‌, पर्व्‌, भर्व्‌, मर्व्‌, शर्व्‌, षर्व्‌, एतादृशेभ्यः वकारान्तधातुभ्यः यङः लुक्‌ भवति | किन्तु एषाम्‌ अन्तिमवकारस्य लोपो भवति राल्लोपः (६.४.२१) इति सूत्रेण |


तोतुर्व्‌ + सि → राल्लोपः (६.४.२१) इत्यनेन झलादि-प्रत्यये परे वकारलोपः → तोतुर् + सि → पुगन्तलघूपधस्य च (७.३.८६) इत्यनेन उपधा-गुणः → तोतोर् + सि → आदेशप्रत्यययोः (८.३.५९) इत्यनेन इण्कोः प्रत्ययावयवस्य सकारस्य षत्वम्‌ → तोतोर्षि


राल्लोपः (६.४.२१) = रेफात्‌ परस्य छकारस्य वकारस्य च लोपो भवति अनुनासिकादि-प्रत्यये परे, क्वि परे, झलादि-प्रत्यये च परे | रात्‌ पञ्चम्यन्तं, लोपः प्रथमान्तं, द्विपदमिदं सूत्रम्‌ | च्छ्वोः शूडनुनासिके च (६.४.१९) इत्यस्मात्‌ च्छ्वोः इत्यस्य अनुवृत्तिः; अत्र धेयं यत्‌ अनुवृत्तौ 'तक्‌-सहितः छकारः' सत्यपि व्याख्याने तुगागमो नापेक्षितः अतः न स्वीकृतः | अनुनासिकस्य क्विझलोः क्ङिति (६.४.१५) इत्यस्मात्‌ अनुनासिकस्य, क्विझलोः इत्यनयोः अनुवृत्तिः | अङ्गस्य (६.४.१) इत्यस्य अधिकारः | अनुवृत्ति-सहितसूत्रम्‌— अङ्गस्य रात्‌ च्छ्वोः लोपः अनुनासिके क्विझलोः |


महाभाष्ये दत्तम्‌ अस्ति यत्‌ च्छ्वोः शूडनुनासिके च (६.४.१९) इत्यनेन ये ऊठ्‌-भाविनः वकारान्तधातवः सन्ति, तेषां यङ्लुक्‌ न भवति | ऊठ्‌-भावी धातुः इत्युक्ते तादृशधातुः यस्य च्छ्वोः शूडनुनासिके च (६.४.१९) इति सूत्रेण ऊठ्‌-आदेशः सम्भवति |


च्छ्वोः शूडनुनासिके च (६.४.१९) = तुक्‌-सहित-छकारस्य स्थाने शकारादेशः अपि च वकारस्य स्थाने ऊठ्‌-आदेशो भवति अनुनासिकादि-प्रत्यये परे, क्वि परे, झलादि-प्रत्यये च परे | च्छ्‌ च व्‌ च तयोरितरेतरद्वन्द्वः च्छ्वौ, तयोः च्छ्वोः | श्‌ च ऊठ्‌ च तयोः समाहारद्वन्द्वः शूड्‌ | झलां जशोऽन्ते (८.२.३९) इत्यनेन ठकारस्य स्थाने डकारः | च्छ्वोः षष्ठ्यन्तं, शूड्‌ प्रथमान्तम्‌, अनुनासिके सप्तम्यन्तं, च अव्ययपदम्‌, अनेकपदमिदं सूत्रम्‌ | अनुनासिकस्य क्विझलोः क्ङिति (६.४.१५) इत्यस्मात्‌ क्विझलोः इत्यस्य अनुवृत्तिः | अङ्गस्य (६.४.१) इत्यस्य अधिकारः | अनुवृत्ति-सहितसूत्रम्‌— च्छ्वोः अङ्गस्य शूड्‌ क्विझलोः अनुनासिके च |


तर्हि द्वयोः धात्वोः एव यङ्लुकि हल्‌-सन्धेः अवसरो भवति, तौ च कौ ? स्रिव्‌, मव्‌ इति द्वौ धातू ऊठ्‌-भाविनौ, किन्तु ज्वरत्वरस्रिव्यविमवामुपधायाश्च (६.४.२०) इति सूत्रेण न तु च्छ्वोः शूडनुनासिके च (६.४.१९) इति सूत्रेण | अस्मिन्‌ सूत्रे एतौ द्वौ वकारान्तधातू साक्षात्‌ उल्लेखितौ, अतः एतौ द्वावेव ययोः यङ्लुक्‌ रूपं भवति | (अस्मिन्‌ सूत्रे अव्‌-धातुः अपि पठितः, किन्तु स च धातुः अजादिः इति कारणतः यङ्‌-प्रत्ययः न विधीयते; तदर्थं तस्य यङ्लुक्‌ अपि न भवति |)


ज्वरत्वरस्रिव्यविमवामुपधायाश्च (६.४.२०) = ज्वर्, त्वर्, स्रिव्‌, अव्‌, मव्‌ इत्येषां धातूनाम्‌ उपधा च वकारः चेत्यनयोः मिलित्वा स्थाने ऊठ्-आदेशो भवति अनुनासिकादि-प्रत्यये परे, क्वि परे, झलादि-प्रत्यये च परे | ज्वरश्च त्वरश्च स्रिविश्च अविश्च मव्‌ च तेषामितरेतरद्वन्द्वः ज्वरत्वरस्रिव्यविमवः, तेषां ज्वरत्वरस्रिव्यविमवाम्‌ | ज्वरत्वरस्रिव्यविमवाम्‌ षष्ठ्यन्तम्‌, उपधायाः षष्ठ्यन्तं, च अव्ययं, त्रिपदमिदं सूत्रम्‌ | च्छ्वोः शूडनुनासिके च (६.४.१९) इत्यस्मात्‌ वः, ऊठ्‌, अनुनासिके इत्येषाम्‌ अनुवृत्तिः | अनुनासिकस्य क्विझलोः क्ङिति (६.४.१५) इत्यस्मात्‌ क्विझलोः इत्यस्य अनुवृत्तिः | अङ्गस्य (६.४.१) इत्यस्य अधिकारः | अनुवृत्ति-सहितसूत्रम्‌— ज्वरत्वरस्रिव्यविमवाम्‌ अङ्गस्य उपधायाः वः च ऊठ्‌ क्विझलोः अनुनासिके च |


द्वयोः वकारान्तधात्वोः हल्‌‍-सन्धौ वकारलोपः


मव्‌-धातोः यङ्लुकि मामव्‌ इति धातुरूपम्‌ | लटि‌ मामव्‌ रूपाणि इमानि—

मामव्‌ + ति → ज्वरत्वरस्रिव्यविमवामुपधायाश्च (६.४.२०) → मामोति

मामव्‌ + तः → ज्वरत्वरस्रिव्यविमवामुपधायाश्च (६.४.२०) → मामूतः

मामव्‌ + अति→ मामवति

मामव्‌ + सि → ज्वरत्वरस्रिव्यविमवामुपधायाश्च (६.४.२०) → मामोषि

मामव्‌ + थः → ज्वरत्वरस्रिव्यविमवामुपधायाश्च (६.४.२०) → मामूथः

मामव्‌ + थ → ज्वरत्वरस्रिव्यविमवामुपधायाश्च (६.४.२०) → मामूथ

मामव्‌ + मि → ज्वरत्वरस्रिव्यविमवामुपधायाश्च (६.४.२०) → मामोमि

मामव्‌ + मः → ज्वरत्वरस्रिव्यविमवामुपधायाश्च (६.४.२०) → मामूमः


किन्तु 'मामव्‌ + वः' इति स्थले 'वः' प्रत्ययस्य आदौ वकारः न झल्‌-वर्णः न वा अनुनासिकः | किन्तु वल्‌-प्रत्याहारे तु अस्ति, अतः अत्र लोपो व्योर्वलि (६.१.६६) इत्यस्य अवसरो भवति |


मामव्‌ + वः → माम + वः → मामावः


लङि च— अमामव्‌ + व → अमामाव


अतो दीर्घो यञि (७.३.१०१) = अदन्ताङ्गस्य दीर्घत्वं यञादि-सार्वधातुकप्रत्यये परे | यञ्‌ प्रत्याहारः = य व र ल ञ म ङ ण न झ भ | अतः षष्ठ्यन्तं, दीर्घः प्रथमान्तं, यञि सप्तम्यन्तं, त्रिपदमिदं सूत्रम्‌ | तुरुस्तुशम्यमः सार्वधातुके (७.३.९५) इत्यस्मात्‌ सार्वधातुके इत्यस्य अनुवृत्तिः | अङ्गस्य (६.४.१) इत्यस्य अधिकारः | येन विधिस्तदन्तस्य (१.१.७२) इत्यनेन तादृशम्‌ अङ्गं यस्य अन्ते ह्रस्व-अकारः अस्ति; अलोऽन्त्यस्य (१.१.५२) इत्यनेन अन्तिमवर्णस्य स्थाने आदेशः; यस्मिन्‌ विधिस्तदादावल्ग्रहणे (१.१.७२, वार्तिकम्‌ २९) इत्यनेन यञि सार्वधातुके इत्युक्तौ यञादि-सार्वधातुके | अनुवृत्ति-सहितसूत्रम्‌— अतः अङ्गस्य दीर्घः यञि सार्वधातुके |


अतः वकारान्तधातोः हल्सन्धेः उदाहरणं लभ्यते किन्तु केवलं वकारादिप्रत्यये परे | सकारादिप्रत्यये परे ऊठ्भावो भवति; स च ऊठ्भावः अङ्गकार्यं न तु सन्धिकार्यम्‌ |


एवमेव स्रिव्‌ → सेस्रिव्‌ इति यङ्लुगन्तधातुः | लटि रूपाणि कल्पनीयानि | पित्सु प्रत्ययेषु ज्वरत्वरस्रिव्यविमवामुपधायाश्च (६.४.२०) इत्यस्य नित्यत्वात्‌ सर्वप्रथमं भवति, न तु पुगन्तलघूपधस्य च (७.३.८६) |


H. लकारः


लकारस्य विकारो नास्ति; आदेशप्रत्यययोः (८.३.५९) इत्यनेन इण्कोः प्रत्ययावयवस्य सकारस्य षत्वम्‌ |


गल्‌ → जागल्‌ + सि → आदेशप्रत्यययोः (८.३.५९) → जागल्‌षि

तल्‌ → तातल्‌ + सि → तातल्‌षि

दल्‌ → दादल्‌ + सि → दादल्‌षि


I. रेफः


रेफस्य विकारो नास्ति; आदेशप्रत्यययोः (८.३.५९) इत्यनेन इण्कोः प्रत्ययावयवस्य सकारस्य षत्वम्‌ |


(जागृ + सि →) जागर् + सि → आदेशप्रत्यययोः (८.३.५९) → जागर्षि


J. सकारः


धातोरन्तिमो वर्णः सकारश्चेत्‌, सार्वधातुकप्रत्यये परे केवलं वर्णमेलनम्‌‌; आर्धधातुकप्रत्यये परे धात्वङ्गसकारस्य तकारादेशो भवति, सः स्यार्धधातुके (७.४.४९) इति सूत्रेण |


धातुः सकारान्तः चेत्‌, तर्हि प्रत्ययः सार्वधातुको वा आर्धधातुको वा इति विचार्यताम्‌ |


प्रत्ययः सार्वधातुकः चेत्‌, केवलं वर्णमेलनम्‌—

आस्‌ + से → आस्से


प्रत्ययः आर्धधातुकः चेत्‌, धात्वङ्गसकारस्य तकारादेशो भवति—


वस्‌ + स्यति → सः स्यार्धधातुके (७.४.४९) इत्यनेन सकारादि-आर्धधातुकप्रत्यये परे सकारस्य स्थाने तकारादेशः → वत्‌ + स्यति → वत्स्यति

घस्‌ + स्यति → सः स्यार्धधातुके (७.४.४९) → घत्‌ + स्यति → घत्स्यति


सः स्यार्धधातुके (७.४.४९) = सकारस्य स्थाने तकारादेशो भवति सकारादि-आर्धधातुकप्रत्यये परे | सः षष्ठ्यन्तं, सि सप्तम्यन्तम्‌, आर्धधातुके सप्तम्यन्तं, त्रिपदमिदं सूत्रम्‌ | अच उपसर्गात्तः (७.४.४७) इत्यस्मात्‌ तः इत्यस्य अनुवृत्तिः | अङ्गस्य (६.४.१) इत्यस्य अधिकारः | अनुवृत्ति-सहितसूत्रम्‌— सः अङ्गस्य तः सि आर्धधातुके |


K. हकारः


हकारान्तधातुः + सकारादिप्रत्ययः| धातोरन्तिमो वर्णः हकारश्चेत्‌, नह्‌-धातुम्‌ अतिरिच्य सर्वत्र हकारस्य ककारः | हो ढः (८.२.३१) + षढोः कः सि (८.२.४१) अथवा दादेर्धातोर्घः (८.२.३२) + खरि च (८.४.५५) |


१. सामान्यनियमः

  • सकारादि-प्रत्यये परे, धात्वन्तस्य हकारस्य स्थाने ढकारादेशो भवति, हो ढः (८.२.३१) इत्यनेन सूत्रेण |
  • तदा ढकारस्य स्थाने ककारादेशो भवति षढोः कः सि (८.२.४१) इत्यनेन सूत्रेण |
  • अन्ते प्रत्ययावयवस्य सकारस्य स्थाने षकारादेशो भवति, आदेशप्रत्यययोः (८.३.५९) इत्यनेन सूत्रेण |


यथा— वह्‌ + स्यति → हो ढः (८.२.३१) → वढ्‌ + स्यति → षढोः कः सि (८.२.४१) → वक्‌ + स्यति → आदेशप्रत्यययोः (८.३.५९) → वक्‌ + ष्यति → वक्ष्यति


हो ढः (८.२.३१) = हकारस्य स्थाने ढकारादेशो भवति झलि पदान्ते च | हः षष्ठ्यन्तं, ढः प्रथमान्तं, द्विपदमिदं सूत्रम्‌ | झलो झलि (८.२.२६) इत्यस्मात्‌ झलि इत्यस्य अनुवृत्तिः | स्कोः संयोगाद्योरन्ते च (८.२.२९) इत्यस्मात्‌ अन्ते, इत्यनयोः अनुवृत्तिः | पदस्य (८.१.१६) इत्यस्य अधिकारः | अनुवृत्ति-सहितसूत्रम्‌— हः ढः झलि पदस्य अन्ते च |


षढोः कः सि (८.२.४१) = षकारस्य ढकारस्य च ककारादेशो भवति सकारे परे | ष्टुना ष्टुः (८.४.४१) इत्यस्य अपवादः | षश्च ढश्च तयोः इतरेतरद्वन्द्वः षढौ, तयोः षढोः | षढोः षष्ठ्यन्तं, कः प्रथमान्तं, सि सप्तम्यन्तं, त्रिपदमिदं सूत्रम्‌ | सूत्रं स्वयं सम्पूर्णं— षढोः कः सि |


२. बकारादीनां गकारादीनां च धातूनां भष्भावः भवति; तत्रापि हकारस्य ककारः हो ढः (८.२.३१) + षढोः कः सि (८.२.४१) इति सूत्राभ्याम्‌ | यथा बर्ह्‌, बृंह्‌, गृह्, गाह्‌, गुह्‌ इति धातवः |


  • सकारादि-प्रत्यये परे, बकारादि-, गकारादि-हकारान्तानां धातूनां हकारस्य स्थाने ढकारादेशो भवति, हो ढः (८.२.३१) इत्यनेन सूत्रेण |
  • अधुना एकाच्‌-बशादि-झषन्तधात्वंशः जातः (३४ इति) | अतः एकाचो बशो भष्‌ झषन्तस्य स्ध्वोः (८.२.३७) इत्यनेन (३४ – ४४) आदौ तृतीयसदस्य स्थाने चतुर्थसदस्यादेशो भवति |
  • तदा षढोः कः सि (८.२.४१) इत्यनेन ढ्‌-स्थाने ककारादेशः |
  • कवर्गीयवर्णः पूर्वम्‌ अस्ति अतः आदेशप्रत्यययोः (८.३.५९) इत्यनेन स्-स्थाने षत्वम्‌ |



यथा— बाबृंह्‌ + सि → हो ढः (८.२.३१) → बाबृंढ्‌ + सि → एकाचो बशो भष्‌ झषन्तस्य स्ध्वोः (८.२.३७) → बाभृंढ्‌ + सि → षढोः कः सि (८.२.४१) → बाभृंक्‌ + सि → आदेशप्रत्यययोः (८.३.५९) → बाभृंक्‌ + षि → बाभृंक्षि → अनुस्वारस्य ययि परसवर्णः (८.४.५८) → बाभृङ्क्षि



गर्ह्‌ + स्यते → हो ढः (८.२.३१) → गर्ढ्‌ + स्यते → एकाचो बशो भष्‌ झषन्तस्य स्ध्वोः (८.२.३७) → घर्ढ्‌ + स्यते → षढोः कः सि (८.२.४१) → घर्क्‌ + स्यते → आदेशप्रत्यययोः (८.३.५९) → घर्क्‌ + ष्यते → घर्क्ष्यते


एवमेव—

गाह्‌ + स्यते → घाक्‌ + ष्यते → घाक्ष्यते

गोह्‌ + स्यते → घोक्‌ + ष्यते → घोक्ष्यते


हो ढः (८.२.३१) = हकारस्य स्थाने ढकारादेशो भवति झलि पदान्ते च | हः षष्ठ्यन्तं, ढः प्रथमान्तं, द्विपदमिदं सूत्रम्‌ | झलो झलि (८.२.२६) इत्यस्मात्‌ झलि इत्यस्य अनुवृत्तिः | स्कोः संयोगाद्योरन्ते च (८.२.२९) इत्यस्मात्‌ अन्ते, इत्यनयोः अनुवृत्तिः | पदस्य (८.१.१६) इत्यस्य अधिकारः | अनुवृत्ति-सहितसूत्रम्‌— हः ढः झलि पदस्य अन्ते च |


एकाचो बशो भष्‌ झषन्तस्य स्ध्वोः (८.२.३७) = धातोरवयवो यो झषन्त एकाच्‌, तस्य बशः भषादेशो भवति सकारे परे, ध्व-शब्दे परे, पदान्ते च | अनुवृत्तिसहितसूत्रे 'एकाचः झषन्तस्य' इत्यनयोरेव विशेषणविशेष्यभावः; धातोः तादृशांशः इति तात्पर्यम्‌ | अनेन धातोः एकाच्‌ वा तदधिकाः वा अर्हाः | अनुवृत्ति-सहितसूत्रं— धातोः एकाचः झषन्तस्य बशः भष्‌ स्ध्वोः पदस्य अन्ते च |


३. दकारादि-हकारान्तेषु हकारस्य ककारः अस्त्येव, किन्तु मार्गः दादेर्धातोर्घः + खरि च (८.४.५५) (यथा दह्‌, दिह्‌, दुह्‌, द्रुह्‌,) | अत्र भष्भावः अपि भवति |


  • सकारादि-प्रत्यये परे, दकारादिधातोः हकारस्य स्थाने घकारादेशो भवति दादेर्धातोर्घः इत्यनेन सूत्रेण |
  • तदा आदौ स्थितस्य दकारस्य धकारादेशो भवति एकाचो बशो भष्‌ झषन्तस्य स्ध्वोः इत्यनेन |
  • खर् परे अस्ति अतः खरि च (८.४.५५) इत्यनेन घकारस्य स्थाने ककारादेशो भवति |
  • कवर्गीयवर्णः पूर्वम्‌ अस्ति अतः आदेशप्रत्यययोः (८.३.५९) इत्यनेन स्-स्थाने षत्वम्‌ |


यथा— दुह्‌‍ + स्यते → पुगन्तलघूपधस्य च (७.३.८६) → दोह्‌‍ + स्यते → दादेर्धातोर्घः (८.२.३२) → दोघ्‌ + स्यते → एकाचो बशो भष्‌ झषन्तस्य स्ध्वोः (८.२.३७) → धोघ्‌ + स्यते → आदेशप्रत्यययोः (८.३.५९) → धोघ्‌ + ष्यते → खरि च (८.४.५५) → धोक्‌ + ष्यते → धोक्ष्यते


दादेर्धातोर्घः (८.२.३२) = दकारादिधातोः हकारस्य स्थाने घकारादेशो भवति झलि पदान्ते च | दः आदौ यस्य स दादिः, तस्य दादेः, बहुव्रीहीः | दादेः षष्ठ्यन्तं, धातोः षष्ठ्यन्तं, घः प्रथमान्तं, त्रिपदमिदं सूत्रम्‌ | हो ढः (८.२.३१) इत्यस्मात्‌ हः इत्यस्य अनुवृत्तिः | झलो झलि (८.२.२६) इत्यस्मात्‌ झलि इत्यस्य अनुवृत्तिः | पदस्य (८.१.१६) इत्यस्य अधिकारः | अनुवृत्ति-सहितसूत्रम्‌— दादेः धातोः हः घः झलि पदस्य अन्ते च |


एवमेव—

दुह्‌ + स्यति → गुणः → दोह्‌ + स्यति → दोघ्‌ + स्यति → धोघ्‌ + ष्यति → धोक्‌ + ष्यति → धोक्ष्यति

दिह्‌ + स्यति → देह्‌ + स्यति → → धेक्‌ + ष्यति → धेक्ष्यति

द्रुह्‌ + स्यति → द्रोह्‌ + स्यति → → द्रोक्‌ + ष्यति → ध्रोक्ष्यति

दह्‌ + स्यति → → धक्‌ + ष्यति → धक्ष्यति



वा द्रुहमुहष्णुहष्णिहाम् (८.२.३३) = द्रुह्‌, मुह्‌, ष्णुह्‌, ष्णिह्‌ एषां चतुर्णां धातूनां हकारस्य स्थाने विकल्पेन घकारादेशो भवति झलि पदान्ते च; घ्‌-अभावे हो ढः (८.२.३१) इत्यनेन ढकारादेशो भवति | द्रुहश्च मुहश्च ष्णुहश्च ष्णिहश्च तेषाम इतरेतर्तद्वान्द्वः, द्रुहमुहष्णुहष्णिहः, तेषां द्रुहमुहष्णुहष्णिहाम् | वा अव्ययपदं, द्रुहमुहष्णुहष्णिहां षष्ठ्यन्तं, द्विपदमिदं सूत्रम्‌ | हो ढः (८.२.३१) इत्यस्मात्‌ हः, दादेर्धातोर्घः (८.२.३२) इत्यस्मात्‌ घः, झलो झलि (८.२.२६) इत्यस्मात्‌ झलि, स्कोः संयोगाद्योरन्ते च (८.२.२९) इत्यस्मात्‌ अन्ते, इत्येषाम्‌ अनुवृत्तिः | पदस्य (८.१.१६) इत्यस्य अधिकारः | अनुवृत्ति-सहितसूत्रं— द्रुह-मुह-ष्णुह-ष्णिहाम् वा हः घः झलि पदस्य अन्ते च |



४. नह्‌-धातुः | अत्र एकैव धातुः यत्र हकारस्य गतिः भिन्ना— अत्र हकारस्य तकारो भवति |


सकारादि-प्रत्यये परे, अपवादभूतस्य नह्‌-धातोः हकारस्य स्थाने धकारादेशो भवति नहो धः इत्यनेन सूत्रेण | तदा खरि च इत्यनेन चर्त्वं कृत्वा धस्थाने तकारादेशो भवति | सकारस्य कोऽपि विकारो न भवति |


नह्‌ + स्यति → नहो धः (८.२.३४) → नध्‌ + स्यति → खरि च (८.४.५५) → नत्‌ + स्यति → नत्स्यति


नहो धः (८.२.३४) = नह्‌-धातोः हकारस्य धकारादेशो भवति झलि पदान्ते च | नहः षष्ठ्यन्तं, धः प्रथमान्तं, द्विपदमिदं सूत्रम्‌ | हो ढः (८.२.३१) इत्यस्मात्‌ हः इत्यस्य अनुवृत्तिः | दादेर्धातोर्घः (८.२.३२) इत्यस्मात्‌ धातोः इत्यस्य अनुवृत्तिः | झलो झलि (८.२.२६) इत्यस्मात्‌ झलि इत्यस्य अनुवृत्तिः | स्कोः संयोगाद्योरन्ते च (८.२.२९) इत्यस्मात्‌ अन्ते, इत्यनयोः अनुवृत्तिः | पदस्य (८.१.१६) इत्यस्य अधिकारः | अनुवृत्ति-सहितसूत्रम्‌— नहः धातोः हः धः झलि पदस्य अन्ते च |


अभ्यासः


अदादिगणस्य लट्‌-लकारस्य मध्यमपुरुषैकवचने, परस्मैपदे 'सि', आत्मनेपदे 'से' इति यथासङ्गं योजयित्वा सूत्रसहितक्रमं श्रावयित्वा रूपाणि पूरयतु —


- वस्‌ + से →

- द्विष्‌ + सि →

- हन्‌ + सि →

- णिसि + से →

- विद्‌ + सि →

- संविद्‌ + से →

- वच्‌ + सि →

- लिह्‌ + सि →

- मृज्‌ + सि →

- संस्त्‌ + सि →

- पृच्‌ + से →

- दुह्‌ + सि →

- निंज्‌ + से →

- अद्‌ + सि →

- वश्‌ + सि →

- चक्ष्‌ + से →

- आस्‌ + से →

- कसि + से →

- शास्‌ + सि →

- दिह्‌ + सि →


अन्यच्च लृटि कथं भवति ?


वच्‌ + स्यति →

शास्‌ + स्यति →

संस्त्‌ + स्यति →


यङ्‌लुकि—

मघि → मामङ्घ्‌ + सि →

प्रच्छ्‌ → पाप्रच्छ्‌ + सि →

दुह्‌ → दोदुह्‌ + सि →

व्रश्च्‌ → वाव्रश्च्‌ + सि →

स्यन्दू → स्यन्द्‌ → सास्यन्द्‌ + सि →

सृज्‌ → सरीसृज्‌ → सृजिदृशेर्झल्यमकिति (६.१.५८) इत्यनेन अम्‌-आगमः → सरीसृ-अ-ज्‌ → इको यणचि इत्यनेन यण्‌ → सरीस्रज्‌ + सि →

मुर्छा → मुर्छ्‌-धातुः, यङ्लुकि मोमुर्छ्‌-धातुः + सि →

बुध्‌ → बोबुध्‌ + सि →

लाछि → लाछ्‌ → लान्छ्‌ → लालान्छ्‌ + सि →

भ्रस्ज्‌ → बाभ्रस्ज्‌ + सि →

दध्‌ → दादध्‌ + सि →

भ्रम्‌ → बम्भ्रम्‌ + सि →

ध्रस्‌ → दाध्रस्‌ + सि →

सृप्‌ → सरीसृप्‌ + सि →

जसि → जन्स्‌ → जाजन्स्‌ + सि →

हुर्छा → हुर्छ्‌ → होहुर्छ्‌ + सि →

वृत्‌ → वरीवृत्‌ + सि →

तुर्वी → तोतुर्व्‌ + सि →

वृध्‌ → वरीवृध्‌ + सि →

दुर्वी → दोदुर्व्‌ + सि →

वृश्‌ → वरीवृश्‌ + सि →

मुर्वी → मोमुर्व्‌ + सि →

कृश्‌ → चरीकृश्‌ + सि →

कृष्‌ → चरीकृष्‌ + सि →


परिशिष्टम्‌


कश्चन प्रश्नः उदेति— च्छ्वोः शूडनुनासिके च (६.४.१९) इति सूत्रेण तुक्‌-सहित-छकारस्य स्थाने शकारादेशः | एवम्‌ अस्ति चेत्‌, 'पाप्रच्छ्‌ + सि' इति स्थितौ किमर्थं न च्छ्वोः शूडनुनासिके च (६.४.१९) इत्यनेन तुक्‌-सहित-छकारस्य शत्वम्‌ ? दत्तम्‌ आसीत्—


छकारान्तधातूनां कृते सामान्यम्‌ = व्रश्चभ्रस्जसृजमृजयजराजभ्राजच्छशां षः (८.२.३६) इत्यनेन षत्वम्‌ |



पाप्रच्छ्‌ + सि → व्रश्चभ्रस्जसृजमृजयजराजभ्राजच्छशां षः (८.२.३६) → पाप्रष्‌ + सि → षढोः कः सि (८.२.४१) → पाप्रक्‌ + सि → पाप्रक्‌ + षि → पाप्रक्षि


किन्तु वस्तुतस्तु अत्र च्छ्वोः शूडनुनासिके च (६.४.१९) इत्यस्य प्रसक्तिरस्ति किल | प्रसक्तिरस्ति चेत्‌, व्रश्चभ्रस्जसृजमृजयजराजभ्राजच्छशां षः (८.२.३६) इति सूत्रम्‌ असिद्धम्‌ | तर्हि अत्र का गतिः ?


यथा जानीमः, पाणिनिना न उच्यते कस्मिन्‌ कस्मिन्‌ सूत्रे कस्य कस्य अनुवृत्तिः | वैयाकरणाः विचिन्त्य अस्मान्‌ सूचयन्ति | कुत्रचित्‌ किन्तु विभिन्नपक्षाः भवन्ति | यथा अत्र | काशिकाकारः लिखति यत्‌ च्छ्वोः शूडनुनासिके च (६.४.१९), ज्वरत्वरस्रिव्यविमवामुपधायाश्च (६.४.२०) इत्यनयोः द्वयोः सूत्रयोः अपि क्ङिति इत्यस्य अनुवृत्तिः | नाम अनयोः सूत्रयोः कार्यं भवति क्ङिति झलादि-प्रत्यये परे | सिद्धान्तकौमुद्यां दीयते यत्‌ च्छ्वोः शूडनुनासिके च (६.४.१९) इति सूत्रे क्ङिति इत्यस्य अनुवृत्तिः अस्ति, किन्तु ज्वरत्वरस्रिव्यविमवामुपधायाश्च (६.४.२०) इति सूत्रे नास्ति | महाभाष्ये उक्तमस्ति यत्‌ 'ज्वरत्वरस्रिव्यविमवामुपधायाश्च' (६.४.२०) इति सूत्रे नास्ति अनुवृत्तिः; च्छ्वोः शूडनुनासिके च (६.४.१९) इति स्थले भाष्यकारः पक्षद्वयं प्रतिपादयति— एकस्मिन्‌ पक्षे क्ङिति अस्ति, अपरस्मिन्‌ पक्षे नास्ति |



अस्य सर्वस्य महत्त्वं किम्‌ ? ज्वरत्वरस्रिव्यविमवामुपधायाश्च (६.४.२०) इति सूत्रे क्ङिति इत्यस्य अनुवृत्तिः भवति चेत्‌, मामोति इति रूपं न सेत्स्यति | तिप्‌ इत्यस्य पित्त्वात्‌ अयं ङिद्वत्‌ न, तदर्थम्‌ ऊठादेशो न (न ज्वरत्वरस्रिव्यविमवामुपधायाश्च (६.४.२०) इत्यनेन न वा च्छ्वोः शूडनुनासिके च (६.४.१९) इत्यनेन) | मामव्‌ + ति → लोपो व्योर्वलि (६.१.६६) → मामति इति अनिष्टं रूपम्‌ | अतः माता जी वदति यत्‌ अत्र काशिकाकारस्य मतं मतमेव नास्ति अपि तु साक्षात्‌ दोषः | तदर्थं ज्वरत्वरस्रिव्यविमवामुपधायाश्च (६.४.२०) इति सूत्रे काशिकाकारस्य पक्षं त्यजामः | अस्मिन्‌ सूत्रे क्ङिति इत्यस्य अनुवृत्तिः न भवेत्‌, नास्येव |


तर्हि च्छ्वोः शूडनुनासिके च (६.४.१९) इति सूत्रे का गतिः ? वस्तुतः न केवलं सिद्धान्तकौमुद्याम्‌ अपि तु बहुषु ग्रन्थेषु दत्तम्‌ अस्ति यत्‌ क्ङिति इत्यस्य अनुवृत्तिः अत्र वर्तते | तथा अस्ति चेत्‌ कः परिणामः ? तुक्‌-सहित-छकारस्य स्थाने शकारादेशः क्ङिति झलादि-प्रत्यये परे | एवं चेत्‌ 'पाप्रच्छ्‌ + सि' इति स्थले अस्य सूत्रस्य प्रसक्तिर्नास्ति | एतावता अस्माकं पाठेषु एतादृशस्य पक्षस्य आश्रयं स्वीकृत्य प्रतिपादनं भवति स्म | यथोक्तं महाभाष्ये पक्षद्वयस्य समर्थनम्‌ |


महाभाष्यस्य प्रमाणेन पक्षद्वयेनाऽपि कार्यं सिध्यति— एकः अनुवृत्तिपक्षः, एकः निवृत्तिपक्षः | च्छ्वोः शूडनुनासिके च (६.४.१९) इति सूत्रे क्ङिति इत्यस्य अनुवृत्तिः स्वीक्रियते चेत्‌ कित्‌ङ्त्‌-प्रत्यये परे च्छ्वोः शूडनुनासिके च (६.४.१९) इत्यनेन छकारस्य स्थाने शकारादेशः | तदा व्रश्चभ्रस्जसृजमृजयजराजभ्राजच्छशां षः (८.२.३६) इति सूत्रेण शकारस्य षत्वम्‌ | प्रत्ययः कित्‌ङ्त्‌ नास्ति चेत्‌, व्रश्चभ्रस्जसृजमृजयजराजभ्राजच्छशां षः (८.२.३६) इति सूत्रेण छकारस्य षत्वम्‌ | अपि च अस्मिन्‌ पक्षे तुक्‌-सहित-छकारः मन्तव्यः भवति द्वयोः अपि सूत्रयोः |


यथा‌ 'पाप्रच्छ्‌ + सि' इति स्थले सि-प्रत्ययः कित्‌ङ्त्‌ न अतः व्रश्चभ्रस्जसृजमृजयजराजभ्राजच्छशां षः (८.२.३६) इति सूत्रेण छकारस्य षत्वम्‌ | किन्तु अत्र नूतनविचारः अयं यत्‌ 'निमित्तापाये नैमित्तिकस्यापि अपायः' इति न स्वीक्रियते | भाष्यकारैः उच्यते यत्‌ इदं न परिभाषा न वा न्यायः, किमपि नास्ति | अस्य उपयोगो न कुत्रापि भवेत्‌ | अनेन कारणेन व्रश्चभ्रस्जसृजमृजयजराजभ्राजच्छशां षः (८.२.३६) इति सूत्रे तुक्‌-सहित-छकारः न मन्यते चेत्‌, छकारस्य स्थाने षकारः तु भवति, किन्तु तुक्‌-आगमः अपि स्थास्यति | तदर्थम्‌ अस्मिन्‌ सूत्रे तुक्‌-सहित-छकारः मन्तव्यः | अतः ये च्छ्वोः शूडनुनासिके च (६.४.१९) इति सूत्रे क्ङिति इत्यस्य अनुवृत्तिः स्वीकुर्वन्ति, तैः व्रश्चभ्रस्जसृजमृजयजराजभ्राजच्छशां षः (८.२.३६) इति सूत्रे छकारः मन्तव्यः, अपि च स च छकारः तुक्‌-सहितः मन्तव्यः | नो चेत्‌ लटि पाप्रष्टि, पाप्रक्षि इति रूपद्वयं न सेत्स्यति | अस्मिन्‌ पक्षे 'पाप्रच्छ्‌ + तः' इति स्थले पाप्रष्टः भवति च्छ्वोः शूडनुनासिके च (६.४.१९) इति सूत्रेण |


तदा निवृत्ति-पक्षे च्छ्वोः शूडनुनासिके च (६.४.१९) इत्यस्मिन्‌ क्ङिति इत्यस्य अनुवृत्तिः नास्ति | अस्मिन्‌ पक्षे व्रश्चभ्रस्जसृजमृजयजराजभ्राजच्छशां षः (८.२.३६) इति सूत्रे छकारस्य आवश्यकता नास्ति | प्रछ + तृच्‌ → कार्यद्वयं प्राप्तं— तुक्‌-आगमः, छकारस्य शकारः च → तुक्‌-आगमः अन्तरङ्गं निमित्तस्य अल्पत्वात्‌, शत्वस्यापेक्षया | अत्र तुक्‌-आगमः प्रथमं भवति, एतदर्थं च्छ्वोः शूडनुनासिके च (६.४.१९) इति सूत्रे तुक्‌-सहित-छकारः वक्तव्यः | अत्र च एका परिभाषा वर्तते सन्नियोगशिष्टानां सह वा प्रवृत्तिः सह वा निवृत्तिः [सन्नियोगशिष्टानामन्यतरापाय उभयोरप्यपायः ८७] | अनेन सन्निपातलक्षणं भवति | चकारः छकारः च मिलित्वा आगच्छतः, मिलित्वा गच्छतः च |


अस्मिन्‌ निवृत्तिपक्षे 'पाप्रच्छ्‌ + सि' → च्छ्वोः शूडनुनासिके च (६.४.१९) इति सूत्रेण पाप्रश्‌ + सि → व्रश्चभ्रस्जसृजमृजयजराजभ्राजच्छशां षः (८.२.३६) → पाप्रष्‌ + सि → पाप्रक्षि


अत्र छकारान्तधातूनां प्रसङ्गे इतोऽपि किञ्चित्‌ | छकारात्‌ प्राक्‌ के के वर्णाः सम्भवन्ति ? छकारात्‌ प्राक्‌ ह्रस्व-अच्‌-वर्णः अस्ति चेत्‌, तुगागमो भवति | यथा इष्‌-धातुः | इषुगमियमां छः (७.३.७७) इत्यनेन इष्‌-धातोः छकारादेशः शिति परे | इष्‌ + श → इषुगमियमां छः, अलोन्त्यस्य → इछ्‌ + अ → छे च (६.१.७३), आद्यन्तौ टकितौ (१.१.४६) इत्याभ्यां छकारे परे ह्रस्वस्वरस्य (इकारस्य अनन्तरं) तुक्‌-आगमः → इत्‌छ्‌ + अ → स्तोः श्चुना श्चुः (८.४.४०) → इच्छ्‌ + अ → इच्छ इति अङ्गम्‌ |


छकारात्‌ प्राक्‌ यदि ह्रस्ववर्णो नास्ति, कश्चन हल्‌-वर्णः एव भवति | नाम छकारः तुक्‌-सहितः नास्ति चेत्‌, संयोगो भवति एव | (आछि, वाछि, लाछि, एते इदित्‌-धातवः अतः नुमागमः; नुमागमात्‌ संयोगग्रस्तछकारः | उच्छि इति धातौ तुगागमः |) एवं च अन्ते संयोगः अस्ति, तस्यां च दशायां संयोगान्तस्य लोपः (८.२.२३) इत्यनेन पदान्ते छकार-लोपो भवति | वाञ्छ्‌-धातुः + क्विप्‌-प्रत्ययः → वाञ्छ्‌ इति प्रातिपदिकम्‌ | प्रथमपुरुषैकवचने वाञ्छ्‌ + सु → हल्ङ्याब्भ्यो दीर्घात्‌ सुतिस्यपृक्तं हल्‌ (६.१.६७) इत्यनेन हलन्तात्‌ सु-ति-सि इत्येषाम्‌ अपृक्तसंज्ञकस्य हलः लोपः → संयोगान्तस्य लोपः (८.२.२३) इत्यनेन पदान्ते छकार-लोपः → वान्‌ | एवमेव लङ्‌-लकारे अवावाञ्छ्‌ + त् → हल्ङ्याब्भ्यो दीर्घात्‌ सुतिस्यपृक्तं हल्‌ (६.१.६७) → अवावाञ्छ्‌ → संयोगान्तस्य लोपः (८.२.२३) → अवावान्‌ |


अनेन दृश्यते यत्‌ छकारात्‌ पूर्वं ह्रस्व-स्वरः नास्ति चेत्‌, पदान्ते संयोगः भवति, तत्र च सदा संयोगान्तस्य लोपः (८.२.२३) इत्यनेन छकार-लोपः | अनेन कारणेन व्रश्चभ्रस्जसृजमृजयजराजभ्राजच्छशां षः (८.२.३६) इति सूत्रं तत्र न प्राप्नोति एव; अस्य कार्यावसरो नास्ति | लङि अवावान्‌; सुबन्ते वान्‌, वाञ्छौ, वाञ्छः | पदसंज्ञायां संयोगान्तलोपः; अपदान्ते अजादिप्रत्यये परे केवलं संयोजनं— वाञ्छौ, वाञ्छः |


वावाञ्छ्‌ + ति → अत्र यतोहि व्रश्चभ्रस्जसृजमृजयजराजभ्राजच्छशां षः (८.२.३६) इति तुक्‌-सहित-छकारः आवश्यकः, अस्य सूत्रस्य प्रसक्तिर्नास्ति → वावाञ्छ्‌ + ति → चोः कुः (८.२.३०) इत्यनेन कुत्वम्‌ → वावाङ्ख्‌ + ति → खरि च (८.४.५५) → वावाङ्क्‌ + ति → वावाङ्क्ति | एवमेव वावाञ्छ्‌ + सि | अवावाञ्छ्‌ + ताम्‌ |


व्रश्चभ्रस्जसृजमृजयजराजभ्राजच्छशां षः (८.२.३६) इति सूत्रे तुक्‌-रहित-छकारः यदि न मन्यामहे, तर्हि 'पाप्रच्छ्‌ + सि' इति स्थले छकारस्य अस्थाने षकारः तु भवति, किन्तु तुक्‌-आगमः स्थास्यति | अस्य निवारणार्थं तुक्‌-सहित-छकारः अपेक्षितः सर्वत्र | तदर्थञ्च 'वावाञ्छ्‌ + ति' इति स्थले तुक्‌-सहित-छकारस्य अभावे अस्य सूत्रस्य प्रसक्तिर्नास्ति |


आहत्य च्छ्वोः शूडनुनासिके च (६.४.१९) इति सूत्रे क्ङिति इत्यस्य अनुवृत्तिः भवति चेत्‌, व्रश्चभ्रस्जसृजमृजयजराजभ्राजच्छशां षः (८.२.३६) इति सूत्रे छकारो भवति, स च तुक्‌-सहितः | च्छ्वोः शूडनुनासिके च (६.४.१९) इति सूत्रे अपि छकारः अपि तुक्-सहितः एव | च्छ्वोः शूडनुनासिके च (६.४.१९) इति सूत्रे क्ङिति इत्यस्य अनुवृत्तिः नास्ति चेत्‌, व्रश्चभ्रस्जसृजमृजयजराजभ्राजच्छशां षः (८.२.३६) इति सूत्रे छकारो न भवति एव | नो चेत्‌, यथा पाप्रच्छ्‌ + तः इति स्थले तुक्‌-आगमः स्थास्यति, इष्टरूपं न सेत्स्यति |


इति हलन्तेभ्यो धातुभ्यः सकारादि-प्रत्ययस्य योजनविधिः |


Swarup – Sept 2013 (Updated June 2018)



९ - धातुपाठे हल् -सन्धिः २.pdf