07 - यङ्लुगन्तधातवः

From Samskrita Vyakaranam
7---ArdhadhAtukaprakaraNam/07---yanglugantadhAtavaH
Jump to navigation Jump to search
ध्वनिमुद्रणानि
2021 वर्गः
१) Yangluk---paricayaH_+_kebhyaH-dhAtubhyaH-yang-bhavati_+_yang-vidhAnam_+_yangluk-vidhAnam_2021-03-23
२) Yangluk---yango'ci-ca---dalasArthakyam_+_na-dhAtulopa-ArdhadhAtuke_2021-03-30
३)  Yangluk---guNA-niShedhaH-kutra-ac-aniiyar-yangi-Nvul_+_vede-loke_+_kebhyaH-dhAtubhyaH-yang-luk-na_2021-04-06
४) Yangluk---kebhyaH-dhAtubhyaH-yang-luk-na_+_yangluki-dvitva-kAryam_2021-04-13
५) Yangluk---yangluki-dvitva-kAryam_+_hve-dhAtuH_+_abhyAsakArya-paricayaH_2021-04-20
६) Yangluk---sAmAnya-abhyAsakAryANi_2021-04-27
७) Yangluk---abhyAsakArya-cintanam_+_AkArAnta-dhAtavaH_+_ikArAnta-dhAtavaH_2021-05-04  
८) Yangluk---u-U-Ru-Ru-kArAnta-dhAtavaH_+_adupadhadhAtavaH-sAmAnya-visheShAH-ca_2021-05-11
९) Yangluk---anunAsikAnta-adupadhadhAtavaH_+_idupadha-udupadha-Rudupadha-dhAtavaH_2021-05-18
2018 वर्गः
१) yanglugantadhAtavaH---paricayaH_+_kebhyaH-dhAtubhyaH-yang-bhavati_2018-05-20
२) yanglugantadhAtavaH---yang-vidhAnam_+_yang-luk-vidhAnam_+_yangluki-dvitvam_2018-05-27
३) yanglugantadhAtavaH---'यङोऽचि च'-iti-sUtrasya-dalasArthakyam_2018-06-03
४) yanglugantadhAtavaH---'यङोऽचि च'-iti-sUtre-kimartham-ac-pratyayaH-uktaH_2018-06-10
५) yanglugantadhAtavaH---'यङोऽचि च'-iti-sUtre-ac-vihAya-anye-pratyayaH_+_kutra-yangluk-na-bhavati_+_dvitvam_2018-06-17
६) yanglugantadhAtavaH---dvitvam_+_sAmAnyAbhyAsa-kAryam_2018-06-24
७) yanglugantadhAtavaH---dvitvam_+_ह्वेञ्‌-धातोः-सम्प्रसारणे-सति-द्वितम्‌_sAmAnyAbhyAsa-kAryam_2018-07-01
८) ajanta-dhAtUnAM-yanglugantadhAtavaH_2018-07-08
९) adupadha-dhAtUnAM-yanglugantadhAtavaH_2018-07-15
१०) idupadha-udupadha-Rudupadha-dhAtUnAM-yanglugantadhAtavaH_2018-07-22
११) vibhinna-prashnAnAM-samAdhAnam_+_aniditAM-yanglugantadhAtavaH_2018-07-29
१२) aniditAM-yanglugantadhAtavaH_+_yanglugantadhAtUnAM-ting-pratyayAH-padanirNayaH-vikaraNam-2018-08-05
१३) yangluganta-dhAtUnAM-kimartham-AtmanepadatvaM-na-syAt_2018-12-09
१४) yangluki---shtip-shap-anubandha-gaNa-ekAc-ityebhiH-nirdiShTa-kArya-niShedhaH_2018-12-16



यङ्लुगन्तधातूनां निर्माणावसरे आर्धधातुकप्रक्रिया आश्रीयते | आर्धधातुकप्रक्रिया उच्यते यदा धातुभ्यः यः प्रत्ययः विधीयते सः आर्धधातुकसंज्ञकः | इयम्‌ आर्धधातुकप्रक्रिया उपपद्यते त्रिषु स्थलेषु— (१) आतिदेशिकधातूनां साधनावसरे धातुभ्यः ये धातुप्रत्ययाः विधीयन्ते ते आर्धधातुकसंज्ञकाः, यथा सन्‌, णिच्‌, यङ्‌ इति द्वादश धातुप्रत्ययाः; (२) लकाराणां तिङन्तसाधनावसरे धातुभ्यः यः विकरणप्रत्ययः (यथा लृटि 'स्य') अथवा यः तिङ्प्रत्ययः (यथा आशीर्लिङि 'यात्‌') विधीयते सः आर्धधातुकसंज्ञकः चेत्‌; (३) कृदन्तसाधनावसरे धातुभ्यः यः कृत्‌-प्रत्ययः विधीयते सः आर्धधातुकसंज्ञकः चेत्‌ | अतः आहत्य आर्धधातुकप्रक्रिया घटिता आतिदेशिकधातुनिर्माणे, लकाराणां तिङन्तनिर्माणे, कृदन्तनिर्माणे च | अत्र यङ्लुगन्तस्य आर्धधातुकप्रक्रिया आतिदेशिकधातुनिर्माणमेव | एकवारम्‌ आतिदेशिकधातुः यदा सिद्धः, ततः अग्रे तिङन्तसाधने केवलं सन्धिकार्यम्‌ |


यङ्लुक्‌-प्रक्रिया अनिडादिषु अन्यतमा | अत्र यङ्‌-प्रत्ययः विधीयते यः वलादिः नास्ति, तदा तस्य च यङ्‌-प्रत्ययस्य लुक्‌ भवति | अतः इडागमस्य अवसरो न भवत्येव | प्रेरणार्थे णिच्‌, कर्मणि भावे यक्‌, परस्मैपदे आशीर्लिङ्‌, यङ्लुगन्ताः, यङन्ताः, च इत्येते सर्वे अनिडादयः | क्रमेण एषां पाठः जायमानः | एतावता प्रेरणार्थे णिच्‌, कर्मणि भावे यक्‌, परस्मैपदे आशीर्लिङ्‌ इत्येते समाप्ताः; सम्प्रति यङ्लुक्‌; तदा यङन्ताः | यङ्लुक्‌ प्रथमं क्रियते यतोहि अस्मिन्‌ यङ्‌-निमित्तीकृत्य अङ्गकार्यं नास्ति | यङि अङ्गकार्यस्य बाहुल्यम्‌ इति कारणेन अधिकं जाटिल्यम्‌ | अनिडादीनां प्रक्रियानन्तरम्‌ इड्‌व्यवस्था, तदा इडादीनां पाठः |


तर्हि आर्धधातुकप्रक्रिया उच्यते यदा धातुभ्यः यः प्रत्ययः विधीयते सः आर्धधातुकसंज्ञकः |


१) अस्य एकं फलम्‌ इदं यत्‌ कर्तरि शप्‌ (३.१.६८) इत्यस्य प्रसक्तिर्नास्ति | कर्तरि शप्‌ (३.१.६८) इत्यनेन धातोः शप्‌ प्रत्ययः परश्च कर्तरि सार्वधातुके | धातुभ्यः विधीयमानप्रत्ययः आर्धधातुकः चेत्‌ शप्‌ न भवति, न वा शपं प्रबाध्य ये गणम्‌ अवलम्ब्य विशिष्टविकरणप्रत्ययाः तेऽपि न भवन्ति | शपः अभावे आर्धधातुकप्रक्रियायाः धातुगणेन साकं न कोऽपि सम्बन्धः | सर्वान्‌ धातून्‌ सङ्गृह्य प्रत्येकं धातोः अन्तिमवर्णम्‌ अनुसृत्य पुनः विभज्य श्रेणीकार्यं भवति |


२) आर्धधातुकस्येड्वलादेः (७.२.३५) इत्यनेन इडागमो भवति न वा इति विवेचनीयम्‌ | यथोक्तम्‌ अत्र यङ्लुकि इडागमस्य अवसरो नास्ति |


आर्धधातुकस्येड्वलादेः (७.२.३५) = आर्धधतुक-प्रत्ययस्य आदौ वल्‌-प्रत्याहारे अन्यतमवर्णः अस्ति चेत्‌, तस्य इडागमो भवति | वलादेरार्धधातुकस्येडागमः स्यात्‌ | इट्‌-आगमः टित्‌ अतः आद्यन्तौ टकितौ (१.१.४६) इत्यनेन प्रत्ययस्य आदौ आयाति | वल्‌-प्रत्याहारे यकारं विहाय सर्वाणि व्यञ्जनानि अन्तर्गतानि | वल्‌ आदौ यस्य स वलादिः बहुव्रीहिः, तस्य वलादेः | आर्धधातुकस्य षष्ठ्यन्तम्‌, इट्‌ प्रथमान्तं, वलादेः षष्ठ्यन्तं, त्रिपदमिदं सूत्रम्‌ | अङ्गस्य (६.४.१) इत्यस्य अधिकारः | अनुवृत्ति-सहितसूत्रम्‌— अङ्गात् वलादेः आर्धधातुकस्य इट्‌ |


यङ्‌-प्रत्ययः केभ्यः धातुभ्यः विधीयते, केषु च अर्थेषु


द्वादशसु धातुप्रत्ययेषु यङ्‌-प्रत्ययः अन्यतमः | वारं वारम्‌ अथवा अधिकाधिकम्‌ इत्यस्मिन्‌ अर्थे भवति | यथा णिच्‌ अपि च सन्, अस्य यङ्‌-प्रत्ययस्य धातुना संयोजनेन नूतनधातुः निर्मितः भवति | तदा यङन्तधातुः इति वदामः | यङ्‌-प्रत्ययस्य किञ्चन वैशिष्ट्यम्‌ अस्ति यत्‌ तस्य लोपः (लुक्‌) अपि भवितुम्‌ अर्हति | यत्र यङः लुक्‌ भवति तत्र यङ्लुगन्तधातुः इत्युच्यते | यङन्तानां यङ्लुगन्तानां च अर्थः समानः, परन्तु रूपं भिद्यते |


यथा—

पठ्‌ + यङ्‌ → 'पापठ्य' इति यङन्तधातुः |


पठ्‌ + यङ्‌ → पापठ्य → यङः लुक्‌ → पापठ्‌ इति यङ्लुगन्तधातुः |


पापठ्य इति अदन्तधातुः, पापठ्‌ इति हलन्तधातुः; रूपं भिद्यते किन्तु अर्थः समानः | यङः लटि पापठ्यते, यङ्लुगन्तस्य लटि पापट्टि | उभयत्र वारं वारम्‌ अथवा अधिकाधिकं पठति इत्यर्थः |


तर्हि यङ्‌-प्रत्ययस्य 'वारं वारम्‌ अथवा अधिकाधिकम्‌' इति सामान्यः अर्थः | व्याकरणे अस्यैव अर्थस्य व्यक्तीकरणार्थं 'क्रियासमभिहारः' इति पदं भवति | पौनःपुन्यं भृशार्थश्च क्रियासमभिहारः इति | सम्प्रति द्रष्टव्यं कुत्र यङ्‌-प्रत्ययः अस्मिन्‌ सामान्यार्थे भवति, कुत्र च अपरस्मिन्‌ विशिष्टार्थे भवति |


धातोरेकाचो हलादेः क्रियासमभिहारे यङ्‌ (३.१.२२) = वारं वारम्‌ अथवा अतिशयार्थे हलादि-एकाच्‌-धातुभ्यः यङ्‌-प्रत्ययो भवति | पौनःपुन्ये भृशार्थे च द्योत्ये धातोरेकाचो हलादेर्यङ्‌ स्यात् | एकोऽच्‌ यस्मिन्‌ स एकाच्‌ बहुव्रीहिः, तस्मात्‌ एकाचः | हल्‌ आदिर्यस्य स हलादिः बहुव्रीहिः, तस्मात्‌ हलादेः | क्रियायाः समभिहारः क्रियासमभिहारः षष्ठीतत्पुरुषः, तस्मिन्‌ क्रियासमभिहारे | धातोः पञ्चम्यन्तम्‌, एकाचः पञ्चम्यन्तं, हलादेः पञ्चम्यन्तं क्रियासमभिहारे सप्तम्यन्तं, यङ्‌ प्रथमान्तम्‌, अनेकपदमिदं सूत्रम्‌ | प्रत्ययः (३.१.१), परश्च (३.१.२) इत्यनयोः अधिकारः | अनुवृत्ति-सहितसूत्रम्‌— एकाचः हलादेः धातोः यङ्‌ प्रत्ययः परश्च क्रियासमभिहारे |


अनेन बोधो भवति यत्‌‍ यङः त्रीणि निमित्तानि— (१) विवक्षा क्रियासमभिहारे भवेत्‌, (२) धातुः हलादिः भवेत्‌, (३) धातुः एकाच्‌ भवेत्‌ | त्रिषु अन्यतमः नास्ति चेत्‌ यङ्‌ न भवति | यथा जागृ‌-धातुः हलादिः किन्तु अनेकाच्‌ अतः जागृ-धातोः यङ्‌-प्रत्ययः न भवति; ईक्ष्‌-धातुः एकाच्‌‍ किन्तु अजादिः अतः ईक्ष्‌-धातोः यङ्‌-प्रत्ययः न भवति | परन्तु भू-धातुः हलादिः अपि अस्ति, एकाच्‌ अपि अस्ति, अतः भू-धातोः यङ्‌-प्रत्ययो भवति |


सूचिसूत्रिमूत्र्यटत्यर्त्यशूर्णोतीनां यङ्‌ वक्तव्यम्‌ इति वार्त्तिकेन क्रियासमभिहारार्थे सूचि, सूत्रि, मूत्रि इत्येभ्यः त्रिभ्यः अनेकाच्‌-धातुभ्यः च अट्‌, ऋ, अश्‌, ऊर्णु इति चतुर्भ्यः अजादिधातुभ्यः यङ्‌-प्रत्ययो भवति |


नित्यं कौटिल्ये गतौ (३.१.२३) = गत्यर्थकधातुभ्यः कुटिलगमनार्थे एव यङ्‌-प्रत्ययो भवति; क्रियासमभिहारार्थे न भवति | गतिवचनाद्धातोः कौटिल्ये गम्यमाने नित्यं यङ्‌-प्रत्ययो भवति | नित्यं द्वितीयान्तं क्रियाविशेषणं, कौटिल्ये सप्तम्यन्तं, गतौ सप्तम्यन्तं, त्रिपदमिदं सूत्रम्‌ | धातोरेकाचो हलादेः क्रियासमभिहारे यङ्‌ (३.१.२२) इत्यस्मात्‌ धातोः, यङ्‌ इत्यनयोः अनुवृत्तिः | अनुवृत्ति-सहितसूत्रं— धातोः यङ्‌ नित्यं कौटिल्ये गतौ |


अत्र प्रश्नः उदेति यत्‌ गत्यर्थकधातवः के | प्रायः ३५० गत्यर्थकधातवः सन्ति | ये ये धातवः गमनार्थे सन्ति, ते सर्वे गत्यर्थकाः | अत्र धेयं यत्‌ केचन गत्यर्थकधातवः अकर्मकाः, पुनः केचन सकर्मकाः | अनेन नित्यं कौटिल्ये गतौ (३.१.२३) इति सूत्रेण एते सर्वे गत्यर्थकधातवः अन्तर्भूताः | अपरस्मिन्‌ प्रसङ्गे गत्यर्थाकर्मकश्लिषशीङ्स्थाऽऽसवसजनरुहजीर्यतिभ्यश्च (३.४.७२) इत्यनेन गत्यर्थ-अकर्मक-श्लिष-शीङ्-स्था-आस-वस-जन-रुह-जीर्यतिभ्यः धातुभ्यः क्त-प्रत्ययः कर्त्रर्थे अपि विधीयते | अत्र गत्यर्थकधातवः च अकर्मकधातवः च पृथक्‌ उक्ताः इत्यस्मात्‌ गत्यर्थे सकर्मकधातूनामेव ग्रहणम्‌ | अनेन सकर्मकगत्यर्थकधातुभ्यः कर्त्रर्थे क्त-प्रत्ययो भवति | बालकः ग्रामं गतः | अत्र भ्वादौ धावु गतिशुद्धयोः इति अकर्मक-धाव्-धातोः अकर्मकत्वात्‌ एव कर्त्रर्थे क्त-प्रत्ययो भवति | किन्तु प्रकृते, नित्यं कौटिल्ये गतौ (३.१.२३) इति सूत्रे सर्वेषां गत्यर्थकधातूनां ग्रहणम्‌ |


लुपसदचरजपजभदहदशगॄभ्यो भावगर्हायाम् (३.१.२४) = लुप्‌, सद्‌, चर्, जप्‌, जभ्‌, दह्‌, दश्‌, गॄ, इति धातुभ्यः क्रियायाः भावगर्हाऽर्थे एव यङ्‌-प्रत्ययो भवति; अपरेषु अर्थेषु न भवति | भावशब्देन क्रिया-सङ्केतः; क्रियायाः निन्दा अर्थात्‌ असमीचीनरीत्या क्रिया सम्पन्ना इत्यस्मिन्‌ अर्थे 'भावगर्हा' उपयुज्यते | लुपश्च सदश्च चरश्च जपश्च जभश्च दहश्च दशश्च गॄ च तेषामितरेतरद्वन्द्वः लुपसदचरजपजभदहदशगरः, तेभ्यः लुपसदचरजपजभदहदशगॄभ्यः | भावस्य गर्हा भावगर्हा, तस्यां भावगर्हायाम्‌ | लुपसदचरजपजभदहदशगॄभ्यः पञ्चम्यन्तं, भावगर्हायाम् सप्तम्यन्तं, द्विपदमिदं सूत्रम्‌ | नित्यं कौटिल्ये गतौ (३.१.२३) इत्यस्मात्‌ नित्यम्‌ इत्यस्य अनुवृत्तिः | धातोरेकाचो हलादेः क्रियासमभिहारे यङ्‌ (३.१.२२) इत्यस्मात्‌ यङ्‌ इत्यस्य अनुवृत्तिः | अनुवृत्ति-सहितसूत्रं— लुपसदचरजपजभदहदशगॄभ्यो यङ्‌, नित्यं भावगर्हायाम् |


चर् + यङ्‌ → चञ्चूर्य इति यङन्तधातोः अर्थः निन्दितरूपेण चलनम्‌ | गर्हितं चरति चञ्चूर्यते | गर्हितं लुम्पति लोलुप्यते | (लुम्पति = तुदादिगणे लुप्‌‌-धातुः, स्थगयति, दमयति इत्यर्थः) ।


तर्हि यङ्‌-प्रत्ययः कुत्र कुत्र भवति इति चेत्‌, चतुर्णां सूत्राणां वार्त्तिकानाञ्च मिलित्वा अर्थः एवम्‌—

१) अजादिधातुषु अट्‌, ॠ, अश्‌, ऊर्णु इत्येभ्यः एव यङ्‌ भवति | अवशिष्टेभ्यः अजादिधातुभ्यः यङ्‌ न भवति |

२) हलादिधातवः द्विविधाः— अनेकाचः एकाचः च |

- अनेकाच्‌-धातुषु केवलं सूचि, सूत्रि, मूत्रि इत्येभ्यः त्रिभ्यः यङ्‌ भवति | अवशिष्टेभ्यः हलादि-अनेकाच्‌-धातुभ्यः यङ्‌ न भवति | सर्वे णिजन्ताः सनन्ताः च धावतः अनेकाचः अतः तेभ्यः यङ्‍ न भवति | चुरादिगणे यावन्तः धातवः ते सर्वे अनेकाचः अतः तेभ्यः अपि यङ्‌ न भवति | दीधी, वेवी, दरिद्रा, जागृ, चकास्‌ इत्यादिभ्यः अपि यङ्‌ न भवति |

- पठ्‌, वद्‌, मुद्‌, बुध्‌ इत्यादिभ्यः सर्वेभ्यः एकाच्‌-हलादिधातुभ्यः यङ्‌-प्रत्ययो भवति |


यङन्तस्य धातुसंज्ञा


धातुभ्यः यदा हि यङ्‌-प्रत्ययः विधीयते, तदा हि धातुसंज्ञा भवति | अनन्तरं यङ्ः लुकि सत्यपि प्रत्ययलोपे प्रत्ययलक्षणम्‌ (१.१.६२) इत्यनेन धातुसंज्ञा तिष्ठति एव |


सनाद्यन्ता धातवः (३.१.३२) = गुप्तिज्किद्भ्यः सन्‌ (३.१.५) इत्यस्य सन्‌ इत्यारभ्य कमेर्णिङ्‌ (३.१.३०) इत्यस्य णिङ्‌ इत्यन्तं द्वादश प्रत्ययाः येषाम्‌ अन्ते भवन्ति, तेषां धातु-संज्ञा स्यात्‌ | सन्‌ आदौ येषां ते सनादयः; सनादयः अन्ते येषां ते सनाद्यन्ताः | सनाद्यन्ताः प्रथमान्तं, धातवः प्रथमान्तं, द्विपदमिदं सूत्रम्‌ | सूत्रं स्वयं सम्पूर्णम्‌— सनाद्यन्ताः धातवः |


यङ्‌लुक्‌-विधानम्‌


यङोऽचि च (२.४.७४) = यङः लुक्‌ भवति अच्‌-प्रत्यये परे; 'च'-शब्देन अच्‌-प्रत्ययं विनाऽपि यङः लुक्‌ भवति | 'बहुलम्‌' इति शब्देन यङः लुक्‌ वैकल्पिकम्‌ | यङः षष्ठ्यन्तम्‌, अचि सप्तम्यन्तं, च अव्ययपदं, त्रिपदमिदं सूत्रम्‌ | ण्यक्षत्रियार्षञितो लुगणिञोः (२.४.५८) इत्यस्मात्‌ लुक्‌ इत्यस्य अनुवृत्तिः | बहुलं छन्दसि (२.४.७३) इत्यस्मात्‌ बहुलम्‌ इत्यस्य अनुवृत्तिः | अनुवृत्ति-सहितसूत्रं— यङः लुक्‌ अचि च बहुलम्‌ |


सिद्धान्तकौमुद्यां 'यङोऽच्प्रत्यये लुक् स्याच्चकारात्तं विनापि बहुलं लुक् स्यात् | अनैमित्तिकोऽयमन्तरङ्गत्वादादौ भवति | ततः प्रत्ययलक्षणेन यङन्तत्वाद्द्वित्वम् | अभ्यासकार्यम् | धातुत्वाल्लडादयः |' 'च'-शब्देन अच्‌-प्रत्ययं विनाऽपि यङः लुक्‌ भवति | अनेन प्रश्नः उदेति यत्‌ 'अचि' (अच्‌-प्रत्यये परे) इति दलस्य किं प्रयोजनम्‌ | अच्‌-प्रत्ययस्य अस्मिन्‌ सूत्रे निवेशः निरर्थको वा ? 'अच्‌-प्रत्यये परे यङः लुक्‌ नित्यम्‌‍, अन्यत्र वैकल्पिकम्‌' इति कोऽपि तादृशकारणस्य ऊहां कुर्यात्‌, किन्तु तत्तु दोषाय यतोहि अच्‌-प्रत्यये परे अपि यङ्‌ वैकल्पिकम्‌ | अतः नित्यत्वम्‌ अस्य निवेशस्य कारणं न | अपि तु, अस्य अच्‌-प्रत्ययस्य निवेशस्य फलं न धातुलोप आर्धधातुके (१.१.४) इति सूत्रे |


न धातुलोप आर्धधातुके (१.१.४) = धात्वंशलोपनिमित्ते आर्धधातुके परे इको गुणवृद्धी न स्तः | धातोः कस्यचित् अंशस्य कस्मिंश्चित् आर्धधातुकप्रत्ययस्य विषये लोपो भवति चेत्‌, तस्य धातोः इक्‌-वर्णस्य तस्मिन् आर्धधातुकप्रत्ययस्य विषये गुणवृद्धी न भवतः | धातुलोप-शब्दे 'धातु' इति भागेन धात्वंशस्य ग्रहणम्, अतः धातुलोपः इत्युक्ते धात्वंशलोपः | धातुं लोपयतीति धातुलोपः, तस्मिन्‌ धातुलोपे | नाव्ययं, धातुलोपे सप्तम्यन्तम्‌, आर्धधातुके सप्तम्यन्तम्‌ | इको गुणवृद्धी (१.१.३) इत्यस्य सम्पूर्णरीत्या अनुवृत्तिः | अनुवृत्ति-सहितसूत्रं— धातुलोपे आर्धधातुके इकः गुणवृद्धी |


यथा—

'लूञ् छेदने' इति धातोः 'पुनः पुनः लूनाति' इति अर्थे धातोरेकाचो हलादे क्रियासमभिहारे यङ् (३.१.२२) इत्यनेन यङ्-प्रत्ययः भवति; तेन 'लोलूय' इति आतिदेशिकः धातुः सिध्यति | यथा लटि लोलूय + ते → लोलूयते, पुनः पुनः लूनाति इत्यर्थः | तदा 'यः लोलूयते सः' इति अर्थे 'लोलूय' धातोः नन्दिग्रहिपचादिभ्यो ल्युणिन्यचः (३.१.१३४) इत्यनेन 'अच्'-प्रत्ययः विधीयते, येन 'लोलूव' इति प्रातिपदिकं सिध्यति | यः पुनः पुनः लूनाति सः = यः लोलूयते सः = लोलुवः |


प्रक्रिया एवम्—

लू + यङ् + अच् → सन्यङोः (६.१.९) इत्यनेन यङन्तधातोः एकाच्-अवयवस्य द्वित्वम् → लू + लू + यङ् + अच् → प्रथमः 'लू' इत्यस्य पूर्वोभ्यासः (६.१.४) इत्यनेन अभ्यास-संज्ञा → गुणो यङ्लुकोः (७.४.८२) इत्यनेन यङ्-प्रत्यये परे इगन्तस्य अभ्यासस्य गुणः → लो + लू + यङ् + अच् → यङोऽचि च (२.४.७४) इत्यनेन अच्-प्रत्यये परे यङ्-प्रत्ययस्य विकल्पेन लुक् → लो + लू + अच् → सार्वधातुकार्धधातुकयोः (७.३.८४) इत्यनेन अच्-प्रत्यये परे 'लू' इत्यस्य गुणादेशः → अयं गुणादेशः न धातुलोप आर्धधातुके (१.१.४) इत्यनेन निषिध्यते |


कथं निषेधः इति चेत्—

१) आर्धधातुकं शेषः (३.४.११४) इत्यनेन अच्-प्रत्ययः आर्धधातुकप्रत्ययः |

२) अच्-प्रत्ययस्य अङ्गं 'लोलूय' इति धातुः |

३) अच्-प्रत्ययस्य निमित्तत्वेन यङोऽचि च (२.४.७४) इत्यनेन 'लोलूय' इति धातोः यः अंशः 'य'-शब्दः तस्य लोपः |

४) अङ्गस्य यः इक्-वर्णः तस्य गुणादेशः तमेव अच्‌-प्रत्ययं निमित्तीकृत्य सार्वधातुकार्धधातुकयोः (७.३.८४) इति सूत्रेण विधीयते |


=> एवञ्च न धातुलोप आर्धधातुके (१.१.४) इत्यस्य सर्वाणि निमित्तानि पूरितानि | अनेन प्राप्तस्य गुणस्य निषेधो भवति |


अग्रे प्रक्रिया एवम्—

लो + लू + अच् → 'लू' इत्यस्य गुणादेशः न धातुलोप आर्धधातुके (१.१.४) इत्यनेन बाधितः अतः अचि श्नुधातुभ्रुवां य्वोरियङुवङौ (६.४.७७) इत्यनेन लू-इत्यस्य उवङ्-आदेशः; ङिच्च (१.१.५३) इति अयम् अन्त्यादेशः → लो + लुवङ् + अ → ङकारस्य इत्संज्ञा लोपश्च; अकारः उच्चारणार्थः → लोलुव् + अ → लोलुव इति प्रातिपदिकम्‌ |


'पूञ् पवने' इति धातोः 'यः पुनः पुनः पुनाति सः' इति अर्थे 'पोपुव' इति प्रातिपदिकम्‌ अपि एवमेव भवति |


तर्हि प्रश्नः अधुनापि अस्ति, किमर्थम्‌ अच्‌-प्रत्ययः यङोऽचि च (२.४.७४) इति सूत्रे पठितः | यतोहि— अच्‌-प्रत्यये परे यङः लुक्‌ नैमित्तिकम्‌ | अचम्‌ अतिरिच्य अन्यत्र सर्वत्र यङः लुक्‌ अनैमित्तिकम्‌ | अच्‌-प्रत्ययः यङः लुकः निमित्तम्‌; अस्य फलद्वयं वर्तते | एकं फलमिदं यत्‌ असिद्धं बहिरङ्गम्‌ अन्तरङ्गे इति परिभाषया अन्तरङ्गकार्यस्य कर्तव्ये बहिरङ्गकार्यम्‌ असिद्धं भवति | अच्‌-प्रत्यये परे यत्‌ यङः लुक्‌, तत्‌ अधुना द्वित्वकार्यापेक्षया अधिकापेक्षम्बहिरङ्गम | अचम्‌ अतिरिच्य अन्यत्र सर्वत्र यङः लुक्‌ अनैमित्तिकम्‌ अतः अन्तरङ्गम्‌ | द्वितीयफलं प्रमुखं; तच्च अग्रे प्रदर्श्यते—


लू + यङ् + अच् → सन्यङोः (६.१.९) इत्यनेन यङन्तधातोः द्वित्वं; यङोऽचि च (२.४.७४) इत्यनेन अच्-प्रत्यये परे यङ्-प्रत्ययस्य लुक् → द्वयोः एकत्र प्राप्तिः → यङः लुक्‌ बहिरङ्गम्‌ इति कृत्वा (परत्वात्‌ नित्यत्वात्‌ च) सन्यङोः (६.१.९) इत्यनेन द्वित्वम्‌ → लू + लू + यङ्‌ → गुणो यङ्लुकोः (७.४.८२) इत्यनेन यङ्-प्रत्यये परे इगन्तस्य अभ्यासस्य गुणः → लो + लू + यङ् + अच् → यङोऽचि च (२.४.७४) इत्यनेन अच्-प्रत्यये परे यङ्-प्रत्ययस्य विकल्पेन लुक् → लो + लू + अच् → सार्वधातुकार्धधातुकयोः (७.३.८४) इत्यनेन अच्-प्रत्यये परे 'लू' इत्यस्य गुणादेशः → अयं गुणादेशः न धातुलोप आर्धधातुके (१.१.४) इत्यनेन निषिध्यते; किमर्थमिति चेत्‌, अयम्‌ अच्‌-प्रत्ययः यङः लुकः निमित्तम्‌ | अन्यत्र सर्वत्र यङः लुक्‌ अनैमित्तिकं, किन्तु अत्र यङः लुक्‌ नैमित्तिकमेव | नो चेत् न धातुलोप आर्धधातुके (१.१.४) इति सूत्रस्य प्रसक्तिरेव न भवति स्म | 'धात्वंशलोपनिमित्ते आर्धधातुके परे इको गुणवृद्धी न स्तः' | यदि यङोऽचि च (२.४.७४) इति सूत्रे 'अच्‌' इति दलं नाभविष्यत्‌, नाम अच्‌-प्रत्यये परे अपि यदि यङः लुक्‌ अनैमित्तिकम्‌ अभविष्यत्‌, तर्हि न धातुलोप आर्धधातुके (१.१.४) इत्यनेन सार्वधातुकार्धधातुकयोः (७.३.८४) इत्यनेन प्राप्तगुणं बाधितुं न शक्नोति स्म | गुणकार्यम्‌ अभविष्यत्— लो + लू + अच् → लो लो अच्‌ → लोलव इति अनिष्टं रूपं सिध्यति स्म | अस्य कृते यङः लुकः निमित्तम्‌ अच्‌-प्रत्ययः आवश्यकः | एतदर्थं यङोऽचि च (२.४.७४) इति सूत्रे अच्‌-प्रत्ययः पठितः | लोलुव |


पुनः प्रश्नः उदेति— यङोऽचि च (२.४.७४) इति सूत्रे अच्‌-प्रत्ययः इत्यस्य निमित्तसप्तमी इति कृत्वा अयं प्रत्ययः यङः लुक्‌ प्रति नैमित्तकः; अच्‌ इति उक्तं चेत्‌ तादृशाः अन्ये अपि नैमित्तकप्रत्ययाः सन्ति वा येषां माध्यमेन न धातुलोप आर्धधातुके (१.१.४) द्वारा गुणनिषेधः सिध्येत ? यथा अनीयर् अथवा अन्ये कृत्‌-प्रत्ययाः, यया रीत्या अच्‌-प्रत्ययः नैमित्तकः इति कारणतः लोलुव भवति न तु लोलव, एवमेव लू + यङ्‌ + अनीयर् → लोलुवनीयं न तु लोलवनीयम्‌ इति वा ? इति चेत्‌, नैव | यङोऽचि च (२.४.७४) इति सूत्रे अच्‌ इत्येव उक्तं यतोहि अच्‌-प्रत्ययः एव नैमित्तकः | अन्यः न कोऽपि प्रत्ययो वर्तते यः यङः लुक्‌ प्रति नैमित्तकः स्यात्‌ | लू + यङ्‌ + अनीयर् → लोलवनीयम्‌ |


अन्यत्‌ उदाहरणं स्वीकुर्मः, लिख्‌ → यङ्लुकि लेलिख्‌ इति धातुः → लेलिख्‌ + ण्वुल्‌ → लेलेखकः | अत्र पुगन्तलघूपधस्य च (७.३.८६) इत्यनेन ण्वुल्‌-प्रत्यये परे लघूपधा इत्यस्य गुणादेशः भवति | तदर्थं लेलेखकः अस्ति, न तु लेलिखकः | एवमेव लेलेखनीयं, लेलेखितुं, लेलेखितव्यं, लेलेखिता, लेलेखिष्यति | एते सर्वे प्रत्ययाः यङोऽचि च (२.४.७४) इति सूत्रे अनैमित्तकाः इति करणतः अत्र न धातुलोप आर्धधातुके (१.१.४) इत्यस्य किमपि कार्यं नास्ति | प्रसक्तिरेव नास्ति |


किन्तु लिख्‌ → यङि लेलिख्य इति धातुः → लेलिख्य + ण्वुल्‌ → यस्य हलः (६.४.४९) इत्यनेन हलुत्तरस्य यशब्दस्य लोपो भवति आर्धधातुकप्रत्यये परे → लेलिख्‌ + ण्वुल्‌ → पुगन्तलघूपधस्य च (७.३.८६) इत्यनेन ण्वुल्‌-प्रत्यये परे लघूपधा इत्यस्य गुणादेशो न भवति यतोहि न धातुलोप आर्धधातुके (१.१.४) इत्यनेन पुगन्तलघूपधस्य च (७.३.८६) इत्यनेन प्राप्तगुणः बाधितः भवति → लेलिखकः | एवमेव लेलिखनीयं, लेलिखितुं, लेलिखितव्यं, लेलिखिता, लेलिखिष्यति |


तर्हि आहत्य यङोऽचि च (२.४.७४) इति सूत्रे बहुलम्‌ इति अनुवृत्त्या यङः लुक्‌ वैकल्पिकम्‌ | द्वादशानां सनादीनां धातु-प्रत्ययानां वैकल्पिकत्वं धातोः कर्मणः समानकर्तृकादिच्छायां वा (३.१.७) इति सूत्रात्‌ 'वा' इति अनुवृत्त्या सर्वत्र सिध्यति | किन्तु यङः लुक्‌ विधीयते लुक्‌-प्रकरणे न तु धातुप्रत्ययप्रकरणे इति कारणतः बहुलं छन्दसि (२.४.७३) इत्यस्मात्‌ बहुलम्‌ इत्यस्य अनुवृत्त्या सिध्यति | 'अचि' इति निवेशस्य फलं न धातुलोप आर्धधातुके (१.१.४) इति सूत्रे | ''-शब्देन अच्‌-प्रत्ययं विनाऽपि यङः लुक्‌ भवति; इत्युक्ते यङः लुक्‌ अनैमित्तिकम्‌ |


अग्रे प्रश्नः उदेति यत्‌ बहुलं छन्दसि (२.४.७३) इत्यस्मात्‌ छन्दसि इत्यस्य अनुवृत्तिः भवेत्‌; अनेन यङः लुक्‌ केवलं वेदे न तु लोके | तर्हि लोके कथं विधीयते इत्यपि द्रष्टव्यम्‌ | वेदे भू-धातोः यङ्लुगन्तधातोः लो‌ट्‌-लकारस्य प्रथमपुरुषैकवचनान्तरूपम्‌‍ अस्ति 'बोभूतु' | इदं रूपं च साक्षात्‌ निपातनेन उच्यते अस्मिन्‌ सूत्रे—दाधर्ति-दर्धर्ति-दर्धर्षि-बोभूतु-तेतिक्तेऽलर्ष्या-पनीफणत्‌-संसनिष्यदत्‌-करिक्रत्‌-कनिक्रदद्‌-भरिभ्रद्‌-दविध्वतो-दविद्युतत्‌-तरित्रतः-सरीसृपतं-वरीवृजन्‌-मर्मृज्या-गनीगन्तीति च (७.४.६५) | वेदे 'बोभूतु' इत्यस्य निपातनं भवति अष्टाध्याय्यां यतोहि लोके तस्य रूपं 'बोभोतु' इति भवति | लोके गुणं कृत्वा 'बोभोतु'; वेदे गुणाभावे 'बोभूतु' | किन्तु भूसुवोस्तिङि (७.३.८८) इत्यनेन एव गुणनिषेधं साधयितुं शक्यम्‌ आसीत्‌ अतः निपातनस्य का आवश्यकता | अनेन निपातनं व्यर्थम्‌ | अस्य समाधानमिदं यत्‌ दाधर्ति० (७.४.६५) इति सूत्रे 'बोभूतु' इति ज्ञापकम्‌ अस्ति यत्‌ लोके‍ऽपि यङ्लुगन्तरूपं भवति | यदा वेदे निपातनं कृत्वा सूचितं यत्‌ गुणनिषेधो भवति, तदा लोके तस्मात्‌ भिन्नं भवेत्‌ इत्युक्ते गुणः भवेत्‌ | अतः लोके 'बोभोतु' इति गुणसहितरूपं भवति यद्यपि भूसुवोस्तिङि (७.३.८८) इत्यनेन लोकेऽपि गुणनिषेधो भवति स्म | तर्हि लोके 'बोभोतु', वेदे 'बोभूतु' | निपातनस्य बलेन भूसुवोस्तिङि (७.३.८८) इति सूत्रं यङ्लुकि लोके कार्यं न करोति | किन्तु अन्यत्र लोके कार्यं करोति, यथा लुङि 'अभूत्‌' |


भूसुवोस्तिङि (७.३.८८) = भू सू इति धातुभ्यां सार्वधातुके तिङ्‌प्रत्यये परे गुणनिषेधः भवति | भू-धातुः भ्वादिगणे, यथा लुङ्‌-लकारे भू-धातोः परे तिङ्‌ साक्षात्‌ आयाति | तत्र इकः गुणः भवति स्म, परन्तु अनेन सूत्रेण गुणनिषेधः, अभूत्‌ इति रूपम्‌ | सू-धातुः अदादिगणे; अनेन सूत्रेण पिति परे अपि गुणः न | भूश्च सूश्च भूसुवौ इतरेतरद्वन्द्वः, तयोः भूसुवोः | भूसुवोः षष्ठ्यन्तं, तिङि सप्तम्यन्तं, द्विपदमिदं सूत्रम्‌ | नाभ्यस्तस्याचि पिति सार्वधातुके (७.३.८७) इत्यस्मात्‌ , सार्वधातुके इत्यनयोः अनुवृत्तिः | मिदेर्गुणः (७.३.८२) इत्यस्मात्‌ गुणः इत्यस्य अनुवृत्तिः | अनुवृत्ति-सहितसूत्रम्‌— भूसुवोः न गुणः सार्वधातुके तिङि |


वस्तुतस्तु अनेन एव सूत्रेण अधिकाधिकधातुभ्यः यङः लुक्‌ भवति | इत्युक्ते येभ्यः उपर्युक्तेभ्यः धातुभ्यः यङ्‍-प्रत्ययः सम्भवति, आधिक्येन तेभ्यः यङः लुक्‌ अपि विकल्पेन भवति | परिगणितेभ्यः एव यङः लुक्‌ न भवति; ते च महाभाष्यस्य ज्ञापकेन अधः निर्दिष्टाः |


केभ्यः धातुभ्यः यङ्ः लुक्‌ न भवति


वकारन्तधातवः—


महाभाष्ये दत्तम्‌ अस्ति यत्‌ च्छ्वोः शूडनुनासिके च (६.४.१९) इत्यनेन ये ऊठ्‌-भाविनः वकारान्तधातवः सन्ति, तेषां यङ्लुक्‌ न भवति | ऊठ्‌-भावी धातुः इत्युक्ते तादृशधातुः यस्य च्छ्वोः शूडनुनासिके च (६.४.१९) इति सूत्रेण ऊठ्‌-आदेशः सम्भवति |


च्छ्वोः शूडनुनासिके च (६.४.१९) = तुक्‌-सहित-छकारस्य स्थाने शकारादेशः अपि च वकारस्य स्थाने ऊठ्‌-आदेशो भवति अनुनासिकादि-प्रत्यये परे, क्वि परे, झलादि-प्रत्यये च परे | च्छ्‌ च व्‌ च तयोरितरेतरद्वन्द्वः च्छ्वौ, तयोः च्छ्वोः | श्‌ च ऊठ्‌ च तयोः समाहारद्वन्द्वः शूड्‌ | झलां जशोऽन्ते (८.२.३९) इत्यनेन ठकारस्य स्थाने डकारः | च्छ्वोः षष्ठ्यन्तं, शूड्‌ प्रथमान्तम्‌, अनुनासिके सप्तम्यन्तं, च अव्ययपदम्‌, अनेकपदमिदं सूत्रम्‌ | अनुनासिकस्य क्विझलोः क्ङिति (६.४.१५) इत्यस्मात्‌ क्विझलोः इत्यस्य अनुवृत्तिः | अङ्गस्य (६.४.१) इत्यस्य अधिकारः | अनुवृत्ति-सहितसूत्रम्‌— च्छ्वोः अङ्गस्य शूड्‌ क्विझलोः अनुनासिके च |


स्रिव्‌, मव्‌ इति द्वौ धातू ऊठ्‌-भाविनौ, किन्तु ज्वरत्वरस्रिव्यविमवामुपधायाश्च (६.४.२०) इति सूत्रेण न तु च्छ्वोः शूडनुनासिके च (६.४.१९) इति सूत्रेण | अस्मिन्‌ सूत्रे एतौ द्वौ वकारान्तधातू साक्षात्‌ उल्लेखितौ, अतः एतौ द्वावेव ययोः यङ्लुक्‌ रूपं भवति | (अस्मिन्‌ सूत्रे अव्‌-धातुः अपि पठितः, किन्तु स च धातुः अजादिः इति कारणतः यङ्‌-प्रत्ययः न विधीयते; तदर्थं तस्य यङ्लुक्‌ अपि न भवति |)


ज्वरत्वरस्रिव्यविमवामुपधायाश्च (६.४.२०) = ज्वर्, त्वर्, स्रिव्‌, अव्‌, मव्‌ इत्येषां धातूनाम्‌ उपधा च वकारः चेत्यनयोः मिलित्वा स्थाने ऊठ्-आदेशो भवति अनुनासिकादि-प्रत्यये परे, क्वि परे, झलादि-प्रत्यये च परे | ज्वरश्च त्वरश्च स्रिविश्च अविश्च मव्‌ च तेषामितरेतरद्वन्द्वः ज्वरत्वरस्रिव्यविमवः, तेषां ज्वरत्वरस्रिव्यविमवाम्‌ | ज्वरत्वरस्रिव्यविमवाम्‌ षष्ठ्यन्तम्‌, उपधायाः षष्ठ्यन्तं, च अव्ययं, त्रिपदमिदं सूत्रम्‌ | च्छ्वोः शूडनुनासिके च (६.४.१९) इत्यस्मात्‌ वः, ऊठ्‌, अनुनासिके इत्येषाम्‌ अनुवृत्तिः | अनुनासिकस्य क्विझलोः क्ङिति (६.४.१५) इत्यस्मात्‌ क्विझलोः इत्यस्य अनुवृत्तिः | अङ्गस्य (६.४.१) इत्यस्य अधिकारः | अनुवृत्ति-सहितसूत्रम्‌— ज्वरत्वरस्रिव्यविमवाम्‌ अङ्गस्य उपधायाः वः च ऊठ्‌ क्विझलोः अनुनासिके च |


येषां वकारान्तधातूनाम्‌ अन्तिमवकारात्‌ प्राक्‌ रेफः अस्ति, यथा धुर्व्‌, तुर्व्‌, थुर्व्‌, दुर्व्‌, मूर्व्‌, पूर्व्‌, खर्व्‌, गर्व्‌, चर्व्‌, पर्व्‌, भर्व्‌, मर्व्‌, शर्व्‌, षर्व्‌, एते धातवः ऊठ्‌-भाविनः न, अपि तु एषाम्‌ अन्तिमवकारस्य लोपः सम्भवति राल्लोपः इति सूत्रेण | एतादृशेभ्यः वकारान्तधातुभ्यः यङ्लुक्‌ भवति |


राल्लोपः (६.४.२१) = रेफात्‌ परस्य छकारस्य वकारस्य च लोपो भवति अनुनासिकादि-प्रत्यये परे, क्वि परे, झलादि-प्रत्यये च परे | रात्‌ पञ्चम्यन्तं, लोपः प्रथमान्तं, द्विपदमिदं सूत्रम्‌ | च्छ्वोः शूडनुनासिके च (६.४.१९) इत्यस्मात्‌ च्छ्वोः इत्यस्य अनुवृत्तिः; अत्र धेयं यत्‌ अनुवृत्तौ 'तक्‌-सहितः छकारः' सत्यपि व्याख्याने तुगागमो नापेक्षितः अतः न स्वीकृतः | अनुनासिकस्य क्विझलोः क्ङिति (६.४.१५) इत्यस्मात्‌ अनुनासिकस्य, क्विझलोः इत्यनयोः अनुवृत्तिः | अङ्गस्य (६.४.१) इत्यस्य अधिकारः | अनुवृत्ति-सहितसूत्रम्‌— अङ्गस्य रात्‌ च्छ्वोः लोपः अनुनासिके क्विझलोः |


यकारान्तधातवः—


मव्य्‌-धातोः यङः लुक्‌ न भवति; अवशिष्टेभ्यः यकारान्तधातुभ्यः यङ्लुगन्तरूपं भवति |


धात्वादेशीयानां यङ्‌-लुक्‌


चत्वारः धात्वादेशाः भवन्ति आर्धधातुकप्रत्यये परे | इदं कार्यम्‌ आर्धधातुकप्रत्ययस्य विषये भवति; यङ्लुकि च यङ्‌ इति आर्धधातुकप्रत्ययः 'नष्टो भविष्यति' इति योजनायाः बलात्‌ अकृतव्यूहाः पाणिनीयाः (परिभाषा ५६) इत्यनेन इमे धात्वादेशाः निषिद्धाः | अनया परिभाषया यन्निमित्तकं कार्यं निर्दिष्टं, तदेव निमित्तं यदि नशिष्यमाणं, नाम अग्रे निश्चिततया नष्टो भविष्यति, तन्निमित्तककार्यं न भवति |


  • अस्‌-धातोः स्थाने भू-आदेशो न भवति | अस्‌-धातुश्च अजादिः अतः तस्य यङ्‌-प्रत्ययः एव न भवति; यङ्‌ न भवति चेत्‌ यङ्‌-लुक्‌ अपि न भवति |
  • अज्‌-धातोः स्थाने वी-आदेशः न भवति | अज्‌-धातुः अजादिः यस्मा‌त्‌ यङ्‌लुक्‌ न भवति |
  • चक्ष्‌-धातोः स्थाने ख्याञादेशो न भवति | चक्ष्‌-धातुः हलादिः एकाच्‌ अतः यङ्‌ भवति; तस्मात्‌ यङ्लुक्‌ अपि भवति |
  • ब्रू-धातोः स्थाने वच्‌-आदेशो न भवति | ब्रू-धातुः हलादिः एकाच्‌ अतः यङ्‌ भवति; तस्मात्‌ यङ्लुक्‌ अपि भवति |


अस्तेर्भूः (२.४.५२) = आर्धधातुकविवक्षायाम्‌ अस्‌-धातोः स्थाने भू-आदेशो भवति | अनेकाल्शित्‌ सर्वस्य (१.१.५५) इत्यनेन आदेशः सर्वस्य स्थाने न तु अन्त्यस्य | अस्तेः षष्ठ्यन्तं, भूः प्रथमान्तं, द्विपदमिदं सूत्रम्‌ | आर्धधातुके (२.४.३५) इत्यस्य अधिकारः | अनुवृत्ति-सहितसूत्रम्‌— अस्तेः भूः आर्धधातुके |


अजेर्व्यघञपोः (२.४.५६) = अजेर्धातोः वी इत्ययमादेशः स्यादार्धधातुकविषये घञ्‌ च अप्‌ च वर्जयित्वा | अजेः षष्ठ्यन्तं, वी प्रथमान्तम्‌, अघञपोः सप्तम्यन्तं, त्रिपदमिदं सूत्रम्‌ | आर्धधातुके (२.४.३५) इत्यस्य अधिकारः | अनुवृत्ति-सहितसूत्रम्‌— अजेः वी आर्धधातुके अघञपोः |


चक्षिङः ख्याञ्‌ (२.४.५४) = चक्षिङः ख्याञादेशो भवति आर्धधातुके | चक्षिङः षष्ठ्यन्तं, ख्याञ्‌ प्रथमान्तं, द्विपदमिदं सूत्रम्‌ | आर्धधातुके (२.४.३५) इत्यस्य अधिकारः | अनुवृत्ति-सहितसूत्रम्‌— चक्षिङः ख्याञ्‌ आर्धधातुके |


ब्रुवो वचिः (२.४.५३) = ब्रुवो वचिरादेशो भवति आर्धधातुकविषये | इकार उच्चारणार्थः | ब्रुवः षष्ठ्येकवचनं, वचिः प्रथमैकवचनं, द्विपदमिदं सूत्रम्‌ | आर्धधातुके (२.४.३५) इत्यस्य अधिकारः | अनुवृत्ति-सहितसूत्रम्‌— ब्रुवः वचिः आर्धधातुके |


उपर्युक्तपरिगणितान्‌ स्थलान्‌ (यकारान्तधातून्‌, वकारान्तधातून्‌, धात्वादेशीयान्‌ चेति) अतिरिच्य, येभ्यः धातुभ्यः यङ्‌-प्रत्ययो भवति, तेभ्यः यङ्लुक्‌ अपि भवति |


यङ्‌लुक्‌-प्रक्रिया


सर्वप्रथमं यङ्‌ विधीयते, तदा सनाद्यन्ता धातवः (३.१.३२) इत्यनेन धातु-संज्ञा | तदा यङः लुक्‌—


यङोऽचि च (२.४.७४) इति सूत्रेण यङ्‌-प्रत्ययस्य विकल्पेन लुक्‌ भवति | तदा युगपत्‌ यङः लुक्‌ अपि च सन्यङोः (६.१.९) इत्यनेन द्वित्वप्रसक्तिः | अयं लुक्‌-आदेशः अनैमित्तिकः किन्तु सन्यङोः (६.१.९) इत्यनेन यत्‌ द्वित्वं भवति तस्य कृते निमित्तानि सन्ति— एकाचो द्वे प्रथमस्य (६.१.१) इत्यनेन द्रष्टव्यं यत्‌ यस्य धातोः द्वित्वं तस्मिन्‌ एकाच्‌ अथवा अनेकाचः वर्तन्ते; अजादेर्द्वितीयस्य (६.१.२) इत्यनेन द्रष्टव्यं यत्‌ तस्य आदौ अच्‌-वर्णः अस्ति अथवा हल्‌-वर्णः | तस्मात्‌ सन्यङोः (६.१.९) इत्यस्य अपेक्षया यङोऽचि च (२.४.७४) अनैमित्तिकत्वात्‌ अन्तरङ्गम्‌ अस्ति | अल्पापेक्षमन्तरङ्गम्‌ | द्वित्वकार्यं बहिरङ्गम्‌ | इति कारणतः द्वित्वात्‌ प्रागेव प्रक्रियायां सर्वप्रथमं कार्यं यङः लुक्‌ |


द्वित्वम्—


यङः लुगानन्तरं प्रश्नः उदेति यदा यङ्‌-प्रत्ययो नास्त्येव, तदा कथं सन्यङोः (६.१.९) इत्यनेन द्वित्वं स्यात्‌ ?


सन्यङोः (६.१.९) = सन्नन्तस्य यङन्तस्य च धातुरनभ्यासस्य प्रथमस्यैकाच्‌-अवयवस्य द्वे स्तः; अजादेस्तु द्वितीयस्य | सन्‌ च यङ्‌ च तयोरितरेतरद्वन्द्वः सन्यङौ, तयोः सन्यङोः | सन्यङोः षष्ठ्यन्तम्‌, एकपदमिदं सूत्रम्‌ | लिटि धातोरनभ्यासस्य (६.१.८) इत्यस्मात्‌ धातोः, अनभ्यासस्य इत्यनयोः अनुवृत्तिः | एकाचो द्वे प्रथमस्य (६.१.१), अजादेर्द्वितीयस्य (६.१.२) इत्यनयोः अधिकारः | अनुवृत्ति-सहितसूत्रम्‌— सन्यङोः धातोः अनभ्यासस्य एकाचो द्वे प्रथमस्य अजादेः द्वितीयस्य |


एकाचो द्वे प्रथमस्य (६.१.१) = अधिकारसूत्रं— प्रथमस्य एकाच्‌-भागस्य द्वित्वं भवति | जागृ → जा जागृ | पच्‌ → पच्‌ पच्‌ | इ → इ इ | षष्ठाध्यायस्य प्रदमपादस्य द्वादशं सूत्रं (६.१.१२) पर्यन्तं सर्वत्र अनुवर्तते | एकाचः षष्ठ्यन्तं, द्वे प्रथमान्तं, प्रथमस्य षष्ठ्यन्तं, त्रिपदमिदं सूत्रम्‌ | सूत्रं स्वयं सम्पूर्णम्‌— प्रथमस्य एकाचः द्वे |


अजादेर्द्वितीयस्य (६.१.२) | अधिकारसूत्रम्‌— अजादिधातोः द्वितीयस्य एकाच्‌-भागस्य द्वित्वं भवति | ऊर्णु → ऊर्णु नु | षष्ठाध्यायस्य प्रदमपादस्य द्वादशं सूत्रं (६.१.१२) पर्यन्तं सर्वत्र अनुवर्तते | अजादेः षष्ठ्यन्तं, द्वितीयस्य षष्ठ्यन्तं, द्विपदमिदं सूत्रम्‌ | सूत्रं स्वयं सम्पूर्णम्‌— अजादेः द्वितीयस्य (एकाचः द्वे) |


बहुत्र धातुः एकाच्‌ एव; तथा भवति चेत्‌ समग्रधातोरेव द्वित्वं भवति | यथा जुहोत्यादिगणे मा → मामा, हा → हाहा | यङन्तधातुः सदा अनेकाच्‌ यतोहि औपदेशिकधातौ न्यूनातिन्यूनम्‌ एकः स्वरः अस्त्येव; तदा 'य' इत्यस्य संयोजनेन ‘य' इत्यस्मिन्‌ यः अकारः, सः यङन्तधातोः द्वितीयः अच्‌-वर्णो भवति | धातुः अनेकाच्‌ चेत्‌, अपि च हलादिः इति चेत्‌ एकाचो द्वे प्रथमस्य (६.१.१) इत्यनेन प्रथमस्य एकाच्‌-भागस्य द्वित्वं भवति | धातुः अनेकाच्‌ चेत्‌, अपि च अजादिः इति चेत्‌ अजादेर्द्वितीयस्य (६.१.२) इत्यनेन द्वितीयस्य एकाच्‌-भागस्य द्वित्वं भवति | एकाच्‌-भागः इत्युक्ते यादा हि प्रथमः अच्‌-वर्णः आयाति, स च वर्णः भागस्य अन्तो भवति | नाम, स्वरवर्णः भागस्य अन्तिमवर्णो भवति | अग्रिमवर्णः अग्रिमभागस्य प्रथमवर्णः |


यथा भू + य → भूय इत्यस्य सनाद्यन्ता धातवः (३.१.३२) इत्यनेन धातुसंज्ञा → सन्यङोः (६.१.९) इत्यनेन द्वित्वम्‌ → भूय इति धातुः अनेकाच्‌, हलादिः च अतः प्रथमस्य एकाच्‌-भागस्य द्वित्वम्‌ → ऊ-कारः स्वरः अतः स च ऊकारः प्रथमभागस्य अन्तिमवर्ग्णः → 'भू' इति प्रथमभागः, तस्य च द्वित्वम्‌ → भू भू य


किन्तु धातुः अजादिः अस्ति चेत् अजादेर्द्वितीयस्य (६.१.२) इत्यनेन द्वितीयस्य एकाच्‌-भागस्य द्वित्वं भवति—


अश्‌ य → अश्य इत्यस्य सनाद्यन्ता धातवः (३.१.३२) इत्यनेन धातुसंज्ञा → सन्यङोः (६.१.९) इत्यनेन अजादेः द्वितीयस्य द्वित्वम्‌ → अश्य इति धातौ श्य इत्यस्य प्रथमः अ-कारः स्वरः अतः स च अकारः प्रथमभागस्य अन्तिमवर्ग्णः → 'श्य' इति द्वितीयभागः, तस्य च द्वित्वम्‌ → अ श्य श्य


धेयं यत्‌ 'यङ्‌-प्रत्ययं निमित्तीकृत्य द्वित्वम्‌' इति वार्ता नास्ति | 'अश्‌ य → अश्य → अ श्य श्य' इत्यस्य दर्शनेन स्पष्टं भवति यत्‌ यङ्‌-प्रत्ययः द्वित्वकार्यस्य निमित्तं नास्ति; 'य' एव स्थानी, नाम स च 'य' कार्यस्य स्थलम्‌ | अपरेषु द्वित्वप्रसङ्गेषु प्रत्ययः सप्तमीविभक्तौ भवति— लिटि धातोरनभ्यासस्य (६.१.८), श्लौ (६.१.१०), चङि (६.१.११) | एषु लिटि, श्लौ, चङि इति सप्तम्यन्तानि; किन्तु सन्यङोः (६.१.९) इत्यस्मिन्‌ सन्यङोः इति षष्ठ्यन्तं पदम् | यतोहि तस्य एव द्वित्वं भवति | यस्य अन्ते यङ्‍ अस्ति, तस्य द्वित्वं भवति | यङ्‌ तस्मिन्‌ द्वित्वकार्ये अन्तर्भूतमेव |


न न्द्राः संयोगादयः (६.१.३) = अचः पराः संयोगादयः नदराः द्विर्न भवन्ति | न्‌ च द्‍ च रश्च तेषामितरेतरद्वन्द्वो न्द्राः | संयोगस्य आदयः, संयोगादयः षष्ठीतत्पुरुषः | न अव्ययपदं, न्द्राः प्रथमान्तं, संयोगादयः प्रथमान्तं, त्रिपदमिदं सूत्रम्‌ | अजादेर्द्वितीयस्य (६.१.२) इत्यसमत्‌ अजादेः इत्यस्य अनुवृत्तिः | अच्‌ चासौ आदिश्च अजादिः, तस्मात्‌ अजादेः कर्मधारयः | एकाचो द्वे प्रथमस्य (६.१.१) इत्यसमत्‌ द्वे इत्यस्य अनुवृत्तिः | अनुवृत्ति-सहितसूत्रम्‌— अजादेः संयोगादयः न्द्राः न द्वे |


यथा—

ऊर्णु → ऊ इति प्रथमः एकाच्‌-भागः, र्णु इति द्वितीयः एकाच्‌-भागः → अजादेर्द्वितीयस्य (६.१.२) इत्यनेन द्वितीयस्य एकाच्‌-भागस्य द्वित्वम्‌ → न न्द्राः संयोगादयः (६.१.३) इत्यनेन संयोगादि-रेफस्य द्वित्वं न भवति अतः 'नु' इत्यस्य एव द्वित्वम्‌ → ऊर्णु नु


उन्द्‌ + सन्‌ → इडागमः, षत्वादेशः → उन्दिष → त्रयः एकाच्‌-भागाः उ, न्दि, ष → अजादेर्द्वितीयस्य (६.१.२) इत्यनेन द्वितीयस्य एकाच्‌-भागस्य द्वित्वम्‌ → 'न्दि' इति द्वितीयः एकाच्‌-भागः → न न्द्राः संयोगादयः (६.१.३) इत्यनेन संयोगादि-नकारस्य द्वित्वं न भवति अतः 'दि' इत्यस्य एव द्वित्वम्‌ → प्रथमः तृतीयः च एकाच्‌-भागौ यथावत्‌ तिष्ठतः → उन्दि + दि + ष → उन्दिदिष


प्रत्ययलोपे प्रत्ययलक्षणम्‌ (१.१.६२) = प्रत्यये लुप्ते सति, प्रत्ययं मत्वा तस्य द्वारा विहितं कार्यं स्यात्‌ | प्रत्ययस्य लोपः प्रत्ययलोपः षष्ठीतत्पुरुषः, तस्मिन्‌ प्रत्ययलोपे | प्रत्ययस्य लक्षणं निमित्तं यस्य तत्‌ प्रत्ययलक्षणम्‌, बहुव्रीहिः | सूत्रं स्वयं सम्पूर्णं— प्रत्ययलोपे प्रत्ययलक्षणम्‌ |


न लुमताऽङ्गस्य (१.१.६३) = यस्मिन्‌ शब्दे 'लु' अस्ति, तेन शब्देन प्रत्ययादर्शनं विहितं चेत्‌, सः प्रत्ययः अङ्गकार्यस्य निमित्तं न स्यात्‌ | लुः अस्य अस्ति इति लुमान्‌, तेन लुमता | न अव्ययपदं, लुमता तृतीयान्तम्‌, अङ्गस्य षष्ठ्यन्तं, त्रिपदमिदं सूत्रम्‌ | प्रत्ययलोपे प्रत्ययलक्षणम्‌ (१.१.६२) इत्यस्य पूर्णतया अनुवृत्तिः | अनुवृत्ति-सहितसूत्रं— लुमता प्रत्ययलोपे अङ्गस्य प्रत्ययलक्षणं न |


अस्मिन्‌ सूत्रे लुमता‌, लुमत्‌ इति प्रातिपदिकस्य तृतीयाविभक्त्यन्तं रूपम्‌ | इदं मतुप्‌-प्रत्ययान्तं; प्रथमाविभक्तौ लुमान्‌ | मतुप्‌-प्रत्ययस्य अर्थः अस्य अस्मिन्‌ वा; यथा बुद्धिमान्‌ इत्युक्ते बुद्धिः अस्य अस्मिन्‌ वा, सः बुद्धिमान्‌ | तर्हि 'लु' अस्य अस्मिन्‌ वा, सः लुमान्‌ | व्याकरणे त्रयः लुमन्तः सन्ति‌— लुक्‌, श्लु, लुप्‌ चेति | इदं सूत्रं वक्ति यत्‌ येन अदर्शनं भवति, सः लुमान्‌ अस्ति चेत्‌, तर्हि प्रत्ययलोपे प्रत्ययलक्षणं न भवति | अनुवृत्ति-सहितसूत्रं तथैव— (यदा) लुमता प्रत्ययलोपे (तदा) अङ्गस्य प्रत्ययलक्षणं न | अतः न लुमताऽङ्गस्य (१.१.६३) इति सूत्रं प्रत्ययलोपे प्रत्ययलक्षणम् (१.१.६२) इत्यस्य बाधकसूत्रम्‌ | तर्हि अत्र सारांशः एवं यत्‌ लुक्‌‌ इत्यनेन कस्यचित्‌ प्रत्ययस्य अदर्शनं भवति चेत्‌, यस्मात्‌ अङ्गात्‌ सः प्रत्ययः लुप्तः जातः, तस्मिन्‌ अङ्गे सः लुप्तप्रत्ययः तदानीम्‌ अङ्गकार्यस्य निमित्तं न भवितुम्‌ अर्हति |


द्वित्वे वैशिष्ट्यं ह्वेञ्‌-धातुः—


ह्वेञ्‌-धातोः द्वित्वात्‌ प्राक्‌ तस्य सम्प्रसारणं भवति |


अभ्यस्तस्य च (६.१.३३) = अभ्यस्तीभविष्यतो ह्वेञः सम्प्रसारणं स्यात्‌ | ह्वेञ्‌-धातोः यदा द्वित्वं भविष्यति तस्मात्‌ साक्षात्‌ प्रागेव तस्य सम्प्रसारणं भवति | अभ्यस्तस्य षष्ठ्यन्तं, च अव्ययपदं, द्विपदमिदं सूत्रम्‌ | ह्वः सम्प्रसारणम्‌ (६.१.३२) इत्यस्य सम्पूर्णतया अनुवृत्तिः | ह्वः इति ह्वा-शब्दस्य षष्ठ्यन्तं रूपम्‌; आदेच उपदेशेऽशिति (६.१.४५) इत्यनेन ह्वे इत्यस्मात्‌ ह्वा | अनुवृत्ति-सहितसूत्रम्‌— अभ्यस्तस्य ह्वः सम्प्रसारणं च |


ह्वे + यङ्‌ → अभ्यस्तस्य च (६.१.३३) इत्यनेन सम्प्रसारणम्‌ → हु + य → तदा एव द्वित्वम्‌


एवमेव—

ह्वे + लिट्‌ → हु + लिट्‌

ह्वे + सन्‌ → हु + सन्‌


सिद्धान्तकौमुद्याम्‌ 'अभ्यस्तीभविष्यतो ह्वेञः सम्प्रसारणं स्यात्‌' इति वृत्तिः | तत्‌ कथम्‌ इति प्रश्नः | 'ह्वः' इति षष्ठ्यन्तम्‌, 'अभ्यस्तस्य' इत्यपि षष्ठ्यन्तम्‌; अत्र द्वयोः सामानाधिकरण्यं वा, वैयधिकरण्यं वा ? अत्र काशिकावृत्तावस्ति, "'ह्वः' इति वर्तते, तद्‌ 'अभ्यस्तस्य' इत्यनेन व्यधिकरणम्—अभ्यस्तस्य यो ह्वयतिः | कश्चाभ्यस्तस्य ह्वयतिः ? कारणम्‌ | तेनाभ्यस्तकारणस्य ह्वयतेः प्रागेव द्विर्वचनात्सम्प्रसारणं भवति" | अत्र प्रश्नः जातः यत्‌ ह्वः अभ्यस्तस्य इति पदद्वर्योर्मध्ये विशेषणविशेष्यभावो वर्तते किम् ? विशेषणविशेष्यभाव इत्युक्ते सामानाधिकरण्यम्‌ | सामानाधिकरण्यं वर्तते चेत्‌, तर्हि द्विर्वचने कृतेऽभ्यस्तसंज्ञायामुपजातायां सम्प्रसारणं स्यात्‌ | एवञ्च न सम्प्रसारणे सम्प्रसारणम्‌ (६.१.३७) इत्यनेन अभ्यासस्य सम्प्रसारणं न स्यात्‌ | अतः सूत्रार्थः कः ? 'अभ्यस्तस्य यः ह्वेञ्‌-धातुः', न तु 'ह्वः अभ्यस्तस्य' इति | अभ्यस्तस्य कः ह्वेञ्‌-धातुः ? 'कारणम्‌' इत्याह | अनेन अभ्यस्तस्य कारणीभूतस्य ह्वेञ्‌-धातोः द्विर्वचनात्‌ प्रागेव सम्प्रसारणं भवति | इदमुत्तरं महाभाष्यम्‌ अनुसृत्यैव काशिकावृत्तिर्दत्ता | नाम 'अभ्यस्तस्य कः ह्वेञ्‌-धातुः ?' इति प्रश्ने सति, भाष्ये 'प्रकृतिः' इत्युक्तम्‌— 'ह्वोभ्यस्तस्य प्रकृतिरिति' | भाष्यकारो वदति यत्‌ अभ्यस्तसंज्ञायाः यः प्रकृतिभूतः ह्वेञ्‌-धातुः, तस्य सम्प्रसारणं भवति | इत्थञ्च यत्र अभ्यस्तसंज्ञा सम्भवति, तत्र द्वित्वात्‌ प्रागेव सम्प्रसारणं क्रियते |


न सम्प्रसारणे सम्प्रसारणम्‌ (६.१.३७) = सम्प्रसारणे परे पूर्वं स्थितस्य सम्प्रसारणं न भवति | न अव्ययपदं, सम्प्रसारणे सप्तम्यन्तं, सम्प्रसारणं प्रथमान्तं, त्रिपदमिदं सूत्रम्‌ | सूत्रं सम्पूर्णं— न सम्प्रसारणे सम्प्रसारणम्‌ |


प्रश्नः उदेति यत्‌ ह्वे-धातोः एजन्तत्वात्‌ तस्य आदेच उपदेशेऽशिति (६.१.४५) इत्यनेन आत्त्वं भवति किम्‌ ? अवश्यं भवति— पर्जन्यवत्‌ भवति; तस्य फलं नास्ति इति कारणतः न प्रदर्श्यते | किन्तु भवति; आत्त्वस्य अनैमित्तकत्वात्‌ सम्प्रसारणात्‌ प्रागेव |


ह्वे → धातोरेकाचो हलादेः क्रियासमभिहारे यङ्‌ (३.१.२२) → ह्वे+ यङ्‌ → यङोऽचि च (२.४.७४) → ह्वे → आदेच उपदेशेऽशिति (६.१.४५) → ह्वा → अभ्यस्तस्य च (६.१.३३) इत्यनेन सम्प्रसारणम्‌ → हु आ → सम्प्रसारणाच्च (६.१.१०८) → हु → तदा एव द्वित्वम्‌

अभ्यासः अभ्यस्तम्‌ इति द्वे संज्ञे—


पूर्वोऽभ्यासः (६.१.४) = द्वित्वानन्तरं, यस्मिन्‌ द्विवारम्‌ उच्चारणं जातं तस्मिन्‌ प्रथमभागस्य नाम अभ्यासः | पूर्वः प्रथमान्तम्‌, अभ्यासः प्रथमान्तं, द्विपदमिदं सूत्रम्‌ | एकाचो द्वे प्रथमस्य (६.१.१) इत्यस्मात्‌ द्वे इत्यस्य अनुवृत्तिः | अनुवृत्ति-सहितसूत्रं— पूर्वः अभ्यासः द्वयोः |


उभे अभ्यस्तम् (६.१.५) = द्वित्वानन्तरं, द्वयोः समुदायः अभ्यस्तसंज्ञको भवति | उभे प्रथमान्तम्‌, अभ्यस्तं प्रथमान्तं, द्विपदमिदं सूत्रम्‌ | एकाचो द्वे प्रथमस्य (६.१.१) इत्यस्मात्‌ द्वे इत्यस्य अनुवृत्तिः | अनुवृत्ति-सहितसूत्रम्‌—उभे द्वे अभ्यस्तम् |


अभ्यासकार्यम्‌—


न लुमताङ्गस्य (१.१.६३) इत्यनेन यङ्‌-प्रत्यय-निमित्तम्‌ अङ्गकार्यं निषिद्धम्‌ | यथोक्तं, द्वित्वकार्यं प्रत्ययलक्षणेन भवति | अभ्यासकार्यं तु यङ्‌-प्रत्ययनिमित्तिकं नास्ति, तदर्थं यङः लुकि न काऽपि बाधा |


द्वित्वस्य अनन्तरं कानिचन कार्याणि भवन्ति अभ्यासे, तानि च 'अभ्यासकार्यम्‌ इत्युच्यते | यथा अभ्यासस्य ह्रस्वत्वम्‌, अल्पप्राणत्वं च भवति | अभ्यासकार्यस्य पुनः विभजनं भवति— सामान्याभ्यासकार्यं, विशेषाभ्यासकार्यं चेति |


सामान्याभ्यासकार्यं भवति यत्र यत्र द्वित्वं भवति— लिटि, सनि, यङि, श्लौ, चङि च | विशेषाभ्यासकार्यं भवति द्वित्व-सम्बद्ध-प्रत्ययम्‌ अधिकृत्य; यथा लिटि विशेषाभ्यासकार्यं, पुनः श्लौ पृथक्तया, पुनः सनि, यङि, चङि च | अत्र सामान्याभ्यासकार्याणि प्रदर्श्यन्ते | ततः अग्रे यथास्थानं यङ्लुक्‌-विशिष्टानि अभ्यासकार्यणि प्रदर्श्यन्ते |


अत्र सन्ति प्रमुख-सामान्याभ्यासकार्याणि—

हलादिः शेषः (७.४.६०)

शर्पूर्वाः खयः (७.४.६१)

ह्रस्वः (७.४.५९)

उरत् (७.४.६६)

कुहोश्चुः (७.४.६२)

अभ्यासे चर्च (८.४.५४)


हलादिः शेषः (७.४.६०) = अभ्यासस्य आदिमः* हल्‌ शेषः, अभ्यासे अपरेषां हलां लोपः | हल्‌ प्रथमान्तम्‌, आदिः प्रथमान्तं, शेषः प्रथमान्तं, त्रिपदमिदं सूत्रम्‌ | अत्र लोपोऽभ्यासस्य (७.४.५८) इत्यस्मात्‌ अभ्यासस्य इत्यस्य अनुवृत्तिः | अङ्गस्य (६.४.१) इत्यस्य अधिकारः | अनुवृत्ति-सहितसूत्रम्‌— (अङ्गस्य) अभ्यासस्य हलादिः शेषः‌ |


पठ्‌ → सन्यङोः (६.१.९) इत्यनेन यङन्तस्य धातोः प्रथमस्यैकाचो द्वे स्तः → पठ्‌ पठ्‌ → प्रथमः पठ्‌ इति भागः अभ्याससंज्ञकः → हलादिः शेषः (७.४.६०) इत्यनेन अभ्यासस्य आदिमः हल्‌ शेषः, अभ्यासे अपरेषां हलां लोपः → प पठ्‌ | तथैव ज्ञा → ज ज्ञा |

एवमेव विचारणीयम्‌— धन्‌, निज्‌, विष्‌, खाद्‌, धिष्‌, विज्‌, तुर्, भस्‌ |


*आदिमः इत्युक्तौ 'आदौ यः', न तु 'प्रथमः' | अतः अजादिधातोः द्वित्वं क्रियते चेत्‌, आदौ अच्‌-वर्णः न तु हल्‌-वर्णः इति कारणतः हलादिः शेषः (७.४.६०) इत्यनेन अभ्यासे सर्वेषां हल्‌-वर्णानां लोपो भवति | अट्‌ → अट्‌ अट्‌ → अ अट्‌ |


शर्पूर्वाः खयः (७.४.६१) = यस्य अभ्यासस्य पूर्वं शर् परञ्च खय्‌, तस्य तु खय्‌ एव शेषो भवति, अन्ये हलः च लुप्यन्ते | हलादिः शेषः (७.४.६०) इत्यस्य अपवादः अतः तस्य बाधकसूत्रम्‌ | शर् पूर्वो येषां ते शर्पूर्वाः | शर्पूर्वाः प्रथमान्तं, खयः प्रथमान्तं, द्विपदमिदं सूत्रम्‌ | हलादिः शेषः (७.४.६०) इत्यस्मात्‌ वचनपरिणामं कृत्वा शेषाः इत्यस्य अनुवृत्तिः | अत्र लोपोऽभ्यासस्य (७.४.५८) इत्यस्मात्‌ अभ्यासस्य इत्यस्य अनुवृत्तिः | अङ्गस्य (६.४.१) इत्यस्य अधिकारः | अनुवृत्ति-सहितसूत्रम्‌— (अङ्गस्य) अभ्यासस्य शर्पूर्वाः खयः शेषाः |


स्पर्ध्‌ → स्पर्ध्‌ स्पर्ध्‌ → प स्पर्ध्‌


एवमेव विचारणीयम्‌— स्पन्द्‌, स्पूर्ज्‌, स्तम्भ्‌, स्तुभ्‌, स्खल्‌, स्पश्‌, स्तिघ्‌, स्फुर् |


ह्रस्वः (७.४.५९) = अभ्यासस्य अच्‌-वर्णः ह्रस्वः स्यात्‌ | अचश्च (१.२.२८) इति परिभाषा-सूत्रेण यत्र कुत्रापि सूत्रेषु 'ह्रस्व', 'दीर्घ', 'प्लुत' इत्येते शब्दाः आयान्ति, तत्र 'अचः' इति शब्दः सूत्रार्थेऽपि आयाति | अतः 'ह्रस्वः' इत्युक्तौ 'ह्रस्वः अच्‌-वर्णः'; तथा सर्वत्र | ह्रस्वः प्रथमान्तम्‌, एकपदमिदं सूत्रम्‌ | अत्र लोपोऽभ्यासस्य (७.४.५८) इत्यस्मात्‌ अभ्यासस्य इत्यस्य अनुवृत्तिः | अङ्गस्य (६.४.१) इत्यस्य अधिकारः | अनुवृत्ति-सहितसूत्रम्‌— अङ्गस्य अभ्यासस्य अचः ह्रस्वः |


खा खाद्‌ → ख खाद्‌

नी नी → नि नी

लू लू → लु लू

से सेव्‌ → सि सेव्‌

गो गोष्ट्‌ → गु गोष्ट्‌

ढौ ढौक्‌ → ढु ढौक्‌


उरत् (७.४.६६) = अभ्यासस्य ऋवर्णस्य स्थाने अत्‌-आदेशः भवति | उः षष्ठ्यन्तम्‌, अत्‌ प्रथमान्तं, द्विपदमिदं सूत्रम्‌ | अत्र लोपोऽभ्यासस्य (७.४.५८) इत्यस्मात्‌ अभ्यासस्य इत्यस्य अनुवृत्तिः | अङ्गस्य (६.४.१) इत्यस्य अधिकारः | अनुवृत्ति-सहितसूत्रम्‌— अङ्गस्य अभ्यासस्य उः अत्‌ |


वृष्‌ → वृष्‌ वृष्‌ → वृ वृष्‌ → वर् वृष्‌ → व वृष्‌

कृष्‌ → कृष्‌ कृष्‌ → कृ कृष्‌ → कर् कृष्‌ → क कृष्‌ → च कृष्‌

हृष्‌ → हृष्‌ हृष्‌ → हृ हृष्‌ → हर् हृष्‌ → ह हृष्‌ → ज हृष्‌


ऋकारान्तधातवः—

भृ → भृ भृ → भर् भृ → भ भृ → ब भृ

हृ → हृ हृ → हर् हृ → ह हृ → ज हृ

कृ → कृ कृ → कर् कृ → क कृ → च कृ

तॄ → तॄ तॄ → तर् तॄ → त तॄ


धेयं यत्‌ यङ्लुकि न लुमताङ्गस्य (१.१.६३) इत्यनेन यङ्‌-निमित्तीकृत्य अङ्गकार्यनिषेधत्वात्‌ रीङ्‌ ऋतः (७.४.२७) इत्यनेन धातोः ॠकारस्य (ॠतः) रीङ्‌ इति आदेशो न भवति |


रीङ्‌ ऋतः (७.४.२७) = ऋदन्ताङ्गस्य रीङादेशो भवति अकृतः यकारे परे, असार्वधातुकयकारे परे, च्वि-प्रत्यये च परे | रीङ्‌-आदेशस्य ङित्त्वात्‌ ङिच्च इति सूत्रेण अङ्गस्य अन्त्यऋकारस्य एव स्थाने भवति |


कुहोश्चुः (७.४.६२) = अभ्यासे कवर्गीयस्य हकारस्य च स्थाने चवर्गीयादेशो भवति | तत्र स्थानेऽन्तरतमः (१.१.५०) इति परिभाषा-सूत्रेण, उच्चारणस्थानसाम्यवशात्‌ हकारस्य स्थाने झकारः, तदा अभ्यासे चर्च (८.४.५४) इत्यनेन झ-स्थाने जकारः | कुश्च ह्‌ च तयोरितरेतरद्वन्द्वः कुहौ, तयोः कुहोः | कुहोः षष्ठ्यन्तं, चुः प्रथमान्तं, द्विपदमिदं सूत्रम्‌ | अत्र लोपोऽभ्यासस्य (७.४.५८) इत्यस्मात्‌ अभ्यासस्य इत्यस्य अनुवृत्तिः | अङ्गस्य (६.४.१) इत्यस्य अधिकारः | अनुवृत्ति-सहितसूत्रम्‌— अङ्गस्य अभ्यासस्य कुहोः चुः |


स्थानेऽन्तरतमः (१.१.५०) = प्रसङ्गम्‌ अवलम्ब्य तुल्यतमः आदेशो भवति | स्थाने सप्तम्यन्तम्‌, अन्तरतमः प्रथमान्तं, द्विपदमिदं सूत्रम्‌ |


कृ → कृ कृ → कर् कृ → क कृ → च कृ

खन्‌ → खन्‌ खन्‌ → ख खन्‌ → छ खन्‌ → च खन्‌

गम्‌ → गम्‌ गम्‌ → ग गम्‌ → ज गम्‌

ग्रह्‌ → ग्रह्‌ ग्रह्‌ → ग ग्रह्‌ → ज ग्रह्‌

घृ → घृ घृ → घर् घृ → झ घृ → ज घृ

हृ → हृ हृ → हर् हृ → ह हृ → ज हृ

हस्‌ → हस्‌ हस्‌ → ह हस्‌ → झ हस्‌ → ज हस्‌


अभ्यासे चर्च (८.४.५४)* = अभ्यासे झल्‌-स्थाने जश्‌ चर् च आदेशौ भवतः | तत्र स्थानेऽन्तरतमः (१.१.५०) इति परिभाषा-सूत्रेण, उच्चारणस्थानसाम्यवशात्‌ झश्‌-स्थाने जश्‌ अपि च खय्‌-स्थाने चर् | अनुवृत्त्यर्थम्‌ अष्टमाध्याये |अभ्यासे सप्तम्यन्तं, चर् प्रथमान्तं, च अव्ययपदं, त्रिपदमिदं सूत्रम्‌ | झलां जश्‌ झशि (८.४.५३) इत्यस्मात्‌ झलां, जश् इत्यनयोः अनुवृत्तिः | तयोर्यवावचि संहितायाम्‌ (८.२.१०८) इत्यस्मात्‌‍ संहितायाम्‌ इत्यस्य अधिकारः | अनुवृत्ति-सहितसूत्रम्‌—अभ्यासे झलां जश्‌ च‍र् च संहितायाम्‌ |


चर्त्वम्‌

थु थुड्‌ → तु थुड्‌

फ फल्‌ → प फल्‌

छु छुप्‌ → चु छुप्‌


जश्त्वम्‌

भु भू → बु भू

ढु ढौक्‌ → डु ढौक्‌

झ झर्झ्‌ → ज झर्झ्‌


धेयं यत्‌ अभ्यासे वर्गस्थप्रथमसदस्यः, तृतीयसदस्यः, पञ्चमसदस्यः, यण्‌-प्रत्याहारस्थः चेति वर्णानां विकारो न भवति | अतः एषां नाम 'अनादेश-अभ्यासः' इति उच्यन्ते |

चल्‌ → च चल्‌

जप्‌ → ज जप्‌

टीक्‌ → टि टीक्‌

डी → डि डी

तॄ → त तॄ

दल्‌ → द दल्‌

नम्‌ → न नम्‌

पत्‌ → प पत्‌

बाध्‌ → ब बाध्‌

मील्‌ → मि मील्‌

यम्‌ → य यम्‌

वृध्‌ → व वृध्‌


*प्रश्नः उदेति यत्‌ अभ्यासे चर्च (८.४.५४) तु अङ्गस्य (६.४.१) इत्यस्य अधिकारे नास्ति; तर्हि अङ्गकार्यम्‌ अस्ति किम्‌ ? अभ्यासस्य निमित्तं प्रत्ययः; प्रत्यये परे एव द्वित्वं भवति | अतः कस्यापि अभ्यासकार्यस्य निमित्तं तु प्रत्ययः अवश्यम्‌ | तथा सति अङ्गकार्यमेव |


अधुना अभ्यासे चर्च (८.४.५४) अष्टमाध्यायस्य चतुर्थे पादे स्थापितम्‌ अतः अङ्गकार्यं न स्यात्‌ इति भासेत | अष्टमाध्यायस्य चतुर्थे पादे वर्णनिमित्तकार्यं जायमानं किन्तु अभ्यासे चर्च (८.४.५४) तु वर्णनिमित्तकं नास्ति | साधारणतया अष्टमाध्यायस्य चतुर्थे पादे किमपि सूत्रं स्थापितं चेत् तस्य तत्र स्थापनस्य विशिष्टकारणम्‌ अस्ति असिद्धत्वम्‌; असिद्धत्वम्‌ अपेक्षते, तदर्थं तत्र स्थापितम्‌ | किन्तु अभ्यासे चर्च (८.४.५४) असिद्धमपि न भवति कदाचित्‌ | त्रिपाद्यां पूर्वसूत्रं प्रति परसूत्रम्‌ असिद्धम्‌ | किन्तु अभ्यासे चर्च (८.४.५४) इत्यस्य सम्बन्धः एव नास्ति अपरत्रिपादिसूत्रैः सह अतः तानि सूत्राणि प्रति असिद्धत्वस्य अवसर एव नास्ति | वस्तुतस्तु अभ्यासे चर्च (८.४.५४) केवलम्‌ अनुवृत्तिवशात्‌ उक्तस्थाने अस्ति | झलां जश्झशि (८.४.५३) इत्यस्मात्‌ जश्‌ इति अनुवर्तते प्रकृतसूत्रे | अपि च अभ्यासे चर्च (८.४.५४) इति सूत्रात्‌ चर् इत्यस्य अनुवृत्तिः भवति खरि च (८.४.५५) इति सूत्रे | अत्र फलितार्थः अस्ति यत्‌ अभ्यासे चर्च (८.४.५४) अङ्गकार्यमेव यद्यपि अङ्गस्य (६.४.१) इत्यस्य अधिकारे नास्ति |


लिट्यभ्यासस्योभयेषाम्‌ (६.१.१७) इति सूत्रं षष्ठ्याध्याये स्थपितम्‌ अस्ति सम्प्रसारणम्‌ इत्यस्य अनुवृत्ति-कृते | वच्यादीनां ग्रह्यादीनां चाभ्यासस्य सम्प्रसारणं लिटि इति सूत्रार्थः | किन्तु वस्तुतस्तु इदम्‌ अभ्यासकार्यमेव, अतः कार्यदृष्ट्या सप्तमाध्यायस्य चतुर्थपादे अभविष्यत्‌ |


अभ्यासस्यासवर्णे (६.४.७८) इति सूत्रं षष्ठ्याध्याये स्थपितम्‌ अस्ति इयङ्‌-उवङ्‌ इत्यनयोः अनुवृत्ति-कृते | अभ्यासस्य इवर्णोवर्णयोरियङुवङौ स्तोऽसवर्णेऽचि इति सूत्रार्थः | किन्तु वस्तुतस्तु इदम्‌ अभ्यासकार्यमेव, अतः कार्यदृष्ट्या सप्तमाध्यायस्य चतुर्थपादे अभविष्यत्‌ |


इमानि त्रीणि सूत्राणि—अभ्यासे चर्च (८.४.५४), लिट्यभ्यासस्योभयेषाम्‌ (६.१.१७), अभ्यासस्यासवर्णे (६.४.७८)—अभ्यासकार्याणि अतः सप्तमाध्यायस्य चतुर्थे पादे भवन्ति स्म परन्तु अनुवृत्त्यर्थम्‌ अन्यत्र स्थापितानि | यत्‌ किमपि सूत्रं स्वस्य प्रकरणात्‌ बहिः स्थाप्यते, तस्य कारणम्‌ अनुवृत्तिः हि | अनुवृत्तिवशात्‌, लाघवार्थं स्थानान्तरे भवति |


इति यङ्लुकि सामान्यम्‌ अभ्यासकार्यं समाप्तम्‌ | विशिष्टाभ्यासकार्यं यथास्थानम्‌ अग्रे पदर्श्यते |


अधुना यत्‌ ज्ञानम्‌ अपेक्षितं, यानि यन्त्राणि अपेक्षितानि, तत्‌ तानि च सर्वम्‌ गृहीतम्‌ | अग्रे सर्वान्‌ औपदेशिकधातून्‌ वर्गीकृत्य यङ्लुगन्तधातून्‌ निर्मामः | सर्वत्र च क्रमः अयम्— यङ्‌-प्रत्ययविधानं, धातुसंज्ञा, यङ्‌-प्रत्ययस्य लुक्‌, द्वित्वम्‌, अभ्यासकार्यञ्च | यङः लुगनन्तरं, यङ्‌ निमित्तीकृत्य अङ्गकार्यं निषिद्धं न लुमताऽङ्गस्य (१.१.६३) इति सूत्रेण |


आकारान्तधातूनाम्‌ एजन्तधातूनां च यङ्लुगन्तधातुः


यङ्लुकि अङ्गकार्यविशेषः—


न लुमताऽङ्गस्य (१.१.६३) इत्यनेन यङ्‌-प्रत्यय-निमित्तम्‌ अङ्गकार्यं निषिद्धम्‌ | आदेच उपदेशेऽशिति (६.१.४५) इत्यनेन एजन्तस्य धातोरात्त्वं परन्तु भवति; अस्य सूत्रस्य अर्थो नास्ति यत्‌ एजन्तस्य धातोरात्त्वं भवति अशिति प्रत्यये परे | 'अशिति प्रत्यये परे' इति उच्यते चेत्‌, यङ्लुकि अस्य कार्यं न भविष्यति | यतोहि यङ्लुकि अशित्‌ प्रत्ययो नास्तेव | प्रत्ययस्य लुकि सति प्रत्ययः एव नास्ति | अतः सूत्रस्य अर्थः एवं यत्‌ एजन्तधातोः आत्त्वादेशो भवति; शिति प्रत्यये परे न भवति | अनेन यङ्लुकि अपि आत्त्वादेशो भवति |


आदेच उपदेशेऽशिति (६.१.४५) = उपदेशे एजन्तस्य धातोरात्त्वं न तु शिति | येन विधिस्तदन्तस्य (१.१.७२) इत्यनेन तदन्तविधिः; अलोन्त्यस्य (१.१.५२) इत्यनेन अन्त्यस्य अलः स्थाने | एच्‌ इत्यनेन 'ए, ऐ, ओ, औ' | श्‌ इत्‌ यस्य स शित्‌, न शित्‌ अशित्‌, तस्मिन्‌ (विषये) अशिति, नञ्तत्पुरुषः | आत्‌ प्रथमान्तम्‌, एचः षष्ठ्यन्तम्‌, उपदेशे सप्तम्यन्तम्‌, अशिति सप्तम्यन्तम्‌, अनेकपदमिदं सूत्रम्‌ | लिटि धातोरनभ्यासस्य (६.१.८) इत्यस्मात्‌ धातोः इत्यस्य अनुवृत्तिः | अनुवृत्ति-सहितसूत्रम्‌— एचः धातोः आत्‌ उपदेशे अशिति |


यथा—

ग्लै → ग्ला, म्लै → म्ला, ध्यै → ध्या, शो → शा, सो → सा, वे → वा, छो → छा, धे → धा |


अत्र प्रश्नः उदेति यत्‌ प्रक्रियाक्रमः कः— आदेच उपदेशेऽशिति (६.१.४५) इत्यनेन आत्त्वं सर्वप्रथमं भवति वा, तदा एव धातोरेकाचो हलादेः क्रियासमभिहारे यङ्‌ (३.१.२२) इत्यनेन यङ्‌-विधानम्‌ ? अथवा धातोरेकाचो हलादेः क्रियासमभिहारे यङ्‌ (३.१.२२), तदा यङोऽचि च (२.४.७४) इति सूत्रेण यङ्‌-प्रत्ययस्य लुक्‌, तदा एव आदेच उपदेशेऽशिति (६.१.४५) ? अत्र सरलरीत्या चिन्तयितुं शक्नुमः यत्‌ आदेच उपदेशेऽशिति (६.१.४५) इत्यनेन उपदेशावस्थायां कार्यं भवति, नाम धातुः औपदेशिकः स्यात्‌, अतः आरम्भे एव आत्त्वं भवतु | नो चेत्‌ यङ्‌ यदा हि विधीयते, तदा हि आतिदेशिकधातोः धातुसंज्ञा भवति | तस्य निवारणार्थं सर्वप्रथमम्‌ आदेच उपदेशेऽशिति (६.१.४५) | इति अस्माकं तादृशचिन्तनं स्यात्‌ |


किन्तु एतादृशं कुर्मः चेत्‌, समस्या भवति | अपि च आदेच उपदेशेऽशिति (६.१.४५) इति स्वयम्‌ अनैमित्तकम्‌, अतः कदाचिदपि भवितुम्‌ अर्हति | यथा जानीमः, ‘अशित्‌-प्रत्यये परे' इति तु नास्ति; अपि तु 'शित्‌-प्रत्यये परे न' इत्येव | अधुना समस्या का इति चेत्‌, सर्वप्रथमम्‌ आदेच उपदेशेऽशिति (६.१.४५) भवति चेत्‌, प्रक्रिया कथं स्यात्‌ लटि | यथा भ्वादौ ध्यै + लट्‌ → लट्‌-प्रत्ययः शित्‌ न अतः आदेच उपदेशेऽशिति (६.१.४५) इत्यनेन आत्त्वम्‌ → ध्या + लट्‌ → ध्या + तिप्‌ → ध्या + शप् + तिप्‌ → अधुना आत्त्वं वर्तते, शप्‌-प्रत्ययः च परः → पुनः 'ध्यै' इति रूपं कुर्मः वा ? एतादृशं विधानं न भवति केनचिदपि सूत्रेण | आदेच उपदेशेऽशिति (६.१.४५) इत्यस्य फलितः अर्थः अस्ति यत्‌ प्रक्रियायां कुत्रचिदपि शप्‌-प्रत्ययः नास्ति चेत्‌, एजन्तधातोः आत्त्वं भवति | अनेन बुध्यते यत्‌ आदेच उपदेशेऽशिति (६.१.४५) इति सूत्रं स्वयं ज्ञापयति यत्‌ प्रथमतया ये ये प्रत्ययाः विधीयन्ते, एते सर्वे आनेतव्याः; सर्वेषां विधानानन्तरं, एषु विहितप्रत्ययेषु एकोऽपि शित्‌ नास्ति चेत्‌, एजन्तधातोः आत्त्वं भवति | प्रक्रियारम्भे आत्त्वं कुर्मः चेत्‌, सार्वधातुकप्रक्रिया नष्टा भवति | अस्य निवारणार्थं प्रत्ययाः विधेयाः, तदा आत्त्वम्‌ | अतः अत्र सर्वप्रथमं धातोरेकाचो हलादेः क्रियासमभिहारे यङ्‌ (३.१.२२), तदा यङोऽचि च (२.४.७४), तदा एव आदेच उपदेशेऽशिति (६.१.४५) |


अन्यच्च आरम्भे एव आदेच उपदेशेऽशिति (६.१.४५) भवतु इत्यस्माभिः चिन्तितं येन धातुः औपदेशिकः स्यात्‌, नाम उपदेशावस्थायां स्यात्‌ | अत्रोच्यते यत्‌ आतिदेशिकधातोः विधानानन्तरमपि अन्तर्निहितः औपदेशिकधातुसंज्ञा अपि वर्तते | यथा ध्यै + यङ्‌ → ध्यैय → द्वित्वाभ्यासकार्यात्‌ पूर्वमपि आतिदेशिकधातुसंज्ञा भवति 'ध्यैय’ इति रूपस्य; तत्र च अन्तर्निहित 'ध्यै' इत्यस्य तदानीमपि औपदेशिकधातुसंज्ञा वर्तते |


तदा सन्यङोः (६.१.९) इत्यनेन द्वित्वकार्यम्‌, अनन्तरम्‌ अभ्यासकारम् |

यथा—

धा → धा धा → ह्रस्वः (७.४.५९) इत्यनेन ह्रस्वादेशः → ध धा → अभ्यासे चर्च (८.४.५४) इत्यनेन चर्त्वम्‌ → द धा | अत्र यङि यङ्लुकि च एकं विशिष्टाभ्यास्यकार्यम्‌— दीर्घोऽकितः (७.४.८३) इत्यनेन अकित्‌-अभ्यासस्य दीर्घादेशो भवति यङि यङ्लुकि च—


दे → दा → दा दा → द दा → दादा इति यङ्लुगन्तधातुः

व्ये → व्या → व्या व्या → व व्या → वाव्या इति यङ्लुगन्तधातुः

एवमेव—

ध्यै → ध्या → ध्या ध्या → द ध्या → दाध्या

ग्लै → ग्ला → ग्ला ग्ला → ज ग्ला → जाग्ला

म्लै → म्ला → म्ला म्ला → म म्ला → माम्ला

मा → मा मा → म मा → मामा

घ्रा → घ्रा घ्रा → ज घ्रा → जाघ्रा


दीर्घोऽकितः (७.४.८३) = अकित्‌-अभ्यासस्य दीर्घादेशो भवति यङि यङ्लुकि च | न कित् यस्य स अकित्‌, तस्य | 'अकित्‌-अभ्यासः' इत्युक्ते तादृशः अभ्यासः यस्य कित्‌ आगमो न भवति | दीर्घः प्रथमान्तम्‌, अकितः षष्ठ्यन्तं, द्विपदमिदं सूत्रम्‌ | अत्र लोपोऽभ्यासस्य (७.४.५८) इत्यस्मात्‌ अभ्यासस्य इत्यस्य अनुवृत्तिः | गुणो यङ्लुकोः (७.४.८२) इत्यस्मात्‌ यङ्लुकोः इत्यस्य अनुवृत्तिः | अङ्गस्य (६.४.१) इत्यस्य अधिकारः | अनुवृत्ति-सहितसूत्रम्‌— अङ्गस्य अकितः अभ्यासस्य दीर्घः यङ्लुकोः |


इकारान्तानाम्‌ ईकारान्तानां च धातूनां यङ्लुगन्तधातुः


गुणो यङ्लुकोः (७.४.८२) = अभ्यासस्य गुणो भवति यङि यङ्लुकि च | यङ्‌ च लुक्‌ च यङ्लुकौ इतरेतरद्वन्द्वः, तयोः यङ्लुकोः | गुणः प्रथमान्तं, यङ्लुकोः सप्तम्यन्तं, द्विपदमिदं सूत्रम्‌ | अत्र लोपोऽभ्यासस्य (७.४.५८) इत्यस्मात्‌ अभ्यासस्य इत्यस्य अनुवृत्तिः | अङ्गस्य (६.४.१) इत्यस्य अधिकारः | अनुवृत्ति-सहितसूत्रम्‌— अङ्गस्य अभ्यासस्य गुणः यङ्लुकोः |


जि → जि जि → गुणो यङ्लुकोः (७.४.८२) → जेजि इति यङ्लुगन्तधातुः

एवमेव—

चि → चि चि → चेचि

नी → नि नी → नेनी

क्री → चि क्री → चेक्री

शी → शि शी → शेशी

श्वि → शि श्वि → शेश्वि


अत्र प्रश्नः उदेति यत् जि → जि जि इति स्थितौ न केवलं गुणो यङ्लुकोः (७.४.८२) अपि तु दीर्घोऽकितः (७.४.८३) इत्यस्यापि प्रसक्तिरस्ति किल | अनयोः सूत्रयोः कः सम्बन्धः | अत्र बाध्यबाधकभावः कीदृशः ? पूर्वपरनित्यान्तरङ्गापवादानामुत्तरोत्तरं बलीयः (परिभाषा ३८) इत्यनेन अनयोः कीदृशसम्बन्धः— पूर्वपरत्वम्‌ इति वा, अपवादः इति वा ? अत्र अन्या परिभाषा परिशीलनीया— अभ्यासविकारेषु बाध्यबाधकभावो नास्ति (परिभाषा ६७) | अस्य बोधनेन सम्बन्धः स्पष्टो भवति |


उकारान्तानाम्‌ ऊकारान्तानां च धातूनां यङ्लुगन्तधातुः


अत्रापि गुणो यङ्लुकोः (७.४.८२) इत्यनेन अभ्यासस्य गुणो भवति यङि यङ्लुकि च |


हु → हु हु → जु हु → जोहु इति यङ्लुगन्तधातुः


एवमेव—

भू → भू भू → बु भू → बोभू


ऋकारान्तधातूनां यङ्लुगन्तधातुः


ऋतश्च (७.४.९२) = ऋकारान्तधातोः अभ्यासस्य रुक्‌, रिक्‌, रीक्‌ इति त्रयः आगमाः भवन्ति यङ्लुकि परे | ऋतः षष्ठ्यन्तं, चाव्ययं, द्विपदमिदं सूत्रम्‌ | च-शब्देन रुग्रिकौ च लुकि (७.४.९१) इत्यस्मिन्‌ अनुवृत्त-अभ्यासस्य, यङ्‌ इत्यनयोः अत्रापि अनुवृत्तिः; तेन सह रुग्रिकौ च लुकि (७.४.९१) इत्यस्य अपि स्वयं सम्पूर्णरीत्या अनुवृत्तिः | रीगृदुपधस्य च (७.४.९०) इत्यस्मात् रीक् इत्यस्य अनुवृत्तिः  | अङ्गस्य (६.४.१) इत्यस्य अधिकारः | अनुवृत्ति-सहितसूत्रम्‌— ऋतश्च अङ्गस्य अभ्यासस्य रुक्‌-रिकौ रीक् च यङ्‌-लुकि |


अनेन सूत्रेण रीक्‌ → री, रिक्‌ → रि, रुक्‌ → र् इत्येषां त्रयाणाम्‌ आगमानां विधानं भवति सर्वेभ्यः यथा—


कृ → कृ कृ → चकृ → चरीकृ, चरिकृ, चर्कृ इति यङ्लुगन्तधातवः

भृ → भृ भृ → बभृ → बरीभृ, बरिभृ, बर्भृ

हृ → हृ हृ → जहृ → जरीहृ, जरिहृ जर्हृ


ॠकारान्तधातूनां यङ्लुगन्तधातुः


तॄ → तॄ तॄ → तर् तॄ → ततॄ → दीर्घोऽकितः (७.४.८३) इत्यनेन अकित्‌-अभ्यासस्य दीर्घादेशो भवति यङ्लुकि → तातॄ इति यङ्लुगन्तधातुः


एवमेव—

वॄ →

जॄ →

शॄ →

भॄ →

दॄ →

पॄ →


गॄ-धातुः शब्दे इत्यस्य अनभिधानस्य (लोके अप्रयुज्यमानस्य) कारणेन यङ्‌-प्रत्ययो न भवति, तदर्थञ्च यङ्लुगन्तरूपमपि न भवति | [धातुपाठे द्वौ गॄ-धातू स्तः | तुदादिगणे गॄ निगरणे, लटि गिरति | क्र्यादिगणे गॄ शब्दे, लटि गृणति | गॄ शब्दे इत्यस्य अनभिधानस्य (लोके अप्रयुज्यमानस्य) कारणेन यङ्‌-प्रत्ययो न भवति | काशिकायां दीयते यत्‌ "केचिद्‌ ग्र इति गिरतेर्गृणातेश्च सामान्येन ग्रहणमिच्छन्ति | अपरे तु गिरतेरेव, न गृणातेः | गृणातेर्हि यङेव नास्ति, अनभिधानादिति | यङीति किम्‌ ? निगीर्यते |”]


अत्र प्रश्नः उदेति यत्‌ किमर्थं ॠत इद्धातोः (७.१.१००) इत्यनेन ऋदन्तस्य धातोः अङ्गस्य ह्रस्व-इकारादेशः न स्यात्‌ ? तातॄ → ॠत इद्धातोः (७.१.१००) → ताति → उरण्‌ रपरः (१.१.५१) → तातिर् इति किमर्थं न स्यात्‌ ? यद्यपि अङ्गकार्यमस्ति, यङ्लुक् अथवा अन्यं प्रत्ययं निमितीकृत्य नास्ति किल ? किन्तु तथापि अङ्गकार्यम्‌ इति तु अस्ति | अत्र यङः लुक्‌ जातम्‌ इति कारणतः न लुमताऽङ्गस्य (१.१.६३) इत्यनेन इदं कार्यं निषिद्धम्‌ |


अदुपधधातूनां यङ्लुगन्तधातुः


१. सामान्यम्‌—

द्वित्वाभ्यास्यकार्यं कृत्वा अभ्यासस्य अन्त्यस्य अवर्णस्य दीर्घत्वं भवति दीर्घोऽकितः (७.४.८३) इति सूत्रेण—

गल्‌ → गल्‌ गल्‌ → ग गल्‌ → ज गल्‌ → जागल्‌ इति यङ्लुगन्तधातुः

एवमेव—

पच्‌ → पच्‌ पच्‌ → प पच्‌ → पापच्‌

वद्‌ → वद्‌ वद्‌ → व वद्‌ → वावद्‌

गद्‌ → गद्‌ गद्‌ → ज गद्‌ → जागद्‌

पठ्‌ → पठ्‌ पठ्‌ → प पठ्‌ → पापठ्‌

लष्‌ →

लप्‌ →

विशेषाः—


२. कस्‌ ,पत्‌, पद्‌ इति त्रयाणां धातूनां यङ्लुगन्तधातुः


नीग्वञ्चुस्रंसुध्वंसुभ्रंसुकसपतपदस्कन्दाम्‌ (७.४.८४) = वञ्च्‌, स्रंस्‌, ध्वंस्‌, भ्रंस्‌, कस्‌, पत्‌, पद्‌, स्कन्द्‌ इत्येषां धातूनाम्‌ अभ्यासस्य नीक्‌-आगमो भवति यङि यङ्लुकि च | वञ्चुश्च स्रंसुश्च ध्वंसुश्च भ्रंसुश्च कसश्च पतश्च पदश्च स्कन्द च तेषामितरेतरद्वन्द्वः वञ्चुस्रंसुध्वंसुभ्रंसुकसपतपदस्कन्दः, तेषाम्‌ | नीक्‌ प्रथमान्तं, वञ्चुस्रंसुध्वंसुभ्रंसुकसपतपदस्कन्दां षष्ठ्यन्तं, द्विपदमिदं सूत्रम्‌ | अत्र लोपोऽभ्यासस्य (७.४.५८) इत्यस्मात्‌ अभ्यासस्य इत्यस्य अनुवृत्तिः | गुणो यङ्लुकोः (७.४.८२) इत्यस्मात्‌ यङ्लुकोः इत्यस्य अनुवृत्तिः | अङ्गस्य (६.४.१) इत्यस्य अधिकारः | अनुवृत्ति-सहितसूत्रं— वञ्चुस्रंसुध्वंसुभ्रंसुकसपतपदस्कन्दाम्‌ अङ्गस्य अभ्यासस्य नीक्‌ यङ्लुकोः |


कस्‌ → कस्‌ कस्‌ → क कस्‌ → च कस्‌ → चनीकस्‌ इति यङ्लुगन्तधातुः


एवमेव—

पत्‌ → पत्‌ पत्‌ → प पत्‌ → पनीपत्‌

पद्‌ → पद्‌ पद्‌ → प पद्‌ → पनीपद्‌


वञ्च्‌, स्रंस्‌, ध्वंस्‌, भ्रंस्‌, स्कन्द्‌ चेति धातवः अनिदित्‌-धातूनां स्थाले वक्ष्यमाणाः |


अत्र प्रश्नः उदेति—

कस्‌ → कस्‌ कस्‌ → क कस्‌ → च कस्‌ → चनीकस्‌ इति स्थितौ यदि 'चनी’ इति अभ्यासः अस्ति, तर्हि किमर्थं गुणो यङ्लुकोः (७.४.८२) इत्यनेन गुणः भूत्वा 'चनेकस्' इति न स्यात्‌? उत्तरत्वेन विधानस्य सामर्थ्यात्‌ गुणो न भवति | इष्टः यङ्लुगन्तधातुः यदि 'चनेकस्' इति अभविष्यत्‌, तर्हि पाणिनिः साक्षात्‌ 'नेक्‌' इति आगमम्‌ अकरिष्यत्‌ | आगमः यदा कोऽपि भवितुम्‌ अर्हति, तदा पाणिनिः साक्षात्‌ नेक्‌ इति आगमं व्यधास्यत्‌ | एतादृशात् स्वातन्त्र्यात्‌ आगमस्य सामर्थ्यं वर्तते | अनेन सामर्थ्येन नीक्‌ इत्युक्तं चेत्‌, नीक्‌ इत्येव इष्टम्‌ | अस्मिन्‌ सामर्थ्ये लाघवमपि अस्ति |



३. जप्‌, जभ्‌, दह्‌, पश्‌ इति चत्वार्णां धातूनां यङ्लुगन्तधातुः


जपजभदहदशभञ्जपशां च (७.४.८६) = जप्‌, जभ्‌, दह्‌, दश्‌, भञ्ज्‌, पश्‌ इत्येषां धातूनाम्‌ अभ्यासस्य नुक्‌-आगमो भवति यङि यङ्लुकि च | नुक्‌ इत्यस्मिन्‌ ककारः इत्संज्ञकः, उकारश्च उच्चारणार्थः; नुक्‌ अनुस्वारस्य उपलक्षणम्‌ | जपश्च जभश्च दहश्च दशश्च भञ्जश्च पशश्च च तेषामितरेतरद्वन्द्वः जपजभदहदशभञ्जपशः, तेषाम्‌ | जपजभदहदशभञ्जपशां षष्ठ्यन्तं, चाव्ययं, द्विपदमिदं सूत्रम्‌ | अत्र लोपोऽभ्यासस्य (७.४.५८) इत्यस्मात्‌ अभ्यासस्य इत्यस्य अनुवृत्तिः | गुणो यङ्लुकोः (७.४.८२) इत्यस्मात्‌ यङ्लुकोः इत्यस्य अनुवृत्तिः | नुगतोऽनुनासिकान्तस्य (७.४.८५) इत्यस्मात्‌ नुक्‌ इत्यस्य अनुवृत्तिः | अङ्गस्य (६.४.१) इत्यस्य अधिकारः | अनुवृत्ति-सहितसूत्रं— जपजभदहदशभञ्जपशां च अङ्गस्य अभ्यासस्य नुक्‌ यङ्लुकोः |


जप्‌ → जप्‌ जप्‌ → ज जप्‌ → जं जप्‌ → जञ्जप्‌

जभ्‌ → जभ्‌ जभ्‌ → ज जभ्‌ → जं जभ्‌ → जञ्जभ्‌

दह्‌ → दह्‌ दह्‌ → द दह्‌ → दं दह्‌ → दन्दह्‌

पश्‌ → पश्‌ पश्‌ → प पश्‌ → पं पश्‌ → पम्पश्‌


दंश्‌-धातुः भञ्ज्‌-धातुः चेति द्वौ धातू अनिदित्‌-धातूनां स्थाले वक्ष्यमाणौ |


४. चर्, फल्‌ इति द्वयोः धात्वोः यङ्लुगन्तधातुः


चरफलोश्च (७.४.८७) = चर्, फल्‌, इत्यनयोः धात्वोः अभ्यासस्य नुक्‌-आगमो भवति यङि यङ्लुकि च | इदं सूत्रं पृथक्तया उक्तं येन अग्रे केवलं चर्, फल्‌, इत्यनयोः उत्परस्यातः (७.४.८८) इत्यनेन अभ्यासोत्तर-अतः उत्त्वं स्यात्‌ | चरश्च फल्‌ च तोरितरेतरद्वन्द्वः चरफलौ, तयोः चरफलोः | चरफलोः षष्ठ्यन्तं, चाव्ययं, द्विपदमिदं सूत्रम्‌ | अत्र लोपोऽभ्यासस्य (७.४.५८) इत्यस्मात्‌ अभ्यासस्य इत्यस्य अनुवृत्तिः | गुणो यङ्लुकोः (७.४.८२) इत्यस्मात्‌ यङ्लुकोः इत्यस्य अनुवृत्तिः | नुगतोऽनुनासिकान्तस्य (७.४.८५) इत्यस्मात्‌ नुक्‌ इत्यस्य अनुवृत्तिः | अङ्गस्य (६.४.१) इत्यस्य अधिकारः | अनुवृत्ति-सहितसूत्रं— चरफलोः च अङ्गस्य अभ्यासस्य नुक्‌ यङ्लुकोः |


उत्परस्यातः (७.४.८८) = चर्, फल्‌, इत्यनयोः धात्वोः अभ्यासात्‌ परस्य ह्रस्व-अकारस्य स्थाने उत्‌ आदेशो भवति यङि यङ्लुकि च | उत्‌ प्रथमान्तं, परस्य षष्ठ्यन्तम्‌, अतः षष्ठ्यन्तं, त्रपदमिदं सूत्रम्‌ | अत्र लोपोऽभ्यासस्य (७.४.५८) इत्यस्मात्‌ अभ्यासस्य इत्यस्य विभक्तिपरिणामं कृत्वा अभ्यासात्‌ इति अनुवृत्तिः | चरफलोश्च (७.४.८७) इत्यस्मात्‌ चरफलोः इत्यस्य अनुवृत्तिः | गुणो यङ्लुकोः (७.४.८२) इत्यस्मात्‌ यङ्लुकोः इत्यस्य अनुवृत्तिः | अङ्गस्य (६.४.१) इत्यस्य अधिकारः | अनुवृत्ति-सहितसूत्रं— चरफलोः च अङ्गस्य अभ्यासात्‌ परस्य अतः उत्‌ यङ्लुकोः |


चर् → चर् चर् → च चर् → चञ्चर्→ चञ्चुर् ति यङ्लुगन्तधातुः

फल् → फल् फल् → प फल् → पम्फल्‌ → पम्फुल्‌ इति यङ्लुगन्तधातुः



५. अनुनासिकान्त-अदुपध-धातूनां यङ्लुगन्तधातुः


नुगतोऽनुनासिकान्तस्य (७.४.८५) = अनुनासिकान्ताङ्गस्य अदन्त-अभ्यासस्य नुक्‌-आगमो भवति यङि यङ्लुकि च | नुक्‌ अनुस्वारस्य उपलक्षणम्‌ | धातोः अभ्यासस्य अन्ते अत्‌ चेत्‌, धातोः अन्ते अनुनासिकहल्‌-वर्णः (ञ्‌, म्‌, ङ्‌, ण्‌, न्‌) चेत्‌ इदं कार्यं प्रवर्तते | नुक्‌-आगमः कित्‌ | ककारः इत्‌-संज्ञकः, उकारः उच्चारणार्थः | अनुनासिकः अन्ते यस्य तत्‌ अनुनासिकान्तं, तस्य | नुक्‌ प्रथमान्तं, अतः षष्ठ्यन्तम्‌, अनुनासिकान्तस्य षष्ठ्यन्तं, त्रिपदमिदं सूत्रम्‌ | अत्र लोपोऽभ्यासस्य (७.४.५८) इत्यस्मात्‌ अभ्यासस्य इत्यस्य अनुवृत्तिः | गुणो यङ्लुकोः (७.४.८२) इत्यस्मात्‌ यङ्लुकोः इत्यस्य अनुवृत्तिः | अङ्गस्य (६.४.१) इत्यस्य अधिकारः | अनुवृत्ति-सहितसूत्रं— अनुनासिकान्तस्य अङ्गस्य अतः अभ्यासस्य नुक्‌ यङ्लुकोः |


कण्‌* → कण्‌ कण्‌ → क कण्‌ → च कण्‌ → चंकण्‌ → चङ्कण्‌ इति यङ्लुगन्तधातुः

रन्‌** →

गम्‌ → जंगम्‌ / जङ्गम्‌***

यम्‌ → यंयम्‌ / यँय्यम्‌***

जन्‌ →

सन्‌ →

खन्‌ →

तम्‌ →


* अत्र स्वभावेन णकारान्तः |

** अत्र निमित्तत्वात्‌ णत्वम्; अग्रे प्रक्रियावशात्‌ यथासङ्गं णत्वं कर्तव्यम्‌ |

***नुगतोऽनुनासिकान्तस्य (७.४.८५) इति सूत्रस्य अन्तर्गते वार्तिकम्‌ अस्ति पदान्तवच्चेति वक्तव्यम्‌ | अनेन अनुनासिकान्ताङ्गस्य अदन्त-अभ्यासस्य नुक्‌-आगमे सति स च अभ्यासः पदान्तवत्‌ इति मन्तव्यम्‌ | तस्मात्‌ वा पदान्तस्य (८.४.५९) इत्यनेन परसवर्णविकल्पः | अनुनासिकान्तधातुप्रसङ्गे सर्वत्र तथा कल्पनीयं यथासङ्गं— नाम यत्र अभ्यासः अदन्तः |


अनुस्वारस्य ययि परसवर्णः (८.४.५८) = अनुस्वारस्य स्थाने परसवर्णादेशो भवति ययि परे |

वा पदान्तस्य (८.४.५९) = पदान्तस्य अनुस्वारस्य परसवर्णादेशो वा भवति ययि परे |


६. हन्‌-धातोः यङ्लुगन्तधातुः


अभ्यासाच्च (७.३.५५) = अभ्यासात्‌ हन्‌-धातोः हकारस्य स्थाने कवर्गादेशो भवति | अभ्यासात्‌ प्रथमान्तं, च अव्ययपदं, द्विपदमिदं सूत्रम्‌ | हो हन्तेर्ञ्णिन्नेषु (७.३.५४) इत्यसमत्‌ हः, हन्तेः इत्यनयोः अनुवृत्तिः | चजोः कु घिण्यतोः (७.३.५२) इत्यस्मात्‌ कु इत्यस्य अनुवृत्तिः | अङ्गस्य (६.४.१) इत्यस्य अधिकारः | अनुवृत्ति-सहितसूत्रं— अभ्यासात्‌ च हन्तेः अङ्गस्य हः कु |


हन्‌ → द्वित्वाभ्यास्यकार्यम्‌ → जहन्‌ → अभ्यासोत्तरहकारस्य कुत्वम्‌ → जघन्‌ → अभ्यासस्य नुक्‌-आगमः → जंघन्‌ → अनुस्वारस्य परसवर्णादेशः → जङ्घन्‌


इदुपधधातूनां यङ्लुगन्तधातुः


गुणो यङ्लुकोः (७.४.८२) = अभ्यासस्य गुणो भवति यङि यङ्लुकि च | यङ्‌ च लुक्‌ च यङ्लुकौ इतरेतरद्वन्द्वः, तयोः यङ्लुकोः | गुणः प्रथमान्तं, यङ्लुकोः सप्तम्यन्तं, द्विपदमिदं सूत्रम्‌ | अत्र लोपोऽभ्यासस्य (७.४.५८) इत्यस्मात्‌ अभ्यासस्य इत्यस्य अनुवृत्तिः | अङ्गस्य (६.४.१) इत्यस्य अधिकारः | अनुवृत्ति-सहितसूत्रम्‌— अङ्गस्य अभ्यासस्य गुणः यङ्लुकोः |


भिद्‌ → भिद्‌ भिद्‌ → भि भिद्‌ → बि भिद्‌ → बेभिद्‌ इति यङ्लुगन्तधातुः

छिद्‌ →

मिद्‌ →

चित्‌ →


उदुपधधातूनां यङ्लुगन्तधातुः


गुणो यङ्लुकोः (७.४.८२) = अभ्यासस्य गुणो भवति यङि यङ्लुकि च |

बुध्‌ → बुध्‌ बुध्‌ → बु बुध्‌ → बोबुध्‌ इति यङ्लुगन्तधातुः

रुध्‌ →

लुभ्‌ →


ऋदुपधधातूनां यङ्लुगन्तधातुः


रीगृदुपधस्य च (७.४.९०) = ऋदुपधधातोः अभ्यासस्य रीक्‌ इति आगमो भवति यङि यङ्लुकि च | रीक्‌ कित्‌ अतः अभ्यासस्य अन्ते विधीयते | ऋत्‌ उपधा यस्य, सः ऋदुपधः, तस्य ऋदुपधस्य | रीक्‌ प्रथमान्तम्‌, ऋदुपधस्य षष्ठ्यन्तं, च अव्ययं, त्रिपदमिदं सूत्रम्‌ | अत्र लोपोऽभ्यासस्य (७.४.५८) इत्यस्मात्‌ अभ्यासस्य इत्यस्य अनुवृत्तिः | गुणो यङ्लुकोः (७.४.८२) इत्यस्मात्‌ यङ्लुकोः इत्यस्य अनुवृत्तिः | अङ्गस्य (६.४.१) इत्यस्य अधिकारः | अनुवृत्ति-सहितसूत्रम्‌— ऋदुपधस्य अङ्गस्य अभ्यासस्य रीक्‌ यङ्लुकोः |


रुग्रिकौ च लुकि (७.४.९१) = ऋदुपधधातोः अभ्यासस्य रुक्‌, रिक्‌ इति आगमौ भवतः यङ्लुकि परे | च-शब्देन रीगृदुपधस्य च (७.४.९०) इत्यस्य रीक्‌-आगमस्य समुच्चयः | रुक्‌ च रिक्‌ च कित्‌ अतः द्वावपि अभ्यासस्य अन्ते विधीयेते | रुक्‌ च रिक्‌ च तयोरितरेतरद्वन्द्वः रुग्रिकौ | रुग्रिकौ प्रथमाद्विवचनातं, च अव्ययं, लुकि सप्तम्यन्तं, त्रिपदमिदं सूत्रम्‌ | अत्र लोपोऽभ्यासस्य (७.४.५८) इत्यस्मात्‌ अभ्यासस्य इत्यस्य अनुवृत्तिः | गुणो यङ्लुकोः (७.४.८२) इत्यस्मात्‌ यङ् इत्यस्य अनुवृत्तिः; अस्य च अन्वयो भवति लुकि इत्यनेन साकम्‌ | रीगृदुपधस्य च (७.४.९०) इत्यस्मात्‌ ऋदुपधस्य इत्यस्य अनुवृत्तिः | अङ्गस्य (६.४.१) इत्यस्य अधिकारः | अनुवृत्ति-सहितसूत्रम्‌— रुग्रिकौ च यङ्लुकि |


अनेन रीक्‌ → री, रिक्‌ → रि, रुक्‌ → र् इत्येषां त्रयाणाम्‌ आगमानां विधानं भवति सर्वेभ्यः यथा—

नृत्‌ → नृत्‌ नृत्‌ → न नृत्‌ → नरीनृत्‌, नरिनृत्‌, नर्नृत्‌ इति यङ्लुगन्तधातवः

तृप्‌ →

वृध्‌ →

शृध्‌ →

कृष् →

मृष्‌ →

वृत्‌ →


अत्र प्रश्नः उदेति यत्‌ नरीनृत्‌, नरिनृत्‌, नर्नृत्‌ इति धातुषु किमर्थं णत्वं न स्यात्‌ ? एते धातवः क्षुभ्नादिषु पठन्ति इति कारणतः क्षुभ्नादिषु च (८.४.३९) इत्यनेन णत्वनिषेधः |


कृप्‌-धातुः इति विशेषः—


कृपेश्च अवकल्कने (विचारं करोति, चिन्तनं करोति) |


कृपो रो लः (८.२.१८) = कृप्‌-धातोः रेफस्य लकारादेशो भवति | र इति श्रुतिसामान्यं बोध्यम्‌ | तेन यः केवलो रेफः, यश्च ऋकारस्थः तयोः द्वयोः अपि ग्रहणम्‌ | लः इत्यपि श्रुतिसामान्यमेव | अतः आहत्य कृप्‌-धातोः यदा (गुणादेशं कृत्वा) रेफो भवति, तस्य रेफस्य स्थाने लकारादेशः; पुनः कृप्‌-धातोः ऋकारस्य यः रेफ-सदृश-अंशः, तस्य स्थाने लसदृश-अंशादेशो भवति— नाम ऋ-स्थाने ऌ | सूत्रे कृपो → कृप + उः इति विच्छेदः | कृप लुप्तषष्ठीकं पदम्‌, उः षष्ठ्यन्तं, रः षष्ठ्यन्तं, लः प्रथमान्तं, अनेकपदमिदं सूत्रम्‌ | कृपः इत्यस्य द्विवारम्‌ आवृत्तिः | सूत्रं स्वयं सम्पूर्णम्‌— कृपः उः कृपः रः लः |


कृप्‌-धातोः द्वित्वाभ्यासकार्यं यथासामान्यम्‌ | अनेन रुक्‌, रिक्‌, रीक्‌ इति त्रयो‍ऽपि भवन्ति एव | तदा कृपो रो लः (८.२.१८) इत्यनेन अभ्यासस्य रेफस्थाने लकारः, धातोः च ऋकारस्थाने ऌ-कारः |


कृप्‌ → क कृप्‌ → च कृप्‌ → चरीकृप्‌ → चलीकॢप्‌

कृप्‌ → क कृप्‌ → च कृप्‌ → चरिकृप्‌ → चलिकॢप्‌

कृप्‌ → क कृप्‌ → च कृप्‌ → चर्कृप्‌ → चल्कॢप्‌


इति एवं कृप्‌-धातोः त्रयः यङ्लुगन्तधातवः |


अत्र प्रश्नः उदेति यत्‌ कृपो रो लः (८.२.१८) इत्यनेन कृप्‌-धातोः रेफस्य लकारादेशो भवति; अनेन धातुना ये आतिदेशिकधातवः निष्पद्यन्ते तेषामपि ईदृशं कार्यमिति नोक्तम्‌ | तर्हि चरीकृप्‌ इति धातौ 'कृप्‌' इति भागे कार्यं भवतु, किन्तु 'चरी' इति अभ्यासे कथं वा कार्यं स्यात्‌ ? एका परिभाषा वर्तते प्रकृतिग्रहणे यङ्लुगन्तस्यापि ग्रहणम्‌ (परिभाषा १०१) | अनेन कृपो रो लः (८.२.१८) इति सूत्रे कृप्‌-धातोः कथनेन यङ्लुगन्तधातोः अपि ग्रहणं भवति | अभ्यासः अपि यङ्लुगन्तधातोः अवयवः इति कृत्वा अभ्यासेऽपि कार्यं भवति |


तर्हि कृपो रो लः (८.२.१८) इति सूत्रेण, आहत्य कृप्‌-धातोः रेफस्य लकारादेशः; कृप्‌-धातोः ऋकारस्य अंशः यः रेफसदृशः, तस्य स्थाने लकारसदृशादेशो भवति | यत्र कृप्‌-धातोः उपधायाः गुणः भवति कर्प्‌, तत्र रेफस्य स्थाने लकारादेशः अतः कल्प्‌ इति फलं; यत्र उपधागुणो न भवति, तत्र कृप्‌ इत्यस्य ऋकारस्य स्थाने ऌकारदेशः अतः कॢप्‌ इति फलम्‌ | दृष्टान्तत्वेन अपरेषु स्थलेषु कथं अनेन सूत्रेण रूपं सिध्यति इत्यत्र प्रदर्श्यते—


लटि कल्पयति/ते | कृप्‌ + णिच्‌ → पुगन्तलघूपधस्य च (७.३.८६) इत्यनेन उपधायां लघु-इकः गुणः → कर्प्‌ + इ → कृपो रो लः (८.२.१८) इत्यनेन रेफस्य स्थाने लकारादेशः → कल्प्‌ + इ → कल्पि इति धातुः → कल्पि + शप्‌ → कल्पय इति अङ्गम्‌ → कल्पय + ति → कल्पयति/ते


लिट्‌-लकारे गुणनिषेधत्वात्‌ ऋकारस्य उदाहरणम्‌—

लिटि चकॢपे | कृप्‌ + ए → द्वित्वम्‌ अभ्यासकार्यम्‌ च → चकृप्‌ + ए → कृपो रो लः (८.२.१८) इत्यनेन ऋकारस्य स्थाने ऌकारादेशः → चकॢप्‌ + ए → चकॢपे

प्रश्नः उदेति यदि रेफस्य स्थाने लकारस्तु भवति एव, तर्हि किमर्थं मूलधातौ उपदेशावस्थायां कॢप्‌ न स्यात्‌ ? उतरम्‌ अस्ति यत्‌ वेदे तस्य ऋकारस्य महत्त्वं वर्तते | वेदे उच्चारणार्थं प्रत्येकं स्वरस्य विशिष्टम्‌ इङ्गितम्‌ | अतः वेदे अयं धातुः ऋदुपदधातुः भवेत्‌ |


अनिदित्‌-धातूनां यङ्लुगन्तधातुः


पाणिनेः धातुपाठे अनिदित्‌-धातवः इमे—

अञ्च् कुञ्च् ग्लुञ्च्‌ चञ्च्‌ तञ्च्‌ त्वञ्च्‌ म्रुञ्च्‌ म्लुञ्च्‌ लुञ्च्‌ वञ्च्‌
अञ्ज्‌ रञ्ज्‌ भञ्ज् सञ्ज्‌ ष्वञ्ज्‌ कुन्थ्‌ ग्रन्थ्‌ मन्थ्‌ श्रन्थ्‌ उन्द्‌
बुन्द्‌ स्कन्द्‌ स्यन्द्‌ इन्ध्‌ बन्ध्‌ शुन्ध्‌ तुम्प्‌ त्रुम्प्‌ ऋम्फ्‌ गुम्फ्‌
तुम्फ्‌ त्रुम्फ्‌ तृम्फ्‌ दृम्फ्‌ उम्भ्‌ दम्भ्‌ शुम्भ्‌ श्रम्भ्‌ षृम्भ्‌ स्रम्भ्‌
दंश्‌ भ्रंश्‌ ध्वंस्‌ भ्रंस्‌ शंस्‌ स्रंस्‌ तृन्ह्‌


धेयं यत्‌ एषु अञ्च्‌, अञ्ज्‌, इन्ध्‌,उन्द्‌, उम्भ्‌, ऋम्फ्‌ इत्येते धातवः अजादयः अतः एभ्यः यङ्‌-प्रत्ययः न भवति यतोहि हलादि-एकाच्‌-धातुभ्यः एव यङ्‌ इति सामान्यनियमः | अवशिष्ट-अनिदित्‌-धातुभिः कथं यङ्लुगन्तधातवः सिध्यन्ति इति अग्रे प्रदर्श्यते—


१. वञ्च्‌, स्रंस्‌, ध्वंस्‌, भ्रंस्‌, स्कन्द्‌ इति धातवः


नीग्वञ्चुस्रंसुध्वंसुभ्रंसुकसपतपदस्कन्दाम्‌ (७.४.८४) इत्यनेन वञ्च्‌, स्रंस्‌, ध्वंस्‌, भ्रंस्‌, स्कन्द्‌ इत्येषां धातूनाम्‌ अभ्यासस्य नीक्‌-आगमो भवति यङि यङ्लुकि च |


वञ्च्‌ → वञ्च्‌ वञ्च्‌ → व वञ्च्‌ → वनीवञ्च्‌ इति यङ्लुगन्तधातुः

स्रंस्‌ →

ध्वंस्‌ →

भ्रंस्‌ →

स्कन्द्‌ →


नीग्वञ्चुस्रंसुध्वंसुभ्रंसुकसपतपदस्कन्दाम्‌ (७.४.८४) = वञ्च्‌, स्रंस्‌, ध्वंस्‌, भ्रंस्‌, कस्‌, पत्‌, पद्‌, स्कन्द्‌ इत्येषां धातूनाम्‌ अभ्यासस्य नीक्‌-आगमो भवति यङि यङ्लुकि च | वञ्चुश्च स्रंसुश्च ध्वंसुश्च भ्रंसुश्च कसश्च पतश्च पदश्च स्कन्द च तेषामितरेतरद्वन्द्वः वञ्चुस्रंसुध्वंसुभ्रंसुकसपतपदस्कन्दः, तेषाम्‌ | नीक्‌ प्रथमान्तं, वञ्चुस्रंसुध्वंसुभ्रंसुकसपतपदस्कन्दां षष्ठ्यन्तं, द्विपदमिदं सूत्रम्‌ | अत्र लोपोऽभ्यासस्य (७.४.५८) इत्यस्मात्‌ अभ्यासस्य इत्यस्य अनुवृत्तिः | गुणो यङ्लुकोः (७.४.८२) इत्यस्मात्‌ यङ्लुकोः इत्यस्य अनुवृत्तिः | अङ्गस्य (६.४.१) इत्यस्य अधिकारः | अनुवृत्ति-सहितसूत्रं— वञ्चुस्रंसुध्वंसुभ्रंसुकसपतपदस्कन्दाम्‌ अङ्गस्य अभ्यासस्य नीक्‌ यङ्लुकोः |


कस्‌ ,पत्‌, पद्‌ इति त्रयाणां धातूनां यङ्लुगन्तसिद्धिः प्रदर्शितः अदुपधधातूनां स्थले |


२. दंश्‌, भञ्ज्‌ इति धातवः


जपजभदहदशभञ्जपशां च (७.४.८६) इत्यनेन दंश्‌, भञ्ज्‌ इत्यनयोः धात्वोः अभ्यासस्य नुक्‌-आगमो भवति यङि यङ्लुकि च |


दंश्‌ → दश्‌ दश्‌ → द दश्‌ → दन्दश्‌ इति यङ्लुगन्तधातुः

भञ्ज्‌ →


जपजभदहदशभञ्जपशां च (७.४.८६) = जप्‌, जभ्‌, दह्‌, दश्‌, भञ्ज्‌, पश्‌ इत्येषां धातूनाम्‌ अभ्यासस्य नुक्‌-आगमो भवति यङि यङ्लुकि च | नुक्‌ इत्यस्मिन्‌ ककारः इत्संज्ञकः, उकारश्च उच्चारणार्थः; नुक्‌ अनुस्वारस्य उपलक्षणम्‌ | दंश्‌-धातोः अस्मिन्‌ सूत्रे अनुस्वारो नास्ति यतोहि यङलुकि दश्‌ इत्यस्य एव द्वित्वम्‌; अनुनासिकत्वं न भवति | जपश्च जभश्च दहश्च दशश्च भञ्जश्च पशश्च च तेषामितरेतरद्वन्द्वः जपजभदहदशभञ्जपशः, तेषाम्‌ | जपजभदहदशभञ्जपशां षष्ठ्यन्तं, चाव्ययं, द्विपदमिदं सूत्रम्‌ | अत्र लोपोऽभ्यासस्य (७.४.५८) इत्यस्मात्‌ अभ्यासस्य इत्यस्य अनुवृत्तिः | गुणो यङ्लुकोः (७.४.८२) इत्यस्मात्‌ यङ्लुकोः इत्यस्य अनुवृत्तिः | नुगतोऽनुनासिकान्तस्य (७.४.८५) इत्यस्मात्‌ नुक्‌ इत्यस्य अनुवृत्तिः | अङ्गस्य (६.४.१) इत्यस्य अधिकारः | अनुवृत्ति-सहितसूत्रं— जपजभदहदशभञ्जपशां च अङ्गस्य अभ्यासस्य नुक्‌ यङ्लुकोः |


जप्‌, जभ्‌, दह्‌, पश्‌ इति चत्वार्णां धातूनां यङ्लुगन्तसिद्धिः प्रदर्शितः अदुपधधातूनां स्थले |


३. यङ्लुकि येषाम्‌ अनिदिताम्‌ अभ्यासः अकारान्तः


दीर्घोऽकितः (७.४.८३) इत्यनेन अकित्‌-अभ्यासस्य दीर्घादेशो भवति यङि यङ्लुकि च |


चञ्च्‌ → चञ्च्‌ चञ्च्‌ → च चञ्च्‌ → चाचञ्च्‌ इति यङ्लुगन्तधातुः

तञ्च्‌ →

त्वञ्च्‌ →


एवमेव रञ्ज्‌, सञ्ज्‌, स्वञ्ज्‌, मन्थ्‌, ग्रन्थ्‌, श्रन्थ्‌, स्यन्द्‌, बन्ध्‌, दम्भ्‌, स्रम्भ्‌, श्रम्भ्‌, शंश्‌ |


४. यङ्लुकि येषाम्‌ अनिदिताम्‌ अभ्यासः उकारान्तः


गुणो यङ्लुकोः (७.४.८२) इत्यनेन अभ्यासस्य गुणो भवति यङि यङ्लुकि च |

लुञ्च्‌ → लुञ्च्‌ लुञ्च्‌ → लु लुञ्च्‌ → लोलुञ्च्‌ इति यङ्लुगन्तधातुः

कुञ्च्‌ → कुञ्च्‌ कुञ्च्‌ → कु कुञ्च्‌ → चु कुञ्च्‌ → चोकुञ्च्‌


एवमेव म्रुञ्च्‌, म्लुञ्च्‌, ग्लुञ्च्‌, कुन्थ्‌, बुन्द्, शुन्ध्‌, तुम्प्‌, त्रुम्प्‌, तुम्फ्‌, गुम्फ्‌, शुम्भ्‌ |



५. ऋकारवान्‌ अनिदित्‌-धातवः


रीगृदुपधस्य च (७.४.९०) = ऋदुपधधातोः अभ्यासस्य रीक्‌ इति आगमो भवति यङि यङ्लुकि च | रीगृत्वत इति वक्तव्यम्‌ इति वार्तिकेन ऋकारवतामपि धातूनाम्‌ अभ्यासस्य रीक्‌ इति आगमो भवति यङि यङ्लुकि च |

तृम्फ्‌ → तृम्फ्‌ तृम्फ्‌ → तृ तृम्फ्‌ → त तृम्फ्‌ → तरीतृम्फ्‌

दृम्फ्‌ →

सृम्भ्‌ →

तृंह्‌ →


रीगृदुपधस्य च (७.४.९०) = ऋदुपधधातोः अभ्यासस्य रीक्‌ इति आगमो भवति यङि यङ्लुकि च | रीक्‌ कित्‌ अतः अभ्यासस्य अन्ते विधीयते | ऋत्‌ उपधा यस्य, सः ऋदुपधः, तस्य ऋदुपधस्य | रीक्‌ प्रथमान्तम्‌, ऋदुपधस्य षष्ठ्यन्तं, च अव्ययं, त्रिपदमिदं सूत्रम्‌ | अत्र लोपोऽभ्यासस्य (७.४.५८) इत्यस्मात्‌ अभ्यासस्य इत्यस्य अनुवृत्तिः | गुणो यङ्लुकोः (७.४.८२) इत्यस्मात्‌ यङ्लुकोः इत्यस्य अनुवृत्तिः | अङ्गस्य (६.४.१) इत्यस्य अधिकारः | अनुवृत्ति-सहितसूत्रम्‌— ऋदुपधस्य अङ्गस्य अभ्यासस्य रीक्‌ यङ्लुकोः |



६. हम्म्‌-धातुः


नुगतोऽनुनासिकान्तस्य (७.४.८५) इत्यनेन अनुनासिकान्ताङ्गस्य अदन्त-अभ्यासस्य नुक्‌-आगमो भवति यङि यङ्लुकि च |

हम्म्‌ → हम्म्‌ हम्म्‌ → ह हम्म्‌ → ज हम्म्‌ → जंहम्म्‌


नुगतोऽनुनासिकान्तस्य (७.४.८५) = अनुनासिकान्ताङ्गस्य अदन्त-अभ्यासस्य नुक्‌-आगमो भवति यङि यङ्लुकि च | नुक्‌ अनुस्वारस्य उपलक्षणम्‌ | धातोः अभ्यासस्य अन्ते अत्‌ चेत्‌, धातोः अन्ते अनुनासिकहल्‌-वर्णः (ञ्‌, म्‌, ङ्‌, ण्‌, न्‌) चेत्‌ इदं कार्यं प्रवर्तते | नुक्‌-आगमः कित्‌ | ककारः इत्‌-संज्ञकः, उकारः उच्चारणार्थः | अनुनासिकः अन्ते यस्य तत्‌ अनुनासिकान्तं, तस्य | नुक्‌ प्रथमान्तं, अतः षष्ठ्यन्तम्‌, अनुनासिकान्तस्य षष्ठ्यन्तं, त्रिपदमिदं सूत्रम्‌ | अत्र लोपोऽभ्यासस्य (७.४.५८) इत्यस्मात्‌ अभ्यासस्य इत्यस्य अनुवृत्तिः | गुणो यङ्लुकोः (७.४.८२) इत्यस्मात्‌ यङ्लुकोः इत्यस्य अनुवृत्तिः | अङ्गस्य (६.४.१) इत्यस्य अधिकारः | अनुवृत्ति-सहितसूत्रं— अनुनासिकान्तस्य अङ्गस्य अतः अभ्यासस्य नुक्‌ यङ्लुकोः |


अनेन सर्वे यङ्लुगन्तधातवः साधिताः |


सम्प्रति अस्य पाठस्य पूरणार्थं यङ्लुगन्तधातुभ्यः तिङन्तरूपाणि साधनीयानि | यङ्लुगन्तधातोः साधनम्‌ आर्धधातुकप्रक्रियायाम्‌ अन्तर्भवति | ततः तिङन्तसाधनं पुनः पृथक्‌ कार्यम्‌ | यङ्लुगन्तधातुभ्यः लट्‌, लोट्‌. लङ्‌, विधिलिङ्‌ इत्येषां साधनं सार्वधातुकप्रक्रियायाम्‌ अन्तर्गतम्‌; अवशिष्टषड्‌ लकाराणां साधनम्‌ आर्धधातुकप्रक्रियायाम्‌ | अस्मिन्‌ पाठे लट्‌, लोट्‌. लङ्‌, विधिलिङ्‌ इत्येषां साधनविधिः प्रदर्श्यते; आर्धधातुकलकाराणां रूपसिधिः तत्तदार्धधातुकलकारपाठे क्रियते |


यङ्लुगन्तधातुभ्यः लट्‌, लोट्‌. लङ्‌, विधिलिङ्‌ इति चतुर्णां सिद्धिः


यङो वा (७.३.९४) = यङ्लुगन्तेभ्यः धातुभ्यः हलादिपित्‌-सार्वधातुकस्य विकल्पेन ईट्‌-आगमो भवति | हलादिपित्‌-सार्वधातुक-प्रत्ययाः न सन्ति एव यङि तस्य आत्मनेपदत्वात्‌; ततः 'इदं सूत्रं यङ्लुकि' इति ज्ञापकम्‌ | यङः पञ्चम्यन्तं, वा अव्ययपदं, द्विपदम्‌ इदं सूत्रम्‌ | उतो वृद्धिर्लुकि हलि (७.३.८९) इत्यस्मात्‌ हलि इत्यस्य अनुवृत्तिः | नाभ्यस्तस्याचि पिति सार्वधातुके (७.३.८७) इत्यस्मात्‌ पिति, सार्वधातुके इत्यनयोः अनुवृत्तिः | ब्रूव ईट्‌ (७.३.९३) इत्यस्मात्‌ ईट्‌ इत्यस्य अनुवृत्तिः | अनुवृत्ति-सहितसूत्रं— यङः ईट्‌ वा हलि पिति सार्वधातुके |


यत्र धातुः अभ्यस्तसंज्ञकः अस्ति, तत्र तिङ्‌प्रत्ययानां सिद्ध्यर्थं विशेषकार्यद्वयं वर्तते | यङ्लुगन्तधातवः सर्वे अभ्यस्तसंज्ञकाः, अतः सर्वत्र इमे द्वे कार्ये स्तः—


१) अदभ्यस्तात् (७.१.४) = अभ्यस्तसंज्ञक-धातूत्तरस्य प्रत्ययस्य आदिमावयवस्य झकारस्य स्थाने अत्‌-आदेशो भवति | अत्‌ प्रथमान्तम्‌, अभ्यस्तात्‌ पञ्चम्यन्तं, द्विपदमिदं सूत्रम्‌ | झोऽन्तः (७.१.३) इत्यस्मात्‌ झः (षष्ठ्यन्तम्‌) इत्यस्य अनुवृत्तिः | आयनेयीनीयियः फढखछगां प्रत्ययादीनाम्‌ (७.१.२) इत्यस्मात्‌, वचनपरिणामं कृत्वा प्रत्ययादेः इत्यस्य अनुवृत्तिः | अनुवृत्ति-सहितसूत्रम्‌— अभ्यस्तात्‌ अङ्गात्‌ प्रत्ययादेः झः अत्‌ |


धेयं यत्‌ अत्‌-आदेशस्य तकारः हलन्त्यम्‌ (१.३.३) इति सूत्रेण इत्‌-संज्ञकः न, यतोहि अत्‌ तु विभक्तिसंज्ञक-झि-प्रत्ययस्य अवयवस्य आदेशः अतः न विभक्तौ तुस्माः (१.३.४) इत्यनेन हलन्त्यम्‌ (१.३.३) बाधितम्‌ |

अदभ्यस्तात् (७.१.४) इति सूत्रेण लटि लोटि च प्रथमपुरुषस्य बहुवचने झ्‌-स्थाने अत्‌ आदेशः, अतः लटि झि → अति न तु अन्ति; लोटि झि → अतु न तु अन्तु |


२) सिजभ्यस्तविदिभ्यश्च (३.४.१०९) = ङित्‌-लकारस्य अवस्थायां, सिच्‌-प्रत्ययात्‌, अभ्यस्तसंज्ञकात्‌ धातोः, विद्‌-धातोः च, परस्य झि-प्रत्ययस्य स्थाने जुस्‌-आदेशो भवति | सिच्‌ च अभ्यस्तश्च विदिश्च तेषामितरेतरद्वन्द्वः सिजभ्यस्तविदयः, तेभ्यः सिजभ्यस्तविदिभ्यः | सिजभ्यस्तविदिभ्यः पञ्चम्यन्तं, च अव्ययपदं, द्विपदमिदं सूत्रम्‌ | नित्यं ङितः (३.४.९९) इत्यस्मात्‌ ङितः इत्यस्य अनुवृत्तिः | झेर्जुस्‌ (३.४.१०८) इत्यस्मात्‌ झेः जुस्‌ इत्यनयोः अनुवृत्तिः | लस्य (३.४.७७) इत्यस्य अधिकारः | अनुवृत्ति-सहितसूत्रं— सिजभ्यस्तविदिभ्यः च ङितः लस्य झेः जुस्‌ |


अनेन लङि अभ्यस्तसंज्ञकधातोः परस्य झि-स्थाने जुस्‌-आदेशः | जुस्‌ इत्यस्य अनुबन्धलोपे, रुत्वविसर्गौ, उः इति भवति | तर्हि अभ्यस्तसंज्ञकः धातुः अस्ति चेत्‌, लङि अन्‌-स्थाने उः इति प्रत्ययः भवति |


अतः आहत्य अभ्यस्तसंज्ञक-धातूनां कृते, सार्वधातुकलकारेषु सिद्ध-तिङ्‌प्रत्ययाः एते | जुहोत्यादिगणे परस्मैपदे यथा , तथैव + यङो वा (७.३.९४) इत्यनेन विकल्पेन हलादिपित्‌-सार्वधातुकस्य विकल्पेन ईट्‌-आगमः | तर्हि यङ्‌लुगन्ते एते एव योजनीयाः—


लट्‌-लकारः

ति, ईति तः अति
सि, ईषि थः
मि, ईमि वः मः


लोट्‌-लकारः

तु, ईतु, तात्‌ ताम्‌ अतु
हि, तात्‌ तम्‌
आनि आव आम


लङ्‌-लकारः

त्‌ , ईत्‌ ताम्‌ उः
स्‌ (:), ईः तम्‌
अम्‌


विधिलिङ्‌-लकारः

यात्‌ याताम्‌ युः
याः यातम्‌ यात
याम्‌ याव याम


अत्र धेयं यत् एते सर्वे प्रत्ययाः तिङ्‌शित्‌ सार्वधातुकम्‌ (३.४.११३) इत्यनेन सार्वधातुकसंज्ञकाः | एषु च प्रत्ययेषु—

हलादिपित्‌-सार्वधातुक-प्रत्ययाः षद्— ति, सि, मि / तु / त्‌, स्‌ |

अजादिपित्‌-सार्वधातुक-प्रत्ययाः दश— ईति, ईषि, ईमि / ईतु, आनि, आव, आम / ईत्‌, ईः, अम्

हलाद्यपित्‌-सार्वधातुक-प्रत्ययाः २५— तः, थः, थ, वः, मः / तात्‌, ताम्‌, हि, तात्‌, तम्‌, त / ताम्‌, तम्‌, त, व, म / यात्‌, याताम्‌, युः, याः, यातम्‌, यात, याम्‌, याव, याम

अजाद्यपित्‌-सार्वधातुक-प्रत्ययाः त्रयः— अति /अतु / उः


सार्वधातुकमपित्‌ (१.२.४) इति सूत्रेण एते अपितः प्रत्ययाः सर्वे ङिद्वत्‌ भवन्ति |

प्रत्येकं प्रत्ययस्य स्वभावः कः इति मनसि निधाय अग्रे कार्यं करणीयम्‌ | अस्माकं कार्यं च यथा सर्वत्र द्विस्तरीयम्—

१) अङ्गकार्यम्‌

२) सन्धिकार्यम्‌


अङ्गकार्यं यथा—

नेनी + ति → सार्वधातुकार्धधातुकयोः (७.३.८४) इत्यनेन इगन्ताङ्गस्य इकः गुणः → नेने + ति

चर्कृ + ति → सार्वधातुकार्धधातुकयोः (७.३.८४) इत्यनेन इगन्ताङ्गस्य इकः गुणः → चर्कर् + ति

लेलिख्‌ + ति → पुगन्तलघूपधस्य च (७.३.८६) इत्यनेन लघूपधस्य इकः गुणः → लेलेख्‌ + ति

नेनी + तः → क्क्ङिति च (१.१.५) इत्यनेन यः प्रत्ययः गित्‌, कित्‌ अथवा ङित्‌ अस्ति, अपि च तस्मा‌त्‌ प्रत्ययात्‌ पूर्वं तस्य एव प्रत्ययस्य कारणतः इकः स्थाने गुणः वा वृद्धिः वा भवति स्म, सः (गुणः वृद्धिः) न भवति → नेनीतः

चर्कृ + तः → क्क्ङिति च (१.१.५) → चर्कृतः


सार्वधातुकार्धधातुकयोः (७.३.८४) = इगन्ताङ्गस्य इकः गुणः भवति सार्वधातुके आर्धधातुके च प्रत्यये परे | अनुवृत्ति-सहितसूत्रम्‌— इकः अङ्गस्य गुणः सार्वधातुकार्धधातुकयोः |


पुगन्तलघूपधस्य च (७.३.८६) = पुगन्तस्य अङ्गस्य लघूपधस्य च इकः गुणः भवति सार्वधातुके आर्धधातुके च प्रत्यये परे | अनुवृत्ति-सहितसूत्रम्‌— पुगन्तलघूपधस्य च अङ्गस्य इकः गुणः सार्वधातुकार्धधातुकयोः |


क्क्ङिति च (१.१.५) = यः प्रत्ययः गित्‌, कित्‌ अथवा ङित्‌ अस्ति, अपि च तस्मा‌त्‌ प्रत्ययात्‌ पूर्वं तस्य एव प्रत्ययस्य कारणतः इकः स्थाने गुणः वा वृद्धिः वा भवति स्म, सः (गुणः वृद्धिः) न भवति | ग्‌ च क्‌ च ङ्‌ च तेषाम्‌ इतरेतरद्वन्द्वः क्क्ङः; क्क्ङः इतः यस्य सः क्क्ङित्‌, तस्मिन्‌ परे क्क्ङिति | द्वन्द्वगर्भबहुव्रीहिसमासः | अत्र ग्‌-स्थाने ककारः खरि च इत्यनेन चर्त्वसन्धिः | क्क्ङिति सप्तम्यन्तं, च अव्ययपदं, द्विपदमिदं सूत्रम्‌ | इको गुणवृद्धी (१.१.३) इत्यस्य पूर्णतया अनुवृत्तिः; न धातुलोप आर्धधातुके (१.१.४) इत्यस्मात्‌ इत्यस्य अनुवृत्तिः | अनुवृत्ति-सहितसूत्रम्‌— क्क्ङिति च इकः गुणवृद्धी न |


पदनिर्णयः


यङन्तधातुः ङित्‌ भवति | तस्मात्‌ अनुदात्तङित‌ आत्मनेपदम्‌ (१.३.१२) इत्यनेन अत्मनेपदसंज्ञकप्रत्ययाः एव विधीयन्ते | किन्तु यङ्लुगन्तधातुः अनुदात्तेत्, ङित्‌, स्वरितेत्‌, ञित्‌ इत्येभ्यः भिन्नः इति कारणतः शेषात्कर्तरि परस्मैपदम्‌ (१.३.७८) इत्यनेन परस्मैपदसंज्ञकप्रत्ययाः एव विधीयन्ते |


अत्र प्रश्नः उदेति यत्‌ यङ्लुक्‌-प्रक्रियायां यङ्‌-प्रत्ययः विधीयते, तदा तस्य लोपो भवति | धातुसंज्ञा-प्रसङ्गे अस्माभिः दृष्टं यत्‌ धातुभ्यः यदा हि यङ्‌-प्रत्ययः विधीयते, तदा हि सनाद्यन्ता धातवः (३.१.३२) इत्यनेन धातुसंज्ञा भवति | अनन्तरं यङ्ः लुकि सत्यपि प्रत्ययलोपे प्रत्ययलक्षणम्‌ (१.१.६२) इत्यनेन धातुसंज्ञा तिष्ठति एव | एवमेव यङ्प्रत्ययस्य लुकि सत्यपि किमर्थं न प्रत्ययलोपे प्रत्ययलक्षणम्‌ (१.१.६२) इत्यनेन ङित्त्वं मत्वा अनुदात्तङित‌ आत्मनेपदम्‌ (१.३.१२) इत्यनेन यङ्लुगन्तधातुः अपि आत्मनेपदी स्यात्‌ ?


अस्मिन्‌ प्रसङ्गे, यङोऽचि च (२.४.७४) इत्यस्य व्याखाने सिद्धान्तकौमुदी-ग्रन्थकारः प्रतिपादयति यत्—


"शेषात्कर्तरि- इति परस्मैपदम्‌ | अनुदात्तङित‌ः- इति तु न | ङित्त्वस्य प्रत्ययाप्रत्ययसाधारणत्वेन प्रत्ययलक्षणाप्रवृत्तेः | यत्र हि प्रत्ययस्यासाधारणं रूपमाश्रीयते तत्रैव तत्‌ | अत एव 'सुदृषत्प्रासाद' इत्यस्य 'अत्वसन्तस्य-’ इति दीर्घो न | येऽपि स्पर्धशीङादयोऽनुदात्तङितस्तेभ्योऽपि न, ‘अनुदात्तङितः-’ इत्यनुबन्धनिर्देशात्‌ | तत्र 'श्तिपा शपा-’ इति निषेधात्‌ | अत एव श्यन्नादयो न, गणेन निर्देशात्‌, किं तु शबेव | ‘चर्करीतं च्' इत्यदादौ पाठाच्छपो लुक्‌ |”


अस्य अर्थः कः इति क्रमेण परिशीलयाम—


ङित्त्वस्य प्रत्ययाप्रत्ययसाधारणत्वेन प्रत्ययलक्षणाप्रवृत्तेः | ङित्त्वप्रत्ययस्य, ङित्त्व-अप्रत्ययस्य च, उभयोः स्वस्य स्वस्य पृथक्तय
ा धर्मो वर्तते | यत्र प्रत्यये परे अप्रत्यये परे च उभयत्र ग्रहणं भवति, तत्र प्रत्ययलक्षणं न कर्तव्यम्‌ | इतोऽपि स्पष्टीकरणार्थम्‌ उच्यते, यत्र हि प्रत्ययस्यासाधारणं रूपमाश्रीयते तत्रैव तत्‌ | केवलं प्रत्ययस्य असाधारणरूपस्य आश्रयम्‌ अवलम्ब्य कार्यं यत्र स्यात्‌, तत्रैव प्रत्ययलक्षणं भवतु, यथा राजा | राजन्‌ + सु → हल्ङ्याब्भ्यो दीर्घात्‌ सुतिस्यपृक्तं हल्‌ (६.१.६७) इत्यनेन स्‌-लोपः → प्रत्ययलोपे प्रत्ययलक्षणम्‌ (१.१.६२) इत्यनेन सुप्‌-प्रत्ययात्मक-प्रत्ययधर्ममात्रस्य पुरस्कारं कृत्वा राजन्‌ सुबन्तम्‌ इति मत्वा सुप्तिङन्तं पदम्‌ (१.४.१४) इत्यनेन तस्य पद-संज्ञा-ग्रहणेन न लोपः प्रातिपदिकान्तस्य (८.२.७) इत्यनेन पदान्त-नकारस्य लोपो जायते | किन्तु अनुदात्तङित‌ आत्मनेपदम्‌ (१.३.१२) इत्यनेन यत्‌ आत्मनेपदत्वं विधीयते, तस्य ङित्त्वं केवलं प्रत्ययनिमित्तकङित्त्वं न अपि तु यत्किमपि ङित्त्वं— प्रकृतेः ङित्त्वंम्‌, आदेशस्य ङित्त्वम्‌ इत्यादिकमपि आत्मनेपदत्वस्य निमित्तं स्वीक्रियते | प्रत्ययमात्रधर्मस्य पुरस्कारं कृत्वा ङित्त्व-प्रयुक्त-आत्मनेपदत्वं नास्ति | तात्पर्यम्‌ इदं यत्‌ आत्मनेपदत्वं केवलं प्रत्ययनिमित्तकं कार्यं नास्ति अपि तु प्रत्यय-अप्रत्ययस्य च उभयत्र विद्यमानं ङित्त्वं आत्मनेपदत्वस्य कारणम्‌ | अतः अत्र प्रत्ययलक्षणेन यङ्‌ ङित्‌ मत्वा आत्मनेपदत्वं ग्रहीतुं न शक्यते | प्रत्ययलोपे प्रत्ययलक्षणम्‌ (१.१.६२) इत्यस्य कार्यं तत्रैव भवति यत्र प्रत्ययः प्रत्ययरूपेण निमित्तं मत्वा विधीयमानं कार्यं साधयति | आत्मनेपदत्व-निमित्ताभावात्‌ शेषात्कर्तरि परस्मैपदम्‌ (१.३.७८) इत्यनेन परस्मैपदम्‌ |

(अग्रिमपरिच्छेदस्य पठनात्‌ प्राक्‌ अधोभागे परिच्छेदद्वयस्य समासप्रसङ्गे शिक्षा द्रष्टव्या |)


अग्रिमः प्रश्नः आयाति यत्‌ केवलं प्रत्ययधर्मस्य आश्रयः इति न अपितु यस्य कस्यापि धर्मस्य आश्रयम्‌ अवलम्ब्य प्रत्ययलक्षणं किमर्थं न स्यात्‌ ? अत्र कौमुदीकारो लिखति यत्‌ अत एव 'सुदृषत्प्रासाद' इत्यस्य 'अत्वसन्तस्य-’ इति दीर्घो न | केवलं प्रत्ययधर्मस्य आश्रयम्‌ अवलम्ब्य प्रत्ययलक्षणं करणीयम्‌ इति सिद्धान्तः | तदर्थमेव 'सुदृषत्प्रासादः' इत्यस्मिन् अत्वसन्तस्य चाधातोः (६.४.१४) इत्यनेन दीर्घः न भवति | अनेन सूत्रेण अतु-प्रत्ययान्तशब्दस्य, तथा अस्-यस्य अन्ते अस्ति तादृशस्य शब्दस्य अङ्गस्य उपधायाः प्रथमैकवचनस्य सु-प्रत्यये परे दीर्घः भवति (परन्तु सूत्रे अधातोः इत्यनेन यस्य अन्ते धातुः अस्ति तादृशस्य शब्दस्य अयं दीर्घादेशः न भवति) | अत्र सु शोभना दृषदो यस्य प्रासादस्य (सु + जस्‌ दृषद्‌ + जस्‌) अर्थात्‌ 'सुन्दराः शिलाखण्डाः यस्य प्रासादस्य' इति विग्रहवाक्येन यः समासः भवति, समासावयवः मत्वा सुपो धातुप्रातिपदिकयोः (२.४.७१) इत्यनेन जस्‌-प्रत्ययस्य लोपः | सुपो धातुप्रातिपदिकयोः (२.४.७१) इत्यनेन धातोः च प्रातिपदिकस्य च अवयवरूपेण विद्यमानस्य सुप्-प्रत्ययस्य लुक् भवति | यदि कश्चन सुप्-प्रत्ययः कस्यचित् धातोः प्रातिपदिकस्य वा अवयवरूपेण विद्यमानः अस्ति, तर्हि तस्य सुप्-प्रत्ययस्य लुक् भवति | अत्र किन्तु लुप्तस्य जस्‌-प्रत्ययस्य प्रत्ययलक्षणस्य आश्रयम्‌ अवलम्ब्य प्राप्तदीर्घादेशो न भवति | किमर्थम्‌ इति चेत्‌, अत्वसन्तस्य चाधातोः (६.४.१४) इत्यनेन केवलं प्रत्ययमात्रस्य आश्रयम्‌ अवलम्ब्य दीर्घः भवति इति नास्ति अपितु 'वेधस्‌-शब्दात्‌ वेधाः' (वेधस्‌ + सु → अत्वसन्तस्य चाधातोः (६.४.१४) → विधाः) इत्यस्मिन्‌ प्रत्यये अप्रत्यये च उभयत्र दीर्घादेशो भवति | अतः इदं कार्यं प्रत्ययाप्रत्ययं साधारणकार्यं; केवलं प्रत्ययासाधारणकार्यं नास्ति | एवमेव यङ्लुकि प्रत्ययाप्रत्यय-साधारणकार्ये प्रत्ययलक्षणेन आत्मनेपदं न भवति |

समासस्य शिक्षा—


राजपुरुषः = राज्ञः पुरुषः → राजन्‌ + ङस्‌ + पुरुष + सु → समाससंज्ञा → कृत्तद्धितसमासाश्च (१.२.४६) इत्यनेन प्रातिपदिकसंज्ञा → अधुना 'राजन्‌ + ङस्‌ + पुरुष + सु' इति समुदायस्य प्रातिपदिकसंज्ञा → ङस्‌, सु इति द्वौ प्रत्ययौ प्रातिपदिकस्य अवयवौ → सुपो धातुप्रातिपदिकयोः (२.४.७१) इत्यनेन धातोः च प्रातिपदिकस्य च अवयवरूपेण विद्यमानस्य सुप्-प्रत्ययस्य लुक् → राजन्‌ + पुरुष |


प्रत्ययस्य असाधारणधर्मः केवलं प्रत्यये भवति | तादृशधर्मं मत्वा प्रत्ययलक्षणं भवति, किन्तु यः धर्मः साधारणः, सः प्रत्यये अपि भवति अप्रत्यये अपि भवति, तादृशधर्मं मत्वा प्रत्ययलक्षणं न भवति | दृषद्‌ इति दकारान्त-स्त्रीलिङ्गशब्दः, शिलाखण्डः इत्यर्थः; अग्रे इमं शब्दम्‌ उपयुज्य समासः क्रियते उदाहरणत्वेन, 'सुदृषद्‌' ('सु' इति अव्ययम्‌ अतः अग्रे सु इत्यस्मात्‌ सुप्‌-प्रत्ययः न प्रदर्शितः; अलौकिकविग्रहे तस्य सुप्‌ भवति; पृतथक्‌ सूत्रेण च तस्य लोपः |) सु + दृषदः → सु + दृषद्‌ + जस्‌ → कृत्तद्धितसमासाश्च (१.२.४६) → 'सु + दृषद्‌ + जस्‌' इत्यस्य समग्रस्य समुदायस्य प्रातिपदिकसंज्ञा → सुपो धातुप्रातिपदिकयोः (२.४.७१) इत्यनेन धातोः च प्रातिपदिकस्य च अवयवरूपेण विद्यमानस्य सुप्-प्रत्ययस्य लुक् → सु + दृषद्‌ → (लुकि सति सुदृषद्‌ दकारान्तः; प्रत्ययलक्षणे असन्तः) → प्रत्ययलोपे प्रत्ययलक्षणम्‌ (१.१.६२) → सुदृषदस्‌ → सुदृषदस्‌ इति असन्तरूपम्‌ → सुदृषदस्‌ + सु → अत्वसन्तस्य चाधातोः (६.४.१४) इत्यनेन अतु-प्रत्ययान्तशब्दस्य, तथा अस्-यस्य अन्ते अस्ति तादृशस्य शब्दस्य अङ्गस्य उपधायाः प्रथमैकवचनस्य सु-प्रत्यये परे दीर्घः → अत्र दीर्घो न भवति यतोहि यत्‌ प्रत्ययलक्षणं कृतं येन असन्तत्वं सिध्येत्‌, तत्‌ प्रत्ययलक्षणं न भवति यतोहि तस्मिन्‌ प्रत्यये यत्‌ असन्तत्वं वर्तते, तत्‌ असन्तत्वं प्रत्ययमात्रवृत्तिः नास्ति | अप्रत्यये प्रातिपदिके (चन्दमस्‌ इत्यस्मिन्‌, वेधस्‌ इत्यस्मिन्‌ च) अपि भवति |

अत्वसन्तस्य चाधातोः (६.४.१४) इत्यस्य उदाहरणानि—

अतु-प्रत्ययाः यथा मतुप्‌, वतुप्‌, क्तवतु—

  • मत्-येषाम् अन्ते ते— धीमत् + सु → धीमान् |
  • वत्-येषाम् अन्ते ते— भवत् + सु → भवान् |
  • गतवत् + सु → गतवान् |

असन्ताः यथा चन्द्रमस्‌, वेधस्‌—

  • अस्-येषाम् अन्ते ते— चन्द्रमस् + सु → चन्द्रमाः |


यङन्तप्रसङ्गे धातुः स्वयं ङित्‌ अस्ति अतः ङित्त्वस्य स्वीकारे समस्या नास्ति; यङ्लुगन्तप्रसङ्गे ङित्त्वस्यस्वीकारार्थं लुप्तस्य यङ्‌-प्रत्ययस्य लक्षणं करणीयं; तच्च न कर्तुं शक्यते यतोहि ङित्त्वं केवलप्रत्ययधर्मो नास्ति अपि तु अपरेषु स्थलेष्वपि भवति, यथा शीङ्‌-धातौ | एवमेव चन्द्रमस् इति प्रातिपदिकं स्वयम्‌ असन्तम्‌ अतः तस्य असन्त्वस्य स्वीकारे समस्या नास्ति | किन्तु 'सुदृषदस्‌' इत्यस्मिन्‌ यः अस्‌-भागः, सः तु प्रत्ययलक्षणेन स्वीकृतम्‌ | यतः असन्तत्वं केवलं प्रत्यये भवति इति नास्ति अपि तु प्रातिपदिकेषु अपि भवति अतः प्रत्ययलक्षणेन असन्तत्वं न मन्तव्यम्‌ | असन्तत्वस्य प्रत्ययमात्रवृत्तित्वाभावेन तत्पुरस्कारेण दीर्घे क्रियमाणे प्रत्ययलक्षणस्य असम्भवादिति भावः |


'चन्द्रमस् + सु' च 'सुदृषदस्‌+ सु' इत्यनयोः मध्ये कः भेदः ? चन्द्रमस् इति स्वभावेन प्रातिपदिकं; सुदृषदस्‌ इति रूपं प्रत्ययलक्षणं कृत्वा साधितम्‌ | अत्र च यतोहि असन्तत्वं प्रत्यये अप्रत्यये उभयत्र भवति, अतः प्रत्ययलक्षणं कर्तुं न शक्यते | यङ्लुगन्तप्रसङ्गे अपि ङित्त्वं तादृशसाधारणधर्मः |


येऽपि स्पर्धशीङादयोऽनुदात्तङितस्तेभ्योऽपि न, ‘अनुदात्तङितः-’ इत्यनुबन्धनिर्धेशात्‌ | तत्र 'श्तिपा शपा-’ इति निषेधात्‌ | यः धातुः अनुदात्तेत्‌ यथा स्पर्ध सङ्घर्षणे, अपि च यः धातुः ङित्‌ यथा शीङ्‌ स्वप्ने, तेषाम्‌ अपि अनुदात्तङित‌ आत्मनेपदम्‌ (१.३.१२) इत्यनेन आत्मनेपदं न भवति यतोहि अनुबन्धेन निर्दिष्टकार्यं यङ्लुकि न भवति | अनुदात्तङित‌ आत्मनेपदम्‌ (१.३.१२) इति सूत्रे अनुदात्तेत्‌ङित्‌ चेत्याभ्यां पदाभ्याम्‌ अनुबन्धग्रहणं भवति |


श्तिपा शपाऽनुबन्धेन निर्दिष्टं यद्‌ गणेन च |

यत्रैकाज्ग्रहणं चैव पञ्चैतानि न यङ्लुकि || (परिभाषा १३१)


अनेन श्तिप्‌-प्रत्ययेन निर्दिष्टं, शप्‌-प्रत्ययेन निर्दिष्टम्‌, अनुबन्धेन निर्दिष्टं, गणेन निर्दिष्टम्‌, एकाच्‌-ग्रहणेन, इमानि पञ्चविधसूत्राणि यङ्लुकि न प्रवर्तनीयानि | अस्मिन्‌ च उक्तं यत्‌ अनुबन्धमात्रेण निर्दिष्टं कार्यं यङ्लुकि न भवति | यथा शीङः सार्वधातुके गुणः (७.४.२१) इति सूत्रे शीङ्‌-धातोः गुणः विधीयते ङकारः इति इत्‌-संज्ञकवर्णम्‌ अवलम्ब्य | ङकारः इति इत्‌-संज्ञकवर्णस्य ग्रहणेन एव गुणः विधीयते | यङ्लुगन्तप्रक्रियायाम्‌ इत्‌-संज्ञकवर्णम्‌ अवलम्ब्य यत्‌ कार्यं तत्‌ न भवति | अतः यङ्लुकि 'शेशी' धातोः शेशेति-शेशीतः-शेश्यति इति रूपाणि; पित्त्वात्‌ एव गुणः नान्यत्र | एवमेव 'दिवादौ, तुदादौ, स्वादौ, क्र्यादौ' इति सङ्केतेन श्यन्‌ इत्यादयः विकरणप्रत्ययाः न विधीयन्ते यतोहि धातुगणेन निर्दिष्टाः | 'गणेन' इति पदेन गणं निमित्तिकृत्य यावत्‌ कार्यं तत्‌ सर्वमपि निषिद्धं यङ्लुकि | अतः केवलं शप् इत्येव भवति यतोहि शप् गणसम्बद्धं न अपितु धातुसाधारणेन विधीयते, धातुमात्रम्‌ अपेक्षितं, धातोः इति कृत्वा कर्तरि शप्‌ (३.१.६८) | अस्य प्रदर्शनार्थं कौमुदीकारः लिखति अत एव श्यन्नादयो न, गणेन निर्देशात्‌, किं तु शबेव |


परिभाषायाम्‌ एकाच्‌ ग्रहणम्‌ इत्यस्य कथनेन 'एकाच्‌' घटितानां सूत्राणां प्रवर्तनं यङ्लुकि न भवति | यथा एकाच उपदेशेऽनुदात्तात् (७.२.१०) इत्यनेन उपदेशे अनुदात्तात् एकाच: अङ्गात् इट् न भवति | अनेन इडागमः निषेधः | यथा डुकृञ् करणे इति धातौ ककारात् परः ऋकारः अनुदात्तः इत्यतः अस्मात् परः इडागमः न भवति | कृ + तृच् → कर्ता | वह प्रापणे इति धातौ वकारात् परः अकारः अनुदात्तः इत्यतः अस्मात् परः इडागमः न भवति | वह् + तृच् → वोढः | किन्तु अयं निषेधः यङ्लुकि न भवति | तदर्थं 'जाहिता, जाहिष्यति, बेभेदिता इत्यादिषु स्थलेषु एकाच उपदेशेऽनुदात्तात् (७.२.१०) इत्यनेन 'इट्‌' इत्यस्य निषेधो न भवति |


चर्करीतं च्' इत्यदादौ पाठाच्छपो लुक्‌ | चर्करीतं च् इति गणसूत्रस्य सङ्केतन प्राचीनवैयाकरणाः यङ्लुगन्तधातुः चर्करीतम्‌‍ इति वदन्ति; नाम इयं संज्ञा स्वीक्रियते यङ्लुगन्तस्य कृते | अनेन च अदिप्रभृतिभ्यः शपः (२.४.७२) इति सूत्रेण यङ्लुकि शपः लुक्‌ भवति | तदर्थं ग्रन्थकारो वदति ‘चर्करीतं च्' इत्यदादौ पाठाच्छपो लुक्‌ |


शीङः सार्वधातुके गुणः (७.४.२१) = शीङ्‌-धातोः गुणः भवति सार्वधातुकप्रत्यये परे | अनेन सूत्रेण शीङ्‌-धातोः गुणः भवति न केवलं पित्सु अपि तु अपित्सु अपि | इको गुणवृद्धी (१.१.३) इत्यनेन परिभाषा-सूत्रेण, इकः स्थानी भवति यत्र स्थानी नोक्तम्, अतः अत्र ईकारः स्थानी भवति | शीङः षष्ठ्यन्तं, सार्वधातुके सप्तम्यन्तं, गुणः प्रथमान्तं, त्रिपदमिदं सूत्रम्‌ | अङ्गस्य (६.४.१) इत्यस्य अधिकारः | अनुवृत्ति-सहितसूत्रम्‌— शीङः अङ्गस्य गुणः सार्वधातुके |


न लोपः प्रातिपदिकान्तस्य (८.२.७) = प्रातिपदिकसंज्ञक-पदस्य अन्ते विद्यमानस्य नकारस्य लोपः | न लुप्तषष्ठीकं पदं, लोपः प्रथमान्तम, प्रातिपदिक लुप्तषष्ठीकं पदं, अन्तस्य षष्ठ्यन्तम्‌, अनेकपदमिदं सूत्रम्‌ | पदस्य (८.१.१६) इत्यस्य अधिकारः | अनुवृत्ति-सहितसूत्रम्‌— प्रातिपदिकस्य पदस्य अन्तस्य नः लोपः |


अनुदात्तङित‌ आत्मनेपदम्‌ (१.३.१२) = यस्य धातोः अनुदात्तस्वरस्य ङकारस्य च इत्‌-संज्ञा भवति, सः धातुः आत्मनेपदी | अनुदात्तश्च ङ्‌ च अनुदात्तङौ, तौ इतौ यस्य सः अनुदात्तङित्‌ द्वन्द्वगर्भ-बहुव्रीहिः, तस्मात्‌ अनुदात्तङितः | अनुदात्तङितः पञ्चम्यन्तम्‌, आत्मनेपदं प्रथमान्तम्‌, द्विपदमिदं सूत्रम्‌ | भूवादयो धातवः (१.३.१) इत्यस्मात्‌ धातोः इत्यस्य अनुवृत्तिः | टीकाकाराः सूचयन्ति यत्‌ लस्य इति पदम्‌ आयाति आक्षेपेण यतोहि तस्य अर्थः निहितः आत्मनेपदम्‌ इत्यस्मिन्‌ | अनुवृत्ति-सहितसूत्रम्— अनुदात्तङितः धातोः लस्य आत्मनेपदम्‌ |


स्वरितञितः कर्त्रभिप्राये क्रियाफले (१.३.७१) = यस्य धातोः स्वरितस्वरस्य ञकारस्य च इत्‌-संज्ञा भवति, तस्य क्रियायाः फलं कर्तुः अस्ति चेत्‌ धातुतः आत्मनेपदितिङ्‌प्रत्ययाः विहिताः; क्रियायाः फलं कर्तुः नास्ति चेत् धातुतः परस्मैपदितिङ्‌प्रत्ययाः विहिताः भवन्ति | नाम एतादृशः धातुः उभयपदी, इति सारांशः | स्वरितश्च ञ्‌ च स्वरितञौ, तौ इतौ यस्य स स्वरितञित्‌, द्वन्द्वगर्भ-बहुव्रीहिः, तस्मात्‌ स्वरितञितः | कर्तारम्‌ अभिप्रैति इति कर्त्रभिप्रायम्‌ (फलम्‌) उपपद-तत्पुरुषः (यथा कुम्भकारः), तस्मिन्‌ कर्त्रभिप्रये | क्रियायाः फलं क्रियाफलं षष्ठी-तत्पुरुषः, तस्मिन्‌ क्रियाफले | स्वरितञितः पञ्चम्यन्तम्‌, कर्त्रभिप्राये सप्तम्यन्तम्‌, क्रियाफले सप्तम्यन्तम्‌, त्रिपदमिदं सूत्रम्‌ | भूवादयो धातवः (१.३.१) इत्यस्मात्‌ धातोः इत्यस्य अनुवृत्तिः | लस्य इति पदम्‌ आयाति आक्षेपेण यतोहि तस्य अर्थः निहितः आत्मनेपदम्‌ इत्यस्मिन्‌ | अनुवृत्ति-सहितसूत्रम्— स्वरितञितः धातोः कर्त्रभिप्राये क्रियाफले लस्य आत्मनेपदम्‌ |


शेषात्कर्तरि परस्मैपदम्‌ (१.३.७८) = यत्र धातोः आत्मनेपदस्य कारणं नास्ति, तत्र कर्त्रर्थे परस्मैपदं भवति | आत्मनेपदनिमित्तहीनात्‌ धातोः कर्तरि परस्मैपदं स्यात्‌ | शेषात्‌ पञ्चम्यन्तम्‌, कर्तरि सप्तम्यन्तम्‌, परस्मैपदं प्रथमान्तम्‌, त्रिपदमिदं सूत्रम्‌ | भूवादयो धातवः (१.३.१) इत्यस्मात्‌ धातोः इत्यस्य अनुवृत्तिः | लस्य इति पदम्‌ आयाति आक्षेपेण यतोहि तस्य अर्थः निहितः परस्मैपदम्‌ इत्यस्मिन्‌ | अनुवृत्ति-सहित-सूत्रम्‌— शेषात्‌ धातोः कर्तरि लस्य परस्मैपदम्‌ |


विकरणम्‌


चर्करीतं च इति गणसूत्रेण यङ्लुगन्तधातवः आदादिकाः | अतः तत्र शपः लुक्‌ भवति, अदादिगणवत्‌ | अत्र प्रथमतया कर्तरि शप्‌ (३.१.६८) इत्यनेन धातुतः शप्‌-प्रत्ययः भवति, कर्त्रर्थक-सार्वधातुकप्रत्यये | तदा अदिप्रभृतिभ्यः शपः (२.४.७२) इत्यनेन अदादिगणे स्थितेभ्यः धातुभ्यः विहितस्य शप्‌-प्रत्ययस्य लुक्‌ भवति |


अन्ये सर्वे आतिदेशिकधातवः भ्वादिगणीयाः, यथा सन्नन्ताः, णिजन्ताः, यङन्ताः | तेषां सर्वेषां कृते शप्‌-विकरणप्रत्ययः भवति |


कर्तरि शप्‌ (३.१.६८) = धातुतः शप्‌-प्रत्ययः भवति, कर्त्रर्थक-सार्वधातुकप्रत्यये परे | कर्तरि सप्तम्यन्तं, शप्‌ प्रथमान्तं, द्विपदमिदं सूत्रम्‌ | सार्वधातुके यक्‌ (३.१.६७) इत्यस्मात्‌ सार्वधातुके इत्यस्य अनुवृत्तिः | प्रत्ययः (३.१.१), परश्च (३.१.२) इत्यनयोः अधिकारः | धातोरेकाचो हलादेः क्रियासमभिहारे यङ्‌ (३.१.२२) इत्यस्मात्‌ धातोः इत्यस्य अधिकारः | अनुवृत्ति-सहितसूत्रम्‌— धातोः शप्‌ प्रत्ययः परश्च कर्तरि सार्वधातुके |


अदिप्रभृतिभ्यः शपः (२.४.७२) = अदादिगणे स्थितेभ्यः धातुभ्यः विहितस्य शप्‌-प्रत्ययस्य लुक्‌ (लोपः) भवति | अदिः प्रभृतिः (आदिः) येषां ते अदिप्रभृतयः बहुव्रीहिः, तेभ्यः अदिप्रभृतिभ्यः | अदिप्रभृतिभ्यः पञ्चम्यन्तं, शपः षष्ठ्यन्तं, द्विपदमिदं सूत्रम्‌ | ण्यक्षत्रियार्षञितो यूनि लुगणिञोः (२.४.५८) इत्यस्मात्‌ लुक्‌ इत्यस्य अनुवृत्तिः | अनुवृत्ति-सहितसूत्रम्‌— अदिप्रभृतिभ्यः शपः लुक्‌ |

Swarup – May 2018


०७_-_यङ्लुगन्तधातवः.pdf ‎(file size: 199 KB)